अनोकह
anokahaपुं · masc.In 12 kośas: 12 synonym verses.
वृक्षोऽगः शिखरी च शाखिफलदावद्रिर्हरिद्रुर्द्रुमोजीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः ।नन्द्यावर्तकरालिकौ तरुवसू पर्णी पुलाक्यंह्रिपःसालानोकहगच्छपादपनगा रूक्षागमौ पुष्पदः ॥ १११४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वृक्षो महीरुहः शाखी विटपी पादपस्तरुः ।अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षोंऽह्रिपः क्षितिरुहः शिखरी च शाखी,शालो वनस्पतिरगो विटपी कुठश्च ।अद्रिः कुजस्तरुरनोकह इत्यभिन्नाः,शब्दा द्रुविष्टरनगद्रुमपादपाश्च ॥ १७७ ॥
वसन्ततिलका
genderपुंmasc.
अनोकहोऽगः शिखरी शाखी शालः पलाश्यपि ।द्रुर्द्रुमोऽद्रिः कुटो नागो नन्द्यावर्त्तो हरिद्वसुः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
फलदो भूरुहो भूजस्तरु-जर्ण-पलाशिनः ।सालः स्थिरः पुलाकी च रुह्वानोकह-पादपौ ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
अनोकहस्तरुः शाखी विटपी फलिनो नगः ।द्रुमोऽङ्घ्रिपः फलेग्राही पादपोऽगो वनस्पतिः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
विटपी पादपश्चाद्रिर्द्रद्रुमौ विष्टरः कुठः ।वसुर्जर्णहरी सालोऽनोकहोऽगोऽपि पुष्पदः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षो द्रुमस्तरुः शाखी पादपश्च महीरुहः ।अनोकहोंऽह्रिपः सालः पलाशी विटपी कुटः ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
अनोकह उरुश्चैव नन्द्यावर्त्तस्तथैव च ।एतन्नामानि मन्यन्ते वृक्षस्य विबुधैर्जनैः ॥ १९५६ ॥
अनुष्टुप्
genderपुंmasc.
स्थिरः कारस्करः सालः नगोऽगः स्यादनोकहः ।अगमो द्रुः कुचारुश्च स्यात् कुचोरुक्ष इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
पादपवृक्षपलाशिद्रुमतरुकुटविटपिशाखिनगसालाः ।अगमो द्ररगो भूरुट् कुजोऽनोकह इत्यपि ॥ ४३९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अनोकहो नगो भूरुट् तरुः शाखी कुठः कुजः ।वसुः करालिकोऽगच्छो जर्णो रूक्षः पुलाक्यपि ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.