विटपिन्
viṭapinपुं · masc.In 15 kośas: 14 synonym verses, 4 as a meaning of another word.
वृक्षोऽगः शिखरी च शाखिफलदावद्रिर्हरिद्रुर्द्रुमोजीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः ।नन्द्यावर्तकरालिकौ तरुवसू पर्णी पुलाक्यंह्रिपःसालानोकहगच्छपादपनगा रूक्षागमौ पुष्पदः ॥ १११४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वृक्षो महीरुहः शाखी विटपी पादपस्तरुः ।अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षोंऽह्रिपः क्षितिरुहः शिखरी च शाखी,शालो वनस्पतिरगो विटपी कुठश्च ।अद्रिः कुजस्तरुरनोकह इत्यभिन्नाः,शब्दा द्रुविष्टरनगद्रुमपादपाश्च ॥ १७७ ॥
वसन्ततिलका
genderपुंmasc.
अस्त्री निकुञ्जकुञ्जौ द्वे लतादिपिहितोदरे ।वृक्षस्तु विटपी स्कन्धी सीमाको हरितच्छदः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
वटो जटालो न्यग्रोधोऽवरोहा पादरोहणः ।विटपी मण्डपी शृङ्गी यक्षावासश्च रोहिणः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
द्रुर्हरिद्रुर्द्रुमः शाखी शिखरी विटपी कुठः ।कारस्करो विष्टरोऽद्रिर्नगोऽगः पुष्पदोऽगमः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
अनोकहस्तरुः शाखी विटपी फलिनो नगः ।द्रुमोऽङ्घ्रिपः फलेग्राही पादपोऽगो वनस्पतिः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
विटपी पादपश्चाद्रिर्द्रद्रुमौ विष्टरः कुठः ।वसुर्जर्णहरी सालोऽनोकहोऽगोऽपि पुष्पदः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
तरुर्महीरुहो वृक्षः पादपो विटपी कुटः ।पलाशी मूलपः शालो दुर्द्रुमो वल्लरीपतिः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षो द्रुमस्तरुः शाखी पादपश्च महीरुहः ।अनोकहोंऽह्रिपः सालः पलाशी विटपी कुटः ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
पादपः पुष्पदः पर्णी विटपी विष्टरस्तरुः ।शालः सालः पलाशी च पुलाकी फलदो वसु ॥ १९५४ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षः शाखी द्रुमो गच्छः पलाशी विटपी तरुः ।महीरुहो विष्टरः स्याद् महीरुट् पादपः कुचिः ॥
अनुष्टुप्
genderपुंmasc.
पादपवृक्षपलाशिद्रुमतरुकुटविटपिशाखिनगसालाः ।अगमो द्ररगो भूरुट् कुजोऽनोकह इत्यपि ॥ ४३९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पुष्पवाटी त्वमात्यादेस्त्रयी वाटी फलाय चेत् ।वृक्षो द्रुमो भूरुहो द्रुर्विटपी विष्टरोंऽघ्रिपः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
विटपिन् as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् विष्टरविष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् । Amarakośa 3.3.322
- धरणिकोश रोहितरोहितो हरिणमीनमेदयोः प्लीहशत्रुविटपी च रोहितः । रोहितं तु ऋजुशक्रकार्मुके कुङ्कमे सृजि च रोहितं स्मृतम् ॥ Dharaṇikośa 15.3.28
- कोषकल्पतरु द्रुमप्रोक्तः किंपुरुषेश्वरे विटपिनि स्यात्पारिजाते द्रुमः कुण्डे वारिविनिर्गमे भ्र[30b]म इति स्यान्मोहवाची द्वयोः । रामो दाशरथौ बले भृगुपतौ पश्वन्तरे वाच्यवत् त्वेष श्वेतमनोज्ञमेचकगतोऽन्त्ये वास्तुके कुष्टके ॥ ५६ ॥ Koṣakalpataru 6.25.56
- नानार्थार्णवसंक्षेप सालप्राकारे ना तु विटपिमात्रे वृक्षान्तरे तथा । अश्वकर्णाह्वये गत्यां मत्स्यभेदे तु स द्वयोः ॥ १४८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1487