कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पर्णिन्

parṇinपुं · masc.

In 3 kośas: 3 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1114 · p. 44
वृक्षोऽगः शिखरी च शाखिफलदावद्रिर्हरिद्रुर्द्रुमोजीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः ।नन्द्यावर्तकरालिकौ तरुवसू पर्णी पुलाक्यंह्रिपःसालानोकहगच्छपादपनगा रूक्षागमौ पुष्पदः ॥ १११४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.23 · p. 54
अमात्यादेर्गृहोद्याने वनं प्रमदपूर्वकम् ।तरुः शाखी नगो वृक्षः पर्णी कारस्करोंऽह्रिपः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1954 · p. 321
पादपः पुष्पदः पर्णी विटपी विष्टरस्तरुः ।शालः सालः पलाशी च पुलाकी फलदो वसु ॥ १९५४ ॥
अनुष्टुप्
genderपुंmasc.