कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

इति

itiअ · indecl.

In 8 kośas: 3 synonym verses, 8 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.24 · p. 122
किं भवत्वस्तु पर्याप्तौ तादर्थ्ये तु कृते इति ।यतस्ततो येन तेन हेतौ तद्यद्धि सर्वथा ॥ २४ ॥
अनुष्टुप्
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अव्ययप्रकरणम् Suśīlanāmamālā 8.2811 · p. 458
निश्चयार्थे पुनरिति एव एवं तु वा च वै ।अहो ही विस्मयार्थे स्यादूम् च प्रश्नार्थवाचकः ॥ २८११ ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययाध्यायः Śabdaratnākara 6.2303 · p. 280
इति ह स्यात् संप्रदाय ऊं दुक्ते (उक्ते?) रोषसंभवे ॥ २३०३ ॥
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.246
इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु ॥ २४६ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.887 · p. 101
सदा सना च नित्यत्वे स्वस्ति स्यान्मङ्गलादिषु ।इतिशब्दः स्मृतो हेतौ प्रकारादिसमाप्तिषु ॥ ८८७ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास तान्ताः Dharaṇikośa 34.7.9 · p. 237
इति हेतुप्रकरणप्रकाशादिसमाप्तिषु ।निदर्शने प्रकारे चानुकर्षे च प्रकीर्तितः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.95 · p. 130
इति प्रकारादिसमाप्तिहेतु-प्रकाशदृष्टान्तविनिर्णयेषु ।स्वरूपसांनिध्यपरानुकर्षेतथैवमर्थेऽपि समामनन्ति ॥ ९५ ॥
उपेन्द्रवज्रा
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.23 · p. 300
पक्षान्तरे नियोगे च प्रशंसायां विनिग्रहे ।अस्तु प्रकर्षे पीडायां प्रशंसायाञ्च लङ्घने ॥असम्प्रत्यभ्यनुज्ञानेऽधिक्षेपासूययोरपि ।इति प्रकरणे हेतौ परकृत्यनुकर्षयोः ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.24 · p. 301
निदर्शनसमाप्त्योश्च प्रकारे च प्रकाशने ।उत प्रश्ने वितर्के च विकल्पे पादपूरणे ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययद्व्यक्षराध्यायः Śabdaratnākara 5.2.2264 · p. 275
आहो निन्दाहेतुचित्रेष्वाराद्दूरसमीपयोः ।इति हेतौ प्रकरणे प्रकारादिसमाप्तिषु ॥ २२६४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अनेकार्थाव्ययाध्यायः Vaijayantī 8.7.17 · p. 285
इति हेतुप्रकरणप्रकारादिसमाप्तिषु ।विस्तारेंऽगीकृतावूरी स्यादुरर्यूररी यथा ॥ १७ ॥
अनुष्टुप्