All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
षडक्षरकाण्डः
इति पञ्चाक्षरकाण्डे नानालिङ्गाध्यायः ॥
पञ्चाक्षरकाण्डः समाप्तः ।
अथ षडक्षरकाण्डः ।
स्त्रीलिङ्गाध्यायः ।
अथैक एव शब्दः स्त्री दृष्टोऽस्माभिः षडक्षरे ।सा ख्यातेऽञ्जनकेशीति स्त्रियां हट्टविलासिनी ॥ १ ॥
8.1 · p. 104
अनुष्टुप्
इति षडक्षरकाण्डे स्त्रीलिङ्गाध्यायः ।
अथ षडक्षरकाण्डे पुल्लिँङ्गाध्यायः ।
अथ षट्स्वरपुल्लिँङ्गशब्दाध्यायः प्रदर्श्यते ।देवानां कवचे शैलभेदेऽप्यमरकङ्कटः ॥ १ ॥
8.1 · p. 104
अनुष्टुप्
इति षडक्षरकाण्डे पुल्लिँङ्गाध्यायः ।
अथ षडक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।
उपेत्य संग्रहे चाथ भवेल्लक्ष्मीनिकेतनम् ।सुगन्धामलकैः स्नाने लक्ष्म्याश्चायतने भवेत् ॥ २ ॥
8.2 · p. 104
अनुष्टुप्
इति षडक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।
अथ षडक्षरकाण्डे वाच्यलिङ्गाध्यायः ।
अथो षडक्षराः शब्दा वाच्यलिङ्गाश्च ये स्मृताः ।तेषामयमिहाध्यायो यथादृष्टं प्रणेष्यते ॥ १ ॥
8.1 · p. 105
अनुष्टुप्
इति षडक्षरकाण्डे वाच्यलिङ्गाध्यायः ।
अथ षडक्षरकाण्डे नानालिङ्गाध्यायः ।
अथो षडक्षराः शब्दा नानालिङ्गाश्च ये स्मृताः ।तेषामयमिहाध्यायः सम्प्रति प्रतिपाद्यते ॥ १ ॥
8.1 · p. 105
अनुष्टुप्
+ + + + + + + + + + अञ्जलिकारिका ।क्षुद्रजन्तुविशेषे च गजायुर्वेदभाषिते ॥ २ ॥
8.2 · p. 105
अनुष्टुप्metre not read in every line
नमस्कारीसमाख्ये च क्षुद्रवल्ल्यन्तरे त्रि तु ।अञ्जलेः कारके(स्वा ? ऽथा)स्थिसङ्घात इति विश्रुते ॥ ३ ॥
8.3 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अस्थिसन्नहनः पुंसि वल्लिजात्यन्तरेऽथ नप् ।अस्थ्नां सन्नहनेऽथ स्यादाग्रहायणिकः पुमान् ॥ ४ ॥
8.4 · p. 105
अनुष्टुप्
मार्गशीर्षाह्वये मासे यत् तु देय + + + + ।+ + + + + हायण्यां तत्र विद्यान्नपुंसकम् ॥ ५ ॥
8.5 · p. 105
metre not recognised
अत्र त्वाम्नायते सद्भिः पुमानानकदुन्दुभिः ।वसुदेवेऽथ तत् क्लीबमानकस्य च दुन्दुभेः ॥ ६ ॥
8.6 · p. 105
अनुष्टुप्
समाहारे (च ? ऽथ) शण्डे च स्त्रियां चोपनिमन्त्रणा ।श्यैतनौथसयोः साम्नोर्यद्गानं यज्ञकर्मणि ॥ ७ ॥
8.7 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रे (syllables merged)
तत्र स्यादर्थलिङ्गादि तर्कणीयं विचक्षणैः ।+ + + + + + + त्वे काहलायामथ स्मरेत् ॥ ८ ॥
8.8 · p. 106
अनुष्टुप्metre not read in every line
सम्भवत्सु समासेषु लिङ्गान्यर्थाश्च पूर्ववत् ।तोयप्रसादनः पुंसि कतकाख्यमहीरुहे ॥ ९ ॥
8.9 · p. 106
अनुष्टुप्
यथासमासमन्यत्र लिङ्गार्थाववधारयेत् ।दक्षिणाशारतोऽगस्त्यमुनौ पुंसि त्रिषु त्वयम् ॥ १० ॥
8.10 · p. 106
अनुष्टुप्
सक्तो यो दक्षिणाशायां तत्रान्यत्र तु पूर्ववत् ।पारावतपदी + + + + + + + भेषजे ॥ ११ ॥
8.11 · p. 106
अनुष्टुप्metre not read in every line
पारावतस्य पादे स्यात् पारावतपदं नपि ।पानीयसम्भवं तु क्ली (रू ? कू)प्याख्यलवणान्तरे ॥ १२ ॥
8.12 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
त्रि तु यत् किञ्चिदन्यत् स्यात् तत्र नीरसमुद्भवम् ।पुष्पाभिकीर्णकस्तु द्वे स्याद्दर्वीकरसंज्ञिनाम् ॥ १३ ॥
8.13 · p. 106
अनुष्टुप्
भुजङ्गमानां भेदे च वैकरञ्जाख्यभोगिनाम् ।भेदे च यस्तु पुष्पैः स्यादभिकीर्णस्त्रि तत्र हि ॥ १४ ॥
8.14 · p. 106
अनुष्टुप्
+ + + + + + + + + + + र्थश्च पूर्ववत् ।+ + + कीर्णं दीर्त्यं(?) पुनः सामान्तरे नपि ॥ १५ ॥
8.15 · p. 106
metre not recognised
त्रिषु तु स्याद्दिवाकीर्त्ये महतीत्यवधारयेत् ।अथ स्यात् करुणाभिख्ये मल्लिकाकुसुमः पुमान् ॥ १६ ॥
8.16 · p. 106
अनुष्टुप्
फलवृक्षे च जानीयाल्लिङ्गमर्थं च पूर्ववत् ।सम्भवत्सु समासेषु मृत्युसंयमनः पुनः ॥ १७ ॥
8.17 · p. 106
अनुष्टुप्
पुंस्यासनप्रभेदे स्यात् तस्य लक्षणमुच्यते ।भुजवेष्टितजङ्घोरो(श्चूलिकाश्लेषितावनेः) ॥ १८ ॥
8.18 · p. 107
अनुष्टुप्metre not read in every line
पृष्ठतो भुजपाशश्चेन्मृत्युसंयमनो हि सः ।इत्येवमथ लिङ्गार्थसमासान् पूर्ववत् स्मरेत् ॥ १९ ॥
8.19 · p. 107
अनुष्टुप्
कुङ्कुमे तु विजानीयात् क्लीबे लोहितचन्दनम् ।अस्त्री तु लोहिते विद्याच्चन्दनेऽथ स्त्रियां भवेत् ॥ २० ॥
8.20 · p. 107
अनुष्टुप्
ऋद्धिसंज्ञकभैषज्यभेदे सर्वजनप्रिया ।सम्भवत्सु समासेषु लिङ्गार्थावपि पूर्ववत् ॥ २१ ॥
8.21 · p. 107
अनुष्टुप्
अथो नपुंसकं क्षीरे ज्ञेयं सोमरसोद्भवम् ।यत् त्वन्यत् सोमरसजं तत्र स्याद्भेद्यलिङ्गकम् ॥ २२ ॥
8.22 · p. 107
अनुष्टुप्
हिरण्यकशिपुः पुंसि प्रह्लादपितरि स्मृतः ।हिरण्यचित्रितकुथे पुनः स्यात् पुन्नपुंसकम् ॥ २३ ॥
8.23 · p. 107
अनुष्टुप्
हिरण्मयं तु यत् किञ्चित् कशिप्वर्थतया स्मृतम् ।तत्राप्यपूरि चाध्यायः काण्डं चापि ह्यपूर्यत ॥ २४ ॥
8.24 · p. 107
अनुष्टुप्