नमस्कारी
namaskārīस्त्री · fem.In 8 kośas: 8 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.
नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि ॥ १४१ ॥
अनुष्टुप्
genderस्त्रीfem.
संकोचनी नमस्कारी समङ्गा च प्रसारिणी ।स्पर्शलज्जाऽपि लज्जालुः स्याल्लज्जा लज्जरीत्यपि ॥ ५७१ ॥
अनुष्टुप्
genderस्त्रीfem.
नमस्कारी गण्डकाली समाङ्गा च शमीछदा ।समङ्गा रक्तपादी च रक्तमूला हिमच्छदा ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
रक्तपाद्यां नमस्कारी समङ्गाऽञ्जलिकारिका ।गण्डकाली शमीपत्रा रास्ना खदिरिका च सा ॥ २८६ ॥
अनुष्टुप्
genderस्त्रीfem.
नवनीतं तु शण्डे स्याद् घृतप्रकृतिवस्तुनि ।अत्रापि पूर्ववत् सादि नमस्कारी पुनः स्त्रियाम् ॥ २९८ ॥
अनुष्टुप्
genderस्त्रीfem.
खदिरा च नमस्कारी समङ्गा गण्डकाल्यपि ।कूर्चशीर्ष-मधुरक-ह्रस्वाङ्ग-शृङ्ग-जीवकाः ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
लज्जालुस्तु नमस्कारी कदल्यञ्जलिकारिका ।गण्डकाली कदल्यां तु लज्जालुश्च शमीफला ॥ ५८९ ॥
अनुष्टुप्
genderस्त्रीfem.
लज्जालुस्तु नमस्कारी बदर्यञ्जलिकारिका ।गण्डकाली खदर्यां तु लज्जालुः स्याच्छमीफला ॥ १४८ ॥
अनुष्टुप्
genderस्त्रीfem.
खदिरीसंज्ञके शाके नमस्कारस्तु ना नतौ ।नक्तञ्चर उलूके द्वे राक्षसे च त्रिषु त्वयम् ॥ २९९ ॥
अनुष्टुप्
meaningsखदिरीशाक
नमस्कारी as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप लज्जालुत्रिषु स्त्री तु नमस्कारीसंज्ञक्षुद्रलतान्तरे । अनूपजे जलोद्भूतवल्लिभेदे च यस्य वै ॥ १५६० ॥ Nānārthārṇavasaṃkṣepa 4.1560
- नानार्थार्णवसंक्षेप अञ्जलिकारिकानमस्कारीसमाख्ये च क्षुद्रवल्ल्यन्तरे त्रि तु । अञ्जलेः कारके(स्वा ? ऽथा)स्थिसङ्घात इति विश्रुते ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 8.3