कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हरिद्रु

haridruपुं · masc.

In 9 kośas: 8 synonym verses, 4 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1114 · p. 44
वृक्षोऽगः शिखरी च शाखिफलदावद्रिर्हरिद्रुर्द्रुमोजीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः ।नन्द्यावर्तकरालिकौ तरुवसू पर्णी पुलाक्यंह्रिपःसालानोकहगच्छपादपनगा रूक्षागमौ पुष्पदः ॥ १११४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.147
शतमूली बहुसुताभीरूरिन्दीवरी वरी ॥ १०० ॥ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी ।अहेरुरथ पीतद्रुकालीयकहरिद्रवः ॥ १०१ ॥दार्वी पचम्पचा दारुहरिद्रा पर्जनीत्यपि ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.210 · p. 272
हरिद्रुः पीतदारुः स्यात्सुपुष्पश्च सुराह्वयः ।पीतकोऽथ स्त्रियां दग्धा दग्धिका कर्कशच्छदा ॥ २१० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.14 · p. 135
द्रुर्हरिद्रुर्द्रुमः शाखी शिखरी विटपी कुठः ।कारस्करो विष्टरोऽद्रिर्नगोऽगः पुष्पदोऽगमः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.167 · p. 92
दार्वी दारुहरिद्रायां हरिद्रुः कण्टकेरुका ।पीतद्रुमः पीतदारुः पीतनं पीतचन्दनम् ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1952 · p. 321
वृक्षो रूक्षो द्रुमोऽद्रिश्च हरिद्रुर्द्रुर्महीरहः ॥ १९५२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.187 · p. 71
पीतद्रुश्च हरिद्रुश्च पर्जनी स्यात् पचम्पचा ।कालेयको हरिद्रा च तथा कालीयकोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.603 · p. 78
दार्वीदारुहरिद्रे तु हेमकाष्ठा कटंकटा ।कटंकटेरी पर्जन्या कालेयकहरिद्रवौ ॥ ६०३ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.247 · p. 32
हर्यश्वस्तु भवेत् पूर्वराजभेदे पुरन्दरे ।हरिद्रुस्तु कलाप्यन्तेवासिनि प्रथमे स्मृतः ॥ २४७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.248 · p. 32
तथा दारुहरिद्रायां वृक्षमात्रे तु कश्चन ।हिमारिस्तु रवौ वह्नौ हृच्छ्रयस्त्वपि मन्मथे ॥ २४८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.247 · p. 32
हर्यश्वस्तु भवेत् पूर्वराजभेदे पुरन्दरे ।हरिद्रुरतु कलाप्यन्तेवासिनि प्रथमे स्मृतः ॥ २४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.248 · p. 32
तथा दारुहरिद्रायां वृक्षमात्रे तु कश्चन ।हिमारिस्तु रवौ वह्नौ हृच्छ्रयस्त्वपि मन्मथे ॥ २४८ ॥
अनुष्टुप्

हरिद्रु as a meaning in nānārtha verses

  • कोषकल्पतरु प्रग्रहना खड्गकोशे कलहोऽपि राटौ युद्धे तथा भण्डनवाचकश्च । स्यात्प्रग्रहोऽश्वादिकरज्जुरश्मि- भुजेषु वन्द्यां नियमे हरिद्रौ ॥ ४५ ॥ Koṣakalpataru 6.32.45