शाल
śālaपुं · masc.In 19 kośas: 33 synonym verses, 9 as a nānārtha head word, 4 as a meaning of another word.
क्षुद्राण्डमत्स्यसङ्घातः पोताधानमथो झषाः ।रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षो महीरुहः शाखी विटपी पादपस्तरुः ।अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षोंऽह्रिपः क्षितिरुहः शिखरी च शाखी,शालो वनस्पतिरगो विटपी कुठश्च ।अद्रिः कुजस्तरुरनोकह इत्यभिन्नाः,शब्दा द्रुविष्टरनगद्रुमपादपाश्च ॥ १७७ ॥
वसन्ततिलका
genderपुंmasc.
हस्तिनखः परिकूटं च कथ्यते गोपुरं पुरद्वारम् ।वप्रं शालं प्राकारमाहुरररं कपाटं च ॥ २८८ ॥
आर्या
genderक्लीneut.
शालः शकुलः कुलिशो राजीवो रोहितश्च पल्लवकः ।शृङ्गीमद्गुरवागुसनन्द्यावर्तादयो महामत्स्याः ॥ ६५९ ॥
गीतिः
genderपुंmasc.
श्रेणिश्रेण्यौ पंक्तिपंक्त्यौ राजिराज्यौ समे मते ।रेखा लेखा भवेद्वृक्षे शालसालावुदीरितौ ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
जरन्तकः शतानीकस्ते श्वश्र्वौ मातरौ तयोः ।स्त्रीभ्राता देवरः शालः संयुक्तो वारकीति च ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
मेध्यः सौरभ्यदः शालनिर्यासस्त्वग्निवल्लभः ।रालः सर्जरसः शालः कालः कनकलोद्भवः ॥ ४१५ ॥
अनुष्टुप्
genderपुंmasc.
अनोकहोऽगः शिखरी शाखी शालः पलाश्यपि ।द्रुर्द्रुमोऽद्रिः कुटो नागो नन्द्यावर्त्तो हरिद्वसुः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
वल्लीवृक्षो वीरपर्णः शालः स्यादजकर्णकः ।कषायो ललनो गन्धवृक्षो रालोऽथ वंशकः ॥ १९० ॥
अनुष्टुप्
genderपुंmasc.
त्रिकण्टकोऽथ शालः स्याद् गन्धाहिः कूचिका द्वयोः ।स स्याच्छकुलगण्डोऽथ ब्राह्मी चम्पकपादुकः ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
मलशालातुलननकमलानां हलस्य च ।कङ्कालहालाहलयोः सौवर्चलमधूलयोः ॥ १८५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शालः शालो महामत्स्या नन्द्यावर्तादयः परे ।क्षुद्राण्डमत्स्यवृन्दं तु पोताधानं जलाण्डकम् ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
वीथी गृह[8b]तटी हट्टी पलिघः शालगोपुरम् ।शालः सालश्च वरणः प्राकारोऽथाश्मपीठभूः ॥ २५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पिसालश्च प्रियालश्च पटो द्राक्षाफलो धनुः ।शालः शाखामृगास्वाद्यत्वक्स्त्री तापसवल्लभः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
शालः सालः शङ्कुतरुः कार्श्योऽल्पस्तु लतातरुः ।अजकर्णो बस्तकर्णः सर्जको रञ्जनद्रुमः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
अश्वकर्णे दीर्घपत्रः कषायी सस्यसंवरः ।सज्जकः सर्जकः शूरः कार्शः शालो लतातरुः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
ऋद्धं च निर्बुसीधान्ये बहुलीकृतमिष्यते ।माषश्च कलमाः शाल्यः शालयः षष्टिकादयः ॥ ४३८ ॥
अनुष्टुप्
genderपुंmasc.
तरुर्महीरुहो वृक्षः पादपो विटपी कुटः ।पलाशी मूलपः शालो दुर्द्रुमो वल्लरीपतिः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
वप्रः शालः कोट्टदुर्गौ प्राकारो वरणश्चयः ।प्रतोली विशिखा रथ्या पुरद्वारं च गोपुरम् ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
पादपः पुष्पदः पर्णी विटपी विष्टरस्तरुः ।शालः सालः पलाशी च पुलाकी फलदो वसु ॥ १९५४ ॥
अनुष्टुप्
genderपुंmasc.
अथ मत्स्यप्रभेदास्तु रोहितोमद्गुरस्तथा ।शालराजीवशकुलास्तिमिश्चापि तिमिङ्गिलः ॥
अनुष्टुप्
genderपुंmasc.
रोहितो मत्स्यराजः स्याद् भालाङ्को लोहितस्तथा ।स्यान्मद्गुरो मद्गुरकः शालः शालजगर्जको ॥
अनुष्टुप्
genderपुंmasc.
प्राकारो वरणः शालः इष्टकारचिते त्रयम् ॥
genderपुंmasc.
तामलिप्ती, विदर्भायां कुडिनी कुण्डिनात् पुरम् ।द्वारकाऽनिकाररेफा, सालस्तालव्य-दन्त्यभृत् ॥ २८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
genderपुंmasc.doubtful
शालस्तालव्य-दन्त्यादिः शिखी शाख्यगमोऽगवत् ।पारिन्दश्चापि पालिन्दो गाथकेऽपि दलान्विते ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.
कर्कुन्धूर्घुट्टा घोण्टा च गोपघोण्टातने भवा ।नीपे कदम्ब-कलम्बौ शालस्तालव्य-दन्त्यवान् ॥ १५२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ट्टा (wrong syllable); pāda 3, syllable 6 क (wrong syllable)
genderपुंmasc.
शालः सालश्च नक्रे तु कुम्भी कुम्भीर इत्यपि ।शङ्खमुखः शङ्कुमुखः, ग्राहे तु तन्तु-तन्तुणौ ॥ ३६९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शालस्तथैव भेक्यां तु वर्षाभूरिति कथ्यते ।वर्षाभ्व्युद्भिदि चोद्भिज्जमुद्भिदं चोद्भिजं तथा ॥ ३७२ ॥
अनुष्टुप्
genderपुंmasc.
राजीवमकरमद्गुरवागुरपल्लवकशकुलशालाश्च ।नन्द्यावर्तकरोहितकुलिशप्रमुखाश्च मत्स्यभेदाः स्युः ॥ ३३३ ॥
गीतिः
genderपुंmasc.
शालः शकुलगण्डः स्यादन्धाहिः कूर्चिका द्वयोः ।ब्राह्मी तु पङ्कगण्डको लघुगर्गस्त्रिकण्टकः ॥ १३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ण्ड (wrong syllable)
genderपुंmasc.
लताशङ्कुतरुः शालो नीपो धाराकदम्बकः ।कटङ्कटेरी हरिद्रा शिंशपा युग्मपत्रिका ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
मत्स्याक्ष्यां शालशालीनौ पत्तूरो लोहमारकः ।अगस्त्ये मुनिमार्जारावगस्तिर्वंगसेनकः ॥ १५६ ॥
अनुष्टुप्
genderपुंmasc.
नन्द्यावर्तः सरलः शालः काको धवोऽञ्जनस्तिलकः ।पद्मस्पन्दनमोक्षा वृक्षविशेषेऽपि दृश्यन्ते ॥ ८१२ ॥
आर्या
meanings
स्कन्धसञ्जातशाखायां सूक्ष्मैलायां च ना पुनः ।पत्तूरे गमने त्रिस्तु गन्तरि श्वालवाक् तु ना ॥ १३४८ ॥
अनुष्टुप्
doubtful
शालः सर्जद्रुमे वृक्षमात्रप्राकारयोरपि ।स्थालं भोजनपात्रे स्यात्स्थाली च पाटलेखयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शाल as a meaning in nānārtha verses
- कोषकल्पतरु वरणजीर्णे वाच्यसमं पुराणमयुगे स्यात्पञ्चलक्ष्मण्यपि ग्रन्थे भोगिकनायके क्षुरिणि ना ग्रामाधिपे ग्रामणीः । श्रेष्ठे च त्रितये स्त्रियां तु गदिता नील्यां च वारस्त्रियां ग्राम्यायां च घृणौ तु[284a] पुंसि किरणो विक्षेपणे त्वन्तिमे । द्रुमभित्सेतुशालेषु वरणो नान्तिमे वृतौ । गुणिन्यृजौ च प्रगुणो रवणः शब्दने खरे ॥ ४८ ॥ Koṣakalpataru 6.15.48
- परमानन्दीयनाममाला आत्माधीनमरुद्व्याधौ तथा व्याध आत्माधीनो विदूषके । प्राणाधारे सुते शाल आत्मयोनिः स्मरे हरे ॥ ५० ॥ Paramānandīyanāmamālā 5.1.50
- शिवकोष सर्जकसर्जिका स्वर्जिका क्षारे सर्जकोऽसनशालयोः । अजकर्णे सिंहिका तु चन्द्रपुष्पाटरूषयोः ॥ ५३ ॥ Śivakoṣa 1.3.53
- त्रिकाण्डशेष किष्कुनिर्मोके चोलके वारबाणोऽथ कुशिको मुनौ । शाले किष्कुः प्रकोष्ठेऽपि व्याख्याश्लोकेऽपि कारिका ॥ १४ ॥ Trikāṇḍaśeṣa 3.3.14