कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पुंश्चिह्न

puṃścihnaक्ली · neut.

In 5 kośas: 5 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.350 · p. 26
पूतौ स्फिजौ कटिप्रोथौ वराङ्गं तु च्युतिर्बुलिः ।भगोऽपत्यपथो योनिः स्मरान्मन्दिरकूपिके ॥ ६०९ ॥स्त्रीचिह्नमथ पुंश्चिह्नं मेहनं शेपशेपसी ।शिश्नं मेढ्रः कामलता लिङ्गं च द्वयमप्यदः ॥ ६१० ॥गुह्यप्रजननोपस्था गुह्यमध्यं गुलो मणिः ।
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.59 · p. 213
शिश्नमस्त्री मेहनं स्याच्छेपं शेवं च शेफवत् ।पुंश्चिह्न-शेफ-शेपांसि लिङ्गं तद्वच्च साधनम् ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.269 · p. 134
मेढ्रं कामलता शेफो मेहनं शेफसा सह ।पुंश्चिह्नं शिश्नमाख्यातमण्डकोशाण्डकौ समौ ॥ २६९ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.42 · p. 23
पुंश्चिह्नं मेहनं मेढ्रं शिश्नं शेफ इति स्मृतम् ।अपानं तु गुदं पायुरूरू सक्थि समे उभे ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.984 · p. 150
पुंश्चिह्नं मेहनं मेढ्रः शिश्नं च शेपशेपसी ।लाङ्गूलं लङ्गुलं लिङ्गं नाङ्गूलं च शेफशेफसी ॥ ९८४ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderक्लीneut.