रास्ना
rāsnāस्त्री · fem.In 12 kośas: 15 synonym verses, 6 as a nānārtha head word, 25 as a meaning of another word.
नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली ॥ ११४ ॥नकुलेष्टा भुजङ्गाक्षी छत्राकी सुवहा च सा ।
अनुष्टुप्
genderस्त्रीfem.
एलापर्णी तु सुवहा रास्ना युक्तरसा च सा ।
अनुष्टुप्
genderस्त्रीfem.
कण्टारिका क्षेत्रदूती लक्ष्मणा कपटेश्वरी ।स्यान्निःस्नेहफला रास्ना नाकुली च प्रियंकरी ॥ ४५८ ॥
अनुष्टुप्
genderस्त्रीfem.
क्रपिरास्नाशिराकालाशंवा कृष्णोष्णिकाश्रियाम् ।रोचनासरघाधाय्यासृक्कापण्यातसीभुवाम् ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
तुल्या सुधा स्वधा धाना रास्ना सूना कृपाऽपि च ।झञ्झा पंपा प्रपा तद्वद्वपा शंपा शिफाऽथ च ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
स्याद्रस्या रसना रास्ना रसा युक्तरसा च सा ।विरसा सुवहा गन्धमूला युक्ता च नाकुली ॥ ६६ ॥
अनुष्टुप्
genderस्त्रीfem.
रक्तपाद्यां नमस्कारी समङ्गाऽञ्जलिकारिका ।गण्डकाली शमीपत्रा रास्ना खदिरिका च सा ॥ २८६ ॥
अनुष्टुप्
genderस्त्रीfem.
कटम्बरा काण्डरुहा रास्ना तिक्तकरोहिणी ।तिक्ताऽरिष्टा कटुर्मत्स्या चक्राङ्गी शकुलादनी ॥ २९९ ॥
अनुष्टुप्
genderस्त्रीfem.
आकृत्या शिंशिपाद्याश्च लाला रास्नाङ्गुली वचा ।शिम्बाकृष्णोष्णिकास्पृक्काशिलापण्यातसीभुवः ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
रास्ना सुगन्धा सुरसा च्छत्राकी गन्धनाकुली ।भुजङ्गाक्षी च सुवहा नकुलेष्टा च नाकुली ॥
अनुष्टुप्
genderस्त्रीfem.
एलापर्णी युक्तरसा रास्ना च सुवहा रसा ।चाङ्गेरिका स्याच्चाङ्गेरी चुक्रिका चाम्ब्ललोलिका ॥
अनुष्टुप्
genderस्त्रीfem.
प्रियङ्गुः शिंशपामुस्तामलयूःशङ्खिनीसुरा ।घुटिकाघातकीरास्नाताम्बूलीसुषवी बला ॥
अनुष्टुप्
genderस्त्रीfem.
पशुगन्धा बस्तगन्धा शृङ्गी परमसूरिका ।सुरसा नाकुली रास्ना छत्राकी गन्धनाकुली ॥ ५६९ ॥
अनुष्टुप्
genderस्त्रीfem.
माषपर्णी तु काम्बोजी यवपुष्पा महासहा ।रास्ना तु सुवहा युक्तरसैलापर्णिका च सा ॥ ६१८ ॥
अनुष्टुप्
genderस्त्रीfem.
नाकुली सुवहा रास्ना छत्राकी सर्वलोचना ।गन्धिनी स्यात्तालपर्णी दैत्या गंधकुटी मुरम् ॥ ९८ ॥
अनुष्टुप्
genderस्त्रीfem.
लग्नं राश्युदये चापि रास्नैलापर्णिकापि च ।श्येनौ विहंगमश्वेतौ विन्नौ लब्धविचारितौ ॥
अनुष्टुप्
meaningsएलापर्णिका
रागेऽपि परमप्रीतौ रज्जुस्तु स्याद्वराटके ।अष्टहस्तप्रमाणे च रास्ना तु सुवहाह्वये ॥ ८३ ॥
अनुष्टुप्
meaningsसुवहा
भेषजे चापि धेनौ च राठा सुह्मेषु नीवृति ।शोभायां चाथ राजिः स्यात् क्षेत्रेऽधो रसनस्य च ॥ ८४ ॥
अनुष्टुप्
doubtful
कङ्केल्लिमल्ल्योर्मृत्स्ना तु तुवरीमृत्सयोरपि ।रास्ना च स्याद्भुजङ्गाक्ष्यामेलापर्ण्यामपि स्त्रियाम् ॥ २४५ ॥
अनुष्टुप्
रत्नं श्रेष्ठे मनोज्ञे च मणावपि नपुंसकम् ।रास्ना स्त्रियां भुजङ्गाक्ष्यामेलापर्ण्यौषधावपि ॥
अनुष्टुप्
रास्ना as a meaning in nānārtha verses
- धरणिकोश भद्राभद्रं मुस्तकसाधुनोः सुतसुखश्रेष्ठेषु भद्रा पुन- र्गम्भारीजघनेफलासुरसरिद्रास्नार्धचन्द्रासु च । भद्रो मेरुकदम्बके च वृषभे भद्रस्तथा खञ्जने भद्रः कुञ्जरजातिभेदकरणे भद्रं स्मृतं मङ्गलम् ॥ Dharaṇikośa 26.3.2
- धरणिकोश श्रेयसीश्रेयः स्यान्मङ्गले धर्मे प्रशस्तेऽतिशयादपि । श्रेयसी करिपिप्पल्यां रास्ना च श्रेयसी स्मृता ॥ Dharaṇikośa 31.3.8
- कोषकल्पतरु रसनपिण्डीतके च श्वसिते तु षण्ढे- ऽथाच्छादने स्याद्वसनं च वस्त्रे । स्वादे ध्वनौ स्याद्रसनं स्त्रियां तु रास्नाभिधानेऽथ न पुंसि काञ्च्याम् ॥ १३ ॥ Koṣakalpataru 6.21.13
- कोषकल्पतरु भद्रस्त्रियां तु रास्नासुरनिम्नगार्थो- ऽनन्ताकणाकट्फलवाचकः स्यात् । तिथौ च विष्टौ चरमे तु हेम्नि कल्याणमुस्तार्थ[क]ईरितश्च ॥ ४६ ॥ Koṣakalpataru 6.27.46
- कोषकल्पतरु नाकुलीयोषित्त्वम्भः पिप्पलीवाचकं स्या- त्ताम्बूलं स्यान्नागवल्ल्यामथान्त्ये । पूगेऽथ स्यान्नाकुली चव्यरास्ना ख्यायां तद्वत्कुक्कुटीकन्दकेऽपि ॥ ६३ ॥ Koṣakalpataru 6.28.63
- कोषकल्पतरु नेपालीपाण्डवभेदे बभ्रौ नकुलः स्त्री कर्कटीमांस्योः । नेपाली नवमाल्यां मनःशिलायां च रास्नायाम् ॥ ६४ ॥ Koṣakalpataru 6.28.64
- कोषकल्पतरु पलंकषास्यात्किंनरे किंपुरुषोऽपि लोके- ऽथालंबुषश्छर्दनरक्षसोर्ना । गण्डीरिकास्वर्गवधूषु च स्त्री पलंकषा गोक्षुररास्नयोश्च ॥ ७० ॥ Koṣakalpataru 6.30.70
- कोषकल्पतरु रसतिक्तादिके बोलकपारदे च द्रवेषु शृङ्गारमुखेषु वीर्ये । स्त्री सल्लकीकङ्गुमहीवृकीषु जिह्वासु रास्नास्वपि कीर्तितोऽयम् ॥ Koṣakalpataru 6.31.3
- कोषकल्पतरु श्रेयस्श्रेयस्तु धर्मे कुशले च मोक्षे- ऽन्यवत्प्रशस्येऽप्यथ योषिति स्यात् । रास्नाभयावारणपिप्पलीषु स्रोतोऽम्बुवेगेन्द्रिययोर्द्वयोने ॥ ३ ॥ Koṣakalpataru 6.31.3
- कोषकल्पतरु सुवहावीणाशेफालिकयो रास्नायां स्यादथो परवत् । सम्यग्वहेऽथ शत्रौ कल्लोहः कुत्सिते लोहे ॥ ५५ ॥ Koṣakalpataru 6.32.55
- नानार्थार्णवसंक्षेप भद्रासाधौ च स्त्री तु भद्रा स्याद् दूर्वाशारिबयोस्तथा । रास्नायां चाथ पक्षस्य त्रयः स्युस्तिथिपञ्चकाः ॥ ८८१ ॥ Nānārthārṇavasaṃkṣepa 2.5.881
- नानार्थार्णवसंक्षेप छत्राकीछत्राकीत्येव रास्नायां छगलस्तु द्वयोरजे । ऋषिभेदे तु ना स्त्री तु च्छगली वृद्धराजके ॥ ७५९ ॥ Nānārthārṇavasaṃkṣepa 4.759
- नानार्थार्णवसंक्षेप नाकुलीऊर्ध्वज्ञोरुपविष्टस्य भुजाभ्यां जङ्घयोर्द्वयम् । बद्धासनमिति स्त्री तु रास्नायां नाकुली तथा ॥ १०१२ ॥ Nānārthārṇavasaṃkṣepa 4.1012
- नानार्थार्णवसंक्षेप सुवहासद्व्रते सुवहा तु स्त्री सल्लकीरास्नयोरपि । शेफालिकायामपि च तथा गोधापदीति या ॥ १९७२ ॥ Nānārthārṇavasaṃkṣepa 4.1972
- नानार्थार्णवसंक्षेप सर्पलोचनाबहुव्रीहावथान्यत्र समासे पूर्ववत् स्मरेत् । रास्नासंज्ञे तु भैषज्ये स्त्रियां स्यात् सर्पलोचना ॥ १०३ ॥ Nānārthārṇavasaṃkṣepa 7.103
- शिवकोष रसास्त्री रास्नाशल्लकीपाठाद्राक्षामूर्वामुदीषु च । Śivakoṣa 27.1.3
- शिवकोष श्रेयसीरास्नायां करिपिप्पल्यामभयावचयोरपि । सुरसस्तु द्वयोरर्जे तुलसीरास्नयोः स्त्रियाम् ॥ ५३० ॥ Śivakoṣa 27.2.530
- शिवकोष सुवहारास्नाशेफालिकागोधापद्येलापर्णिकासु च । Śivakoṣa 28.2.2
- शब्दरत्नावली रसनामार्जनो लोध्रवृक्षे स्यात्क्लीबं मार्ष्टौ तु मार्जनम् । मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु ॥ मैथुनं सङ्गते क्लीबं सुरते च नपुंसकम् । यमनो ना यमे क्लीबं बन्धे चोपरतावपि ॥ यवनो जातिभिद्देशभिदोर्वेगाश्वयोरपि । यवन्योषधिभेदे स्त्री वेगिनि त्वभिधेयवत् ॥ यापनं स्यान्निरसने कालक्षेपे च वर्त्तने । युवा श्रेष्ठे च तरुणे निसर्गबलसंयुते ॥ योजनं स्याच्चतुष्क्रोश्यां योगमाने परात्मनि । रसनं स्वादने शब्दे स्याद्रास्नाजिह्वयोः स्त्रियाम् ॥ Śabdaratnāvalī 7.20.68
- शब्दरत्नावली भद्रापुंसि क्लीबं शातकुम्भे तथा मङ्गलमुस्तयोः । स्त्रियां कृष्णा व्योमगङ्गारास्नाप्रसारिणीषु ॥ Śabdaratnāvalī 7.27.26
- शब्दरत्नावली पलङ्कषारास्नाकिंशुकयोः स्त्री तु राक्षसे तु पलङ्कषः । वीरवृक्षस्तु भल्लातककुभद्रुमयोरपि । भूतवृक्षस्तु शाखोटद्रुमश्योनाकवृक्षयोः ॥ Śabdaratnāvalī 7.31.34
- शब्दरत्नावली सुरसासारसं पङ्कजे क्लीबं स्यात्पुमान् पक्षिचन्द्रयोः । साहसन्तु बलात्कारकृतकार्ये दमेऽपि च ॥ सुरसा स्त्री तु पर्णसे रास्नायां नागमातरि । स्रोतः स्यादिन्द्रिये नीरवेगेऽपि च नपुंसकम् ॥ Śabdaratnāvalī 7.32.38
- शब्दरत्नावली सुवहासुवहा शल्लकीवीणारास्नागोधापदीषु च । शेफालिकैलापर्ण्योश्च सुवहः सुखबाह्यके ॥ Śabdaratnāvalī 7.33.27
- त्रिकाण्डशेष रसनागतौ च यानं योनिस्तूत्पत्तिस्थाने भगेऽपि च । रसनन्तु ध्वनौ स्वादे रसज्ञारास्नयोः स्त्रियाम् ॥ २५५ ॥ Trikāṇḍaśeṣa 3.3.255
- वैजयन्ती श्रेयसीश्रेयसी हस्तिपिप्पल्यामभयारास्नयोरपि । सरस्वती सरिद्भेदे सरिन्मात्रे गवि क्षितौ ॥ ३३ ॥ Vaijayantī 8.5.33