कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

नानालिङ्गाध्यायः (13/18)

दयितेऽपि मृणालं त्रिर्मृदङ्गस्तु पुमानयम् ।महाकोशातकी स्वल्पफलकोशातकीति च ॥ १४४१ ॥
4.1441 · p. 173
अनुष्टुप्
ख्यातयोर्लतयोर्वाद्यभेदे च मुरजाह्वये ।प्रसवे तूक्तलतयोः क्लीबं स्यान्मृदुलं पुनः ॥ १४४२ ॥
4.1442 · p. 173
अनुष्टुप्
भेद्यवन्मृदुनि क्ली तु प्रसिद्धे गन्धवस्तुनि ।अगुर्विति मृगाक्षी तु स्त्रीलिङ्गा स्याल्लतान्तरे ॥ १४४३ ॥
4.1443 · p. 173
अनुष्टुप्
इन्द्रवारुणिकासंज्ञे मृगनेत्रेषु तु त्रिषु ।अथ प्राहुर्मृदुत्वक् स्याद् भूर्जाह्वयमहीरुहे ॥ १४४४ ॥
4.1444 · p. 173
अनुष्टुप्
मुञ्जे च त्रि तु मृदुलत्वचि मेचकवाक् तु ना ।कृष्णश्यामलयोर्ज्ञेयो गुणमात्रे त्रिषु त्वयम् ॥ १४४५ ॥
4.1445 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्रि (wrong syllable)
कार्ष्ण्ययुक्ते श्यामलत्वयुक्ते चाथ नृशण्डयोः ।मयूरचन्द्रके चापि स्तनस्यापि च चूचुके ॥ १४४६ ॥
4.1446 · p. 173
अनुष्टुप्
मेनादस्तु द्वयोश्छागे स्यान्मार्जारमयूरयोः ।मेहघ्नी तु हरिद्रायां स्त्री त्रिर्मेहस्य हन्तरि ॥ १४४७ ॥
4.1447 · p. 173
अनुष्टुप्
अमनुष्ये मेहनं तु क्लीबं मेढ्रे च शेफसि ।मेकलास्तु नृभूम्नि स्युर्विन्ध्यपर्यन्तसम्भवे ॥ १४४८ ॥
4.1448 · p. 174
अनुष्टुप्
नीवृद्भेदे शीतगुणे पुनः पुंस्येव मेकलः ।त्रि तु तद्वत्यथ क्लीबं म्लेच्छास्यं ताम्रसंज्ञके ॥ १४४९ ॥
4.1449 · p. 174
अनुष्टुप्
लोहे मुखे च म्लेच्छस्य स्यात् तस्य त्वसने स्त्रियाम् ।म्लेच्छास्या मेघजं तु क्ली जले त्रिर्मेघसम्भवे ॥ १४५० ॥
4.1450 · p. 174
अनुष्टुप्
मेधावी तु शुके द्वे स्यान्मेधावति तु भेद्यवत् ।मैथिलस्तु प्रदोषे ना जनकाख्ये च राजनि ॥ १४५१ ॥
4.1451 · p. 174
अनुष्टुप्
सीतायां तु स्त्रियां जेया मैथिली शब्दवेदिभिः ।मोदकस्त्वस्त्रियां पूपभेदे स्याद्भेद्यवत् पुनः ॥ १४५२ ॥
4.1452 · p. 174
अनुष्टुप्
स्यान्मोदयितृमोदित्रोरथ स्यात् पुंसि मोचकः ।शिग्रुवृक्षे मोक्तरि तु त्रिषु क्लीबं तु मोर(ग?ट)म् ॥ १४५३ ॥
4.1453 · p. 174
अनुष्टुप्metre not read in every line
इक्षुमूले प्रसूत्यादिसप्ताहादूर्ध्वजे गवाम् ।क्षीरे मोरकसंज्ञेऽन्ये पुनर्गो(चर?रस) ऊचिरे ॥ १४५४ ॥
4.1454 · p. 174
अनुष्टुप्metre not read in every line
मोरटा तु स्त्रियां मूर्वासंज्ञके भेषजान्तरे ।सूर्यावर्त्ते पर्णिकाख्यस्तम्बे च क्ली तु मोरकम् ॥ १४५५ ॥
4.1455 · p. 174
अनुष्टुप्
प्रसवादिकसप्ताहादूर्ध्वदुग्धे पयस्यदः ।त्रि तु मोरितरि ज्ञेयः स च सवेष्टकः स्मृतः ॥ १४५६ ॥
4.1456 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
मोहनं क्ली रते मोहे मोहनी तु स्त्रियामियम् ।नवानां विष्णुशक्तीनामेकशक्तावना पुनः ॥ १४५७ ॥
4.1457 · p. 174
अनुष्टुप्
मोहना मोहयत्यर्थे मौष्टिकस्तु पुमानयम् ।स्वर्णकारे भेद्यवत् तु स्मृतो मुष्टिप्रहारिणि ॥ १४५८ ॥
4.1458 · p. 174
अनुष्टुप्
यशोदा त्वग्निचित्याया इष्टकासु च कासुचित् ।नन्दगोपस्य भार्यायां त्रिस्तु कीर्तेः प्रदातरि ॥ १४५९ ॥
4.1459 · p. 175
अनुष्टुप्
यवनस्तु द्वयोर्मर्त्यजातिभेदे यदुद्भवः ।शूद्रायां क्षत्त्रियादन्ये पुनराहुर्मनीषिणः ॥ १४६० ॥
4.1460 · p. 175
अनुष्टुप्
वैश्यायां क्षत्त्रियाज्जात इति पुम्भून्नि तु स्मृतः ।नीवृद्भेदे हि यवना हुरुष्करसमाख्यके ॥ १४६१ ॥
4.1461 · p. 175
अनुष्टुप्
तद्देशजातमर्त्ये तु द्वयोः सर्ववचस्यपि ।क्लीबं तु मिश्रणेऽथ स्याद् यजत्रं क्लीबलिङ्गकम् ॥ १४६२ ॥
4.1462 · p. 175
अनुष्टुप्
अग्निहोत्रे च यज्ञोपकरणे चाथ भेद्यवत् ।यजनीयेऽथ नब्लिङ्गं यमकं कवयो विदुः ॥ १४६३ ॥
4.1463 · p. 175
अनुष्टुप्
भिन्नार्थवर्णसङ्घातावृत्तिरूपे व्यवस्थिते ।काव्यालङ्कारभेदे स्यात् तैलसर्पिर्द्वयेऽपि च ॥ १४६४ ॥
4.1464 · p. 175
अनुष्टुप्
रभसस्तु वदत्येतत् संयंम यमलेऽपि च ।अथो यमयितर्येतद् भेद्यवत् स्याद्द्वयोः पुनः ॥ १४६५ ॥
4.1465 · p. 175
अनुष्टुप्
यज्ञार्हः कृष्णसाराख्यमृगे त्रिर्यागयोग्यके ।यज्ञियस्तु पुमान् मुञ्जे यज्ञकर्मार्हके त्रिषु ॥ १४६६ ॥
4.1466 · p. 175
अनुष्टुप्
यविष्ठः सवनाहुत्यर्थेऽग्नौ ना भेद्यवत् पुनः ।भवेद्युवतमेऽथ स्याद् याजकः पुंसि ऋत्विजि ॥ १४६७ ॥
4.1467 · p. 175
अनुष्टुप्
स्याद्यष्ट्टयाजयित्रोस्त्रिरथ स्यात् पुंसि याज्ञिकः ।कुशे च याजके चापि रभसः प्रोक्तवानमुम् ॥ १४६८ ॥
4.1468 · p. 175
अनुष्टुप्
यज्ञविद्यामधीयाने विदत्यप्यथ भेद्यवत् ।यज्ञेन जयतीत्यादौ याजन्यस्तु पुमानयम् ॥ १४६९ ॥
4.1469 · p. 175
अनुष्टुप्
यज्ञे द्वे तु क्षत्त्रियेऽथ यापना नप्स्त्रियोर्भवेत् ।प्रस्थापने निरसने वर्तने रभसः पुनः ॥ १४७० ॥
4.1470 · p. 175
अनुष्टुप्
कालक्षेपेऽप्यभाषिष्ट शब्दज्ञो यामुनं पुनः ।क्लीबमञ्जनभेदे स्यात् स्रोतोञ्जनमिति श्रुते ॥ १४७१ ॥
4.1471 · p. 176
अनुष्टुप्
यमुनायाः पुनस्त्रि स्यात् सम्बन्धिन्यथ यामकौ ।स्तः पुनर्वसुनक्षत्रे त्रि तु यन्तरि ना पुनः ॥ १४७२ ॥
4.1472 · p. 176
अनुष्टुप्
याचको यवभेदे स्यात् कुल्माषाख्ये परे पुनः ।अलक्तकेऽपि त्रिस्तु स्याद् यवितर्यथ यावनः ॥ १४७३ ॥
4.1473 · p. 176
अनुष्टुप्
ना तुरुष्काख्यनिर्यासे स्त्रीनपोस्तु हि यावना ।अर्थे यावयतेर्ना तु युञ्जानः सारथौ त्रि तु ॥ १४७४ ॥
4.1474 · p. 176
अनुष्टुप्
योक्तरि ब्राह्मणे तु द्वे युतकं तु नपुंसकम् ।यौतके युगले चापि संश्रये वसनाञ्चले ॥ १४७५ ॥
4.1475 · p. 176
अनुष्टुप्
शूर्पाग्रे योषितो वस्त्रभेदे युक्ते तु भेद्यवत् ।युग्मावयवयोश्चाथ योजनं परमात्मनि ॥ १४७६ ॥
4.1476 · p. 176
अनुष्टुप्
क्ल्यध्वमाने चतुष्क्रोशे मगधादिषु भूमिषु ।अष्टक्रोशं तु देशेषु कोसलादिषु मन्वते ॥ १४७७ ॥
4.1477 · p. 176
अनुष्टुप्
तथा युक्तिक्रियायां च लतापूगे तु पुंस्यथ ।पित्रादेः कन्ययाप्तार्थे लेख्ये च नपि यौतकम् ॥ १४७८ ॥
4.1478 · p. 176
अनुष्टुप्
त्रिस्त्वात्मीयेऽथ रसनं क्ली कषायद्रवान्नयोः ।स्नेहे विषे फले चापि निर्यासे हेमरूप्ययोः ॥ १४७९ ॥
4.1479 · p. 176
अनुष्टुप्
आस्वादने तु जिह्वायामपि स्याद्रसना न ना ।शब्दने च रसज्ञा तु जिह्वायां स्त्री त्रिषु त्वसौ ॥ १४८० ॥
4.1480 · p. 176
अनुष्टुप्
रसस्य ज्ञातरि स्यात् तु (नै ? वै)कृन्त इति विश्रुते ।अयोभेदे पुमान् सारे त्वयसो रसकः पुमान् ॥ १४८१ ॥
4.1481 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मांसस्य च स्यान्निष्क्वाथे भेद्यलिङ्गं तु कर्तरि ।धातो रसयतेः स्यात् तु रसज्ञे रसिकस्त्रिषु ॥ १४८२ ॥
4.1482 · p. 177
अनुष्टुप्
ना तु मद्यविशेषे स्यादपक्वेक्षुरसैः कृते ।रसितं मेघनिर्वोषे रुते च स्यान्नपुंसकम् ॥ १४८३ ॥
4.1483 · p. 177
अनुष्टुप्
त्रिषु त्वास्वादिते चैव स्वर्णादिखचितेऽपि च ।वस्त्रनिर्णेजके तु द्वे शुके च रजकस्त्रि तु ॥ १४८४ ॥
4.1484 · p. 177
अनुष्टुप्
मृगाणां स्याद्रमयितर्यथ क्ली रजतं विदुः ।पुंस्यप्येके विदू रूप्यहारयोः शोणिते ह्वदे ॥ १४८५ ॥
4.1485 · p. 177
अनुष्टुप्
त्रि तु श्वेतेऽथ रजनं रागद्रव्ये नपुंसकम् ।रजनी तु हरिद्रायां स्त्री नील्यां चौषधौ निशि ॥ १४८६ ॥
4.1486 · p. 177
अनुष्टुप्
वल्लिभेदे च जतुकृत्संज्ञे क्लीबं तु रञ्जनम् ।स्याद्रक्तचन्दने स्त्री तु नीलीति प्रथितौषधौ ॥ १४८७ ॥
4.1487 · p. 177
अनुष्टुप्
मनःशिलायां च ज्ञेया हरिद्रायां च रञ्जनी ।स्यात् तु रञ्जयतेरर्थे रञ्जना स्त्रीनपुंसकम् ॥ १४८८ ॥
4.1488 · p. 177
अनुष्टुप्
रसालस्तु पुमानिक्षौ चूते च वरुणद्रुमे ।सम्मिश्ररसभेदे च कटुतिक्तकषायके ॥ १४८९ ॥
4.1489 · p. 177
अनुष्टुप्
त्रि तु स्यात् तद्वति स्त्री तु रसाला पानकान्तरे ।अपक्वतक्रं सव्योषचतुर्जातगुडार्द्रकम् ॥ १४९० ॥
4.1490 · p. 177
अनुष्टुप्
सजीरकं रसाला स्यादिति तस्याश्च लक्षणम् ।जिह्वायामपि दूर्वायां रभसः प्रोक्तवानिमाम् ॥ १४९१ ॥
4.1491 · p. 177
अनुष्टुप्
रल्लकस्तु पुमाञ्ज्ञेयः कम्बले स्याद्द्वयोः पुनः ।मृगभेदे रसोनस्तु पुमाल्लँशुनभेषजे ॥ १४९२ ॥
4.1492 · p. 177
अनुष्टुप्metre not read in every line
रसहीने पुनस्त्रि स्याद् रक्ताक्षस्तु द्वयोरयम् ।राक्षसे महिषे चापि रभसस्त्वाह शब्दवित् ॥ १४९३ ॥
4.1493 · p. 177
अनुष्टुप्
पारावते चकोरे च बहुव्रीहौ तु भेद्यवत् ।रक्ताङ्गस्तु पुमान् भौमे विद्रुमे तु नपुंसकम् ॥ १४९४ ॥
4.1494 · p. 178
अनुष्टुप्
कांम्बिल्यजीवन्त्योस्त्वाह स्त्रीलिङ्गं रभसः कविः ।अर्थलिङ्गसमासांश्च तर्कयेदिह पूर्ववत् ॥ १४९५ ॥
4.1495 · p. 178
अनुष्टुप्
रहस्या तु नदीभेदे स्त्रियां त्रिस्तु रहोभवे ।रवणस्तु पुमाञ्छन्दे षटोलाख्यलतान्तरे ॥ १४९६ ॥
4.1496 · p. 178
अनुष्टुप्
बल्लभे रभसः प्राह तस्य मूलं विचिन्त्यताम् ।कांस्यसंज्ञकलोहे तु क्ली रुते रमसः पुनः ॥ १४९७ ॥
4.1497 · p. 178
अनुष्टुप्
पटोलमूलेऽप्यपठीत् त्रिस्तु शब्दनशीलके ।उष्ट्रगर्दभयोस्तु द्वे भ्रमरे चाप्यधीयते ॥ १४९८ ॥
4.1498 · p. 178
अनुष्टुप्
रपठस्तु द्वयोर्ज्ञेयो मण्डूके विदुषि त्रि तु ।रभसस्तु पुमान् वेगे हर्षसंरम्भयोरपि ॥ १४९९ ॥
4.1499 · p. 178
अनुष्टुप्
त्रिस्तु स्यान्महति द्वे तु म्लेच्छे रमठ इत्ययम् ।त्रिस्तु क्रीडनशीले स्याद् रमणं तु नपुंसकम् ॥ १५०० ॥
4.1500 · p. 178
अनुष्टुप्
क्रीडायां पुंसि तु धवे स्त्रीभेदे तु स्त्रियामियम् ।रमणी रमयत्यर्थे पुनः स्याद्रमणा न ना ॥ १५०१ ॥
4.1501 · p. 178
अनुष्टुप्
रथाङ्गं रथचक्रे क्ली स्यन्दनावयवेऽपि च ।चक्रवाकाह्वये चापि पक्षिभेदे द्वयोरयम् ॥ १५०२ ॥
4.1502 · p. 178
अनुष्टुप्
अथ विद्याद्रक्तिका तु कृष्णलाख्यलतान्तरे ।स्त्रीलिङ्गा ना तु बन्धूके व्रूते म्लाने तु कश्चन ॥ १५०३ ॥
4.1503 · p. 178
अनुष्टुप्
रक्षोघ्नस्तु पुमाञ्छ्वेतसर्षपे त्रि तु हन्तरि ।अमनुष्ये रक्षसः स्याद् रसवत् त्वभिधेयवत् ॥ १५०४ ॥
4.1504 · p. 178
अनुष्टुप्
रसयुक्ते रसवती पुनः स्त्री स्यान्महानसे ।पञ्चरात्रे तु नब्लिङ्गं रात्रकं रभसोऽपठीत् ॥ १५०५ ॥
4.1505 · p. 178
अनुष्टुप्
स एवाह नृलिङ्गं तं वेश्यावेश्माब्दवासिनि ।राघवस्तु महामत्स्यविशेषे द्वे तथा रघोः ॥ १५०६ ॥
4.1506 · p. 179
अनुष्टुप्
वंश्ये द्वे रघुसम्बन्धिमात्रे तु त्रिषु भाषितः ।राजीवं त्वम्बुजे क्लीबं त्रिस्तु तद्वर्णवस्तुनि ॥ १५०७ ॥
4.1507 · p. 179
अनुष्टुप्
अजयस्त्वाह राजोपजीविनि द्वे तु मन्यताम् ।मत्स्यभेदे पक्षिभेदे मृगभेदे स चेदृशः ॥ १५०८ ॥
4.1508 · p. 179
अनुष्टुप्
हरिणाख्यो राजियुतो राजार्हं त नपुंसकम् ।कस्तूर्यण्डे भेद्यवत् तु राजयोग्ये स्त्रियां पुनः ॥ १५०९ ॥
4.1509 · p. 179
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
राजिका क्षवसंज्ञाके विज्ञेया सर्षपान्तरे ।केदारेऽपि च पङ्क्तौ च राजकं तु नपुंसकम् ॥ १५१० ॥
4.1510 · p. 179
अनुष्टुप्
राजवृन्दे राजितरि पुनस्त्रिरथ राक्षसः ।द्वे यातुधाने स्त्री तु स्याद् राक्षसी गन्धवस्तुनि ॥ १५११ ॥
4.1511 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
चण्डासंज्ञे त्रिषु पुना रक्षःसम्बन्धिनि स्मृतः ।शिशिरर्तुनिशायां तु राजसी स्त्री त्रिषु त्वयम् ॥ १५१२ ॥
4.1512 · p. 179
अनुष्टुप्
रजःसम्बन्धिनि क्ली तु रात्रिजं तारके त्रि तु ।रात्रिजाते रामकस्तु मर्त्यजात्यन्तरे द्वयोः ॥ १५१३ ॥
4.1513 · p. 179
अनुष्टुप्
त्रि तु रन्तरि ना तु स्याद् रागवान् पूगपादपे ।त्रि तु रागयुते ना तु रुचको भूषणान्तरे ॥ १५१४ ॥
4.1514 · p. 179
अनुष्टुप्
निष्के तु रभसः प्राह मातुलुङ्गाख्यभूरुहे ।फले तु तस्य विज्ञेयं नब्लिङ्गं रुचिरः पुनः ॥ १५१५ ॥
4.1515 · p. 179
अनुष्टुप्
सुन्दरे भेद्यवच्छन्दोवृत्तभेदे तु सा स्त्रियाम् ।रुचिरातिजगत्यां स्यात् तद्वृत्तमथ पुंस्ययम् ॥ १५१६ ॥
4.1516 · p. 179
अनुष्टुप्
रुधिरोऽङ्गारके क्ली तु शोणिते कुङ्कुमेऽपि च ।रुचिष्यं तु स्वादमाने त्रिः खद्योते पुनर्द्वयोः ॥ १५१७ ॥
4.1517 · p. 179
अनुष्टुप्
रुवथो ना ध्वनौ द्वे तु कुक्कुटे शाकटायनः ।पुनरव्रूत शकुनौ रेवटं तु नपुंसकम् ॥ १५१८ ॥
4.1518 · p. 180
अनुष्टुप्
दक्षिणावर्तशङ्खे च रेणुवातूलयोः पुमान् ।विषवैद्ये पुनर्द्वे स्याद् रेचनं तु नपुंसकम् ॥ १५१९ ॥
4.1519 · p. 180
अनुष्टुप्
रिक्तौ रेचयतेस्त्वर्थे रेचना न पुमानथ ।रेचनी स्त्री त्रिवृत्संज्ञलतायां रमसः पुनः ॥ १५२० ॥
4.1520 · p. 180
अनुष्टुप्
दन्तिकासंज्ञके गुल्मे कम्पिल्लेऽप्यथ रेचितम् ।क्लीबं वियोजने चापि तथा संपर्चनेऽपि च ॥ १५२१ ॥
4.1521 · p. 180
अनुष्टुप्
तथा रेचयतेरर्थे कृतायामेकया भ्रुवा ।भ्रूकुटौ तुरगाणां च गतिभेदेषु पञ्चसु ॥ १५२२ ॥
4.1522 · p. 180
अनुष्टुप्
धारासंज्ञेषु कस्मिंश्चिद् गतिभेदेऽस्य लक्षणम् ।आवक्रद्रुतगत्यात्मेत्यथ तद्वति भेघवत् ॥ १५२३ ॥
4.1523 · p. 180
अनुष्टुप्
कर्मभूते रेचयतेः सम्पृक्ते च वियोजिते ।रैवतस्तु पुमान् वारिवाहभूधरयोः स्मृतः ॥ १५२४ ॥
4.1524 · p. 180
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable)
आरग्वधे शैलभेदे शङ्करे रभसोऽपठीत् ।रेवतीकालजाते च तथा मेढ्रवति स्मृतः ॥ १५२५ ॥
4.1525 · p. 180
अनुष्टुप्
नपुंसकपदार्थे तु शण्डलिङ्गः स्त्रियां पुनः ।जातार्थे रेवतीत्येव लुप्यते ह्यत्र तद्धितः ॥ १५२६ ॥
4.1526 · p. 180
अनुष्टुप्
सम्बन्धिनि तु रेवत्या भेद्यलिङ्गं हि रैवतम् ।रोचना तु स्त्रियां रक्तकल्हारेऽपि वरस्त्रियाम् ॥ १५२७ ॥
4.1527 · p. 180
अनुष्टुप्
ईकारान्ता तु संज्ञेया रोचनी त्रिवृदाह्वये ।लताभेदे परेऽन्ये तु कृष्णत्रिवृति मन्वते ॥ १५२८ ॥
4.1528 · p. 180
अनुष्टुप्
मनःशिलायां काम्बिल्यसंज्ञवृक्षे च ना पुनः ।रोचनः कूटशल्मल्यां रोचनं तु नपुंसकम् ॥ १५२९ ॥
4.1529 · p. 181
अनुष्टुप्
रोचत्यर्थे रोचयतेः पुनरर्थे न ना मता ।रोचना रोहितस्तु स्याद् वृषभे रक्तवर्णके ॥ १५३० ॥
4.1530 · p. 181
अनुष्टुप्
रक्ते च वर्णे त्रिस्तु स्यात् तद्वदर्थे यदा तदा ।तत्रापि स्यात् स्त्रियां वृत्ती रोहिता रोहिणीति च ॥ १५३१ ॥
4.1531 · p. 181
अनुष्टुप्
द्वयोस्तु मत्स्यभेदे स्यान्मृगभेदे च यो मृगः ।स्याच्छ्वेतराजिमांस्तत्र शाश्वतस्तु ब्रवीत्यमुम् ॥ १५३२ ॥
4.1532 · p. 181
अनुष्टुप्
ऋश्यसंज्ञमृगे स्त्री तु रोहिणी सुरभौ स्मृता ।पण्डितै रक्तवर्णायां रोहितं तु नपुंसकम् ॥ १५३३ ॥
4.1533 · p. 181
अनुष्टुप्
स्यादृजौ शक्रचापे च तृणे च क्ली तु रोदनम् ।रुदितेऽश्रुणि च स्त्री तु दुःस्पर्शे रोदनी स्मृता ॥ १५३४ ॥
4.1534 · p. 181
अनुष्टुप्
रोहन्तस्तु पुमान् वृक्षे रोहन्ती तु स्त्रियामियम् ।लतायां भेद्यवत् तु स्याद् रोहतादिति कर्तरि ॥ १५३५ ॥
4.1535 · p. 181
अनुष्टुप्
रोचकस्तु पुमान् हस्तिकर्ण इत्यतिविश्रुते ।कम्बलस्य प्रभेदे स्यात् त्रि तु रोचितरि स्मृतः ॥ १५३६ ॥
4.1536 · p. 181
अनुष्टुप्
रोषाणस्तु पुमान् स्वर्णकषणग्राव्णि पारदे ।रोषणे भेद्यवत् प्रोक्तो रोषशीलो हि रोषणः ॥ १५३७ ॥
4.1537 · p. 181
अनुष्टुप्
ऊषणे रभसः प्राह तस्य मूलं विचिन्त्यताम् ।रोमशस्त्वृषिभेदे ना निम्बवृक्षेऽप्यथ द्वयोः ॥ १५३८ ॥
4.1538 · p. 181
अनुष्टुप्
मेषे स्याल्लोमशे तु त्रि स्त्रियां तु रभसोदिता ।काकजङ्घासहामेदामांसीषु पुनरप्ययम् ॥ १५३९ ॥
4.1539 · p. 181
अनुष्टुप्
कासीसे शूकशिम्ब्यां च रोपणस्तु शरे पुमान् ।रोहणासाधने तु त्रिरथो स्याद्रोपणा न ना ॥ १५४० ॥
4.1540 · p. 182
अनुष्टुप्
रोपणायां रोहिषस्तु मृगभेदे द्वयोरयम् ।विज्ञेयो गर्दभाभासे मत्स्यभेदे च नप् पुनः ॥ १५४१ ॥
4.1541 · p. 182
अनुष्टुप्
कत्तृणाकाशयोः स्त्री तु वात्यायां रोहिषी स्मृता ।रोहिणं त्वष्टसङ्ख्यानां लेख्यानामेकभेदके ॥ १५४२ ॥
4.1542 · p. 182
अनुष्टुप्
क्ली रोहिण्यृक्षजाते तु पुंसि मेढ्रवति स्मृतः ।क्लीबं तु शण्डे स्त्र्यर्थे तु रोहिण्येव न तद्धितः ॥ १५४३ ॥
4.1543 · p. 182
अनुष्टुप्
रौहिणस्तु पुमान् वारिवाहभूधरयोः स्मृतः ।भेद्यलिङ्गं तु रोहिण्याः सम्बन्धिन्यथ रौरवः ॥ १५४४ ॥
4.1544 · p. 182
अनुष्टुप्
पुमान्नरकभेदे स्यात् क्ली तु सामान्तरे त्रि तु ।रुरुसम्बन्धिनि तथा रभसस्तु भयङ्करे ॥ १५४५ ॥
4.1545 · p. 182
अनुष्टुप्
ललामस्त्वस्त्रियां ज्ञेयः प्रभावे पुरुषे नृपे ।ध्वजे चिह्ने च पुच्छे च पशुशृङ्गे च भूषणे ॥ १५४६ ॥
4.1546 · p. 182
अनुष्टुप्
छत्रे धामनि पुण्ड्रे च भेद्यलिङ्गं तु लिङ्गिनि ।श्रेष्ठे च द्वे तु घोटेऽथ नकारान्तं ललाम वै ॥ १५४७ ॥
4.1547 · p. 182
अनुष्टुप्
एष्वेवार्थेषु विज्ञेयं ललनं तु नपुंसकम् ।विलासे ललना तु स्त्री कामिन्यां रभसः पुनः ॥ १५४८ ॥
4.1548 · p. 182
अनुष्टुप्
जिह्वायां नाडिभेदे च लवणस्तु पुमानयम् ।दैत्यभेदे पटुरसे त्रि तु तद्वति वस्तुनि ॥ १५४९ ॥
4.1549 · p. 182
अनुष्टुप्
लवणद्रव्यसंसृष्टेऽप्यथ क्ली सैन्धवादिषु ।लताभेदे तु लवणी स्त्रियां स्यादथ लक्षणम् ॥ १५५० ॥
4.1550 · p. 182
अनुष्टुप्
जानीयात् कार्षिके चिह्ने नाम्नि मुद्राङ्गसम्पदोः ।क्लीबं स्याल्लक्षणा तु स्त्री भक्त्यां स्यादपुमान् पुनः ॥ १५५१ ॥
4.1551 · p. 182
अनुष्टुप्
दर्शने च विजानीयादङ्कने चाथ लक्ष्मणः ।रामानुजे पुमान् द्वे तु सारसाभिख्यपक्षिणि ॥ १५५२ ॥
4.1552 · p. 182
अनुष्टुप्
अन्ये तु सारसस्यैनां प्रियायां लक्ष्मणां विदुः ।स्त्रियां लतान्तरे पुत्रजननीनाम्नि लक्ष्मणा ॥ १५५३ ॥
4.1553 · p. 183
अनुष्टुप्
ज्योतिष्मतीसंज्ञके तु स्थावरे रभसोऽपठीत् ।त्रि तु लक्ष्मवति ज्ञेयं लडहस्तु पुमानयम् ॥ १५५४ ॥
4.1554 · p. 183
अनुष्टुप्
विलासे भेद्यलिङ्गं तु सुन्दरे शब्दवित् पुनः ।व्याचष्टे हर्षनन्दीमं विलासवति नप् पुनः ॥ १५५५ ॥
4.1555 · p. 183
अनुष्टुप्
ललन्तिकासमाख्ये स्याद् भूषण लम्बनं तथा ।स्याल्लम्बनक्रियायां च शकुने तु द्वतोरयम् ॥ १५५६ ॥
4.1556 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
ललितं हारभेदे क्ली लसितेऽथ त्रिरीप्सिते ।लङ्गनं तु गतौ क्लीबं लङ्गनी तु स्त्रियामियम् ॥ १५५७ ॥
4.1557 · p. 183
अनुष्टुप्
वस्त्रलम्बनदण्डे स्यात् तिरश्चीने गृहादिषु ।लङ्गनं तूपवासे स्यान्न नातिक्रमणेऽपि च ॥ १५५८ ॥
4.1558 · p. 183
अनुष्टुप्
रङ्गोपजीविनि पुनर्लङ्घको द्वे त्रिषु त्वयम् ।स्याल्लङ्घितरि लज्जालुः पुनर्लज्जनशीलके ॥ १५५९ ॥
4.1559 · p. 183
अनुष्टुप्
त्रिषु स्त्री तु नमस्कारीसंज्ञक्षुद्रलतान्तरे ।अनूपजे जलोद्भूतवल्लिभेदे च यस्य वै ॥ १५६० ॥
4.1560 · p. 183
अनुष्टुप्