लज्जा
lajjāस्त्री · fem.In 16 kośas: 18 synonym verses, 2 as a nānārtha head word, 8 as a meaning of another word.
व्रीडा लज्जा मन्दाक्षं ह्रीस्त्रपा सापत्रपान्यतः ॥ ३११ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यतः ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
कटाक्षो दृष्टिविक्षेप ईषच्च हसितं स्मितम् ।ह्रीर्लज्जापत्रपा व्रीडा त्रपा मन्दाक्षमुच्यते ॥ ५६७ ॥
अनुष्टुप्
genderस्त्रीfem.
घृणाऽनुकम्पानुक्रोशश्च कारुण्यं च प्रगीयते ।मन्दाक्षं ह्रीस्त्रपा लज्जा व्रीडा सापत्रपान्यतः ॥ १०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
निर्वहणा निर्वहणं निवर्हणमपीरितम् ।व्रीडा व्रीडश्च लज्जा स्यात् लज्या लज्जस्त्रपा त्रपः ॥ ५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 र्व (wrong syllable)
genderस्त्रीfem.
संकोचनी नमस्कारी समङ्गा च प्रसारिणी ।स्पर्शलज्जाऽपि लज्जालुः स्याल्लज्जा लज्जरीत्यपि ॥ ५७१ ॥
अनुष्टुप्
genderस्त्रीfem.
मन्दाक्षमपि मन्दाक्ष्यं लज्या लज्जा त्रपाह्रियौ ।व्रीडनं चाप्यथासूयेर्ष्यान्वीर्या क्षान्तिरित्यपि ॥ १३५ ॥
अनुष्टुप्
genderस्त्रीfem.
तोषस्तु धैर्यं स्वास्थ्यं च स्वस्थता च धृतिश्चतुप्रा(?) ।हृदयं लिखति कर्मण यग्घृदयस्य हृल्लेखेति हृत् ।द्वयोर्व्रीडस्त्रपा लज्जा ह्री ह्रीका ह्रीकया युता ।नटाम्बि(न्ति)का च मन्दाक्षं तदन्यस्मादपत्रपा ॥ १५३ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कीटनामा कीटमारी घृतमण्डालसेलुका ।लज्जावती तु लज्जालुर्लज्जा पृष्ठपुरोटिका ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
शस्त्री-जिह्वावाचिवम्री-नदीनांज्योत्स्ना-लज्जा-भूमि-वीणा-मतीनाम् ।तन्द्रा-चीरी-गर्गरी-भ्रू-सुरा-गी-र्नासा-लक्ष्मी-रोचना-कृष्णलानाम् ॥ २८ ॥
शालिनी
genderस्त्रीfem.
मोक्षबुद्धिर्मता ज्ञानं विज्ञप्तिः शास्त्रशिल्पयोः ।लज्जा व्रीडा त्रपा ह्रीश्च मन्दाक्षं चाथ संलयः ॥ २०७ ॥
अनुष्टुप्
genderस्त्रीfem.
लज्जा व्रीडा त्रपा ह्रीश्च मन्दाक्षं स्यादपत्रपा ।हासस्तु हासिका हास्यं हसनं हसितं स्मितम् ॥ ७९ ॥
अनुष्टुप्
genderस्त्रीfem.
व्रीडा लज्जा तथा ह्रीश्च ज्ञेया साऽपत्रपाऽन्यतः ।अथ जाड्यं तथा मौर्ख्यं विषादस्तु विषण्णता ॥ ४५८ ॥
अनुष्टुप्
genderस्त्रीfem.
क्षेपो निकारो धिक्कारः पर्यायः स्यादनादरे ।अथ मन्दाक्षमन्दास्यं लज्जा लज्जनं ह्रीस्त्रपा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नं (wrong syllable)
genderस्त्रीfem.
रात्रि लज्जा वाणी वीणा दिग्भूमिविद्युतामपि ।धीवल्ल्योर्नाम रजनी रात्रिलज्जात्रपा च ह्रीः ॥
metre not recognised
genderस्त्रीfem.
मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा ह्रीतिरपत्रपा ।व्रीडं स्नेहः पुमान् प्रेमा प्रियता प्रेम सौहृदम् ॥ ९७४ ॥
अनुष्टुप्
genderस्त्रीfem.
माया लज्जा परा सम्बित् त्रिगुणा भुवनेश्वरी ।हृल्लेखा शम्भुवनिता शक्तिर्देवीश्वरी शिवा ॥
अनुष्टुप्
genderस्त्रीfem.
मन्दाक्षं ह्नीस्त्रपा लज्जा व्रीला सापत्रपान्यतः ।हासिका तु हसो हासो हसनं हास्यघर्घरे ॥ १९४ ॥
अनुष्टुप्
genderस्त्रीfem.
लज्जा as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप मन्दाक्षना त्वग्नौ मरतो जन्तौ द्वे मन्दाक्ष पुनर्नपि । लज्जायां मन्ददृष्टो तु त्रिषु ----- च ॥ १३८१ ॥ Nānārthārṇavasaṃkṣepa 4.1381
- शिवकोष स्पृक्कास्पृक्कापृक्के माल्यवत्यां लज्जायां च स्त्रियामुभे । Śivakoṣa 1.2.5
- शब्दरत्नावली त्रपातापः कृच्छे च सन्तापे तापी नद्यन्तरे स्त्रियाम् । त्रपा स्त्री कुलटायाञ्च स्याल्लज्जाकुलकीर्तिषु । दर्पः पुमानहङ्कारे कस्तूर्यां दर्पकेऽपि च ॥ Śabdaratnāvalī 7.21.8
- शब्दरत्नावली दुस्सु भृशार्थे चानुमतौ समृद्धिपूजयोरपि । आः पीडायां स्मृतौ कोपे साटोपतर्जनेऽपि च ॥ इः कोपेऽपि च सन्तापे दुःखभावनयोरपि । निः साकल्ये चोभयार्थे निषेधे निश्चयेऽपि च ॥ दुः गतौ दूषणेऽपि स्याल्लज्जासम्भावनेऽपि च ॥ Śabdaratnāvalī 8.1.59
- तन्त्राभिधान ह्रींओङ्कारः प्रणवो ध्रुवश्च गिरिजे! तारश्च वेदादिको ह्रीं लज्जा गिरिजा च शक्तिरपि हृल्लेखा च माया परा । श्रींकारः कमला च विष्णुवनिता क्रोङ्कारबीजं शृणिः स्वाहा वह्निवधूः शिरोऽपि ठयुगं फट्कारमस्त्राक्षरम् ॥ ३२ ॥ Tantrābhidhāna 1.32
- तन्त्राभिधान ऐऐ-र्लज्जा भौतिकः कान्ता वायवी मोहिनी विभुः । दक्षा दामोदरः प्रज्ञाऽधरो विकृतमुख्यपि ॥ ३८ ॥ Tantrābhidhāna 2.13.38
- तन्त्राभिधान धसन्दर्शो मोहनो लज्जा वज्रतुण्डाधरो(रं) धरा । वामपादाङ्गुलेर्मूलं ज्येष्ठा सुरपुरं भवः ॥ ११५ ॥ Tantrābhidhāna 2.36.115
- तन्त्राभिधान षलम्बोदरो यमोऽजेशः कामधुक् काम(ल)धूमकः । सुश्रीरुष्मा वृषो लज्जा मरुद्भक्ष्यः प्रियः शिवः ॥ १५७ ॥ Tantrābhidhāna 2.48.157