पायु
pāyuपुं · masc.In 18 kośas: 18 synonym verses, 1 as a nānārtha head word, 5 as a meaning of another word.
सीवनी तदधःसूत्रं स्थदण्डं पेलमण्डकः ॥ ६११ ॥मुष्कोऽण्डकोषो वृषणोऽपानं पायुर्गुदं च्युतिः ।अधोमर्म शकृद्द्वारं त्रिवलीकबुली अपि ॥ ६१२ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
गुदः पायुरपानं स्यात्कटिप्रोथौ स्फिजौ पुतौ ।कुकुन्दरौ समाचष्टे जनो जघनकूपकौ ॥ ५१३ ॥
अनुष्टुप्
genderपुंmasc.
सावीसूत्रं पुनः क्लीबे भगः पुंसि पुरीषणः ।उच्चारः षणधो मर्म पायुः पुंसि च्युतिः स्त्रियाम् ॥ २१२ ॥
अनुष्टुप्
genderपुंmasc.
पायूपस्थं हस्तपादं वाक् चैव दशमी पुनः ।ज्ञानेन्द्रियाणि श्रोत्रादि पञ्च पाय्वादिकानि च ॥ १५८ ॥
अनुष्टुप्
genderपुंmasc.
चित्तं नेत्रं रसना श्रोत्रं त्वग्गन्धज्ञाधीन्द्रियं चैतत् ।पाणिः पादः पायुरुपस्थो वागिति कर्मेन्द्रियगण उक्तः ॥ २५ ॥
metre not recognised
genderपुंmasc.
अण्डकः पेलकः पेलमस्त्रियामण्डकोषवत् ।मुष्काण्ड-वृषणाः पायुः स्याद्गुदोऽपानमस्त्रियाम् ।पेलमण्डं गुदस्त्वस्त्री पायुः पुं पुंसि विण्मुखम् ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
सुमनस् अप्सरस् इत्येताभ्यां विरहितमुज्झितमित्यर्थः । अस् अन्ते यस्य तदिदमसन्तं पुंसि भवेदित्यर्थः । अयमङ्गिराः चन्द्रमाः स्थूलशिराः । पुरूरवाः उच्चैःश्रवाः दुर्वासाः पृथुयशा इत्यादयः । सुमनसोऽप्सरसश्च स्त्र्यधिकारात्स्त्रियां प्रवृत्तिः । इमाः सुमनसः कुसुमानि । इमा अप्सरसो देवस्त्रियः । द्व्यच्कमसन्तं नपुंसकं भवति । इदमोजः तेजः वर्चः शिरः यशः छन्दः श्रोतः चेतः पयः तपः अम्भः । जरस्शब्दस्यापि नपुंसकता स्यादित्यत आहान्यत्र वै जरसः । नपुंसकात्प्रकृताच्च पुंल्लिङ्गादन्यस्मिन् जरस् शब्दो भवति । स्त्रियाम् । इयं जरा वृद्धभावः ।पुंसि क्षुरखुरबिन्द्विक्षुपायुमणिकीलकेलिबलयः ।निघसङ्घोद्घोपघ्नौघविघ्नघर्मार्घवर्णाश्च ॥ २५ ॥
metre not recognisedimpossible sibilant cluster: जरस्शब्दस्यापि
अङ्गिरस्पुंचन्द्रमस्पुंस्थूलशिरस्पुंपुरूरवस्पुंउच्चैःश्रवस्पुंदुर्वासस्पुंपृथुयशस्पुंसुमनस्स्त्रीअप्सरस्स्त्रीओजस्क्लीतेजस्क्लीवर्चस्क्लीशिरस्क्लीयशस्क्लीछन्दस्क्लीस्रोतस्क्लीचेतस्क्लीपयस्क्लीतपस्क्लीअम्भस्क्लीजरस्स्त्रीजरास्त्रीक्षुरपुंखुरपुंबिन्दुपुंइक्षुपुंपायुपुंमणिपुंकीलपुंकेलिपुंबलिपुंनिघपुंसङ्घपुंउद्घपुंउपघ्नपुंओघपुंविघ्नपुंघर्मपुंअर्घपुंवर्णपुं
genderपुंmasc.
एते शब्दाः[ब्दा] पुंसि भवन्ति । तद्यथा । अयं क्षुरः नापितोपकरणः । अयं खुरः पशुपादः । अयं बिन्दुः विसर्जनीयावयवः । अन्यच्च । अयमिक्षु सस्यजातिः । अयं पायुः अपानम् । अयं मणिः रत्नम् । कीलः शङ्कुः प्रहरणविशेषः । अयं केलिः हासः ॥। अयं के[क]लिः कलहः । अयं बलिर्दैत्यः राजगृह्यदेवतोपहारौ च ।
metre not recogniseddoubled daṇḍa: ॥।
genderपुंmasc.
पेलाण्डे वृषणो मुष्को गुदं पायुश्च्युतिः स्त्रियाम् ।शकृद्वारमपानं चाधोमर्म बुलिनाम तु ॥ २७० ॥
अनुष्टुप्
genderपुंmasc.
अष्ठीवच्चाथ चोरौ तु सक्थीति परिकीर्तितम् ।वङ्क्षणं तूरुसन्धौ स्याद्गुदे पायुरिति स्मृतः ॥ १४२ ॥
अनुष्टुप्
genderपुंmasc.
चरणोऽङ्घ्रिः पदः पादः पादाग्रं प्रपदं कुधम् ।शङ्खावर्त्तं गुदं पायुरपानं गुह्यगोपने ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
पुंश्चिह्नं मेहनं मेढ्रं शिश्नं शेफ इति स्मृतम् ।अपानं तु गुदं पायुरूरू सक्थि समे उभे ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
गुदं पायुरपानञ्च त्रिवलीकं च्युतिर्बुलिः ।शकृद्वारमधो मर्म गुदनामानि मन्यते ॥ ९८८ ॥
अनुष्टुप्
genderपुंmasc.
क्लीबे सक्थि पुमानूरुरूरुसन्धौ तु वङ्घणः ।गुदं तलू हृदः पायुर्मार्गोऽप्यपानमित्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्य (wrong syllable)
genderपुंmasc.
तत्सन्धावथ पायुर्ना गुदापाने अथ द्वयोः ।वस्तिर्नाभेरधो नाभिर्द्वयोरेवं कटः कटी ॥ १०६४ ॥
अनुष्टुप्
genderपुंmasc.
शस्तं वपुः पुद्गलं स्यादाङ्गमङ्गं तु कोमलम् ।पायुस्तनुह्रदो मार्ग उच्चारस्तु पुरीषणः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
अंकस्तूपस्थ उत्संगः पीठीवं त्वण्डमूलकम् ।पायुस्तु ना गुदापाने त्रिवलीकं बुलिश्च्युतिः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
पायु as a meaning in nānārtha verses
- धरणिकोश उपस्थउपस्थः शिश्न उत्सङ्गे योनौ पायौ च कीर्तितः । निशीथः स्यादर्धरात्रौ रात्रिमात्रे च कथ्यते ॥ Dharaṇikośa 16.2.8
- कोषकल्पतरु उपस्थअश्वत्थ उक्तोऽपि च पौर्णमास्यां नपुंसके त्वम्भसि संप्रदिष्टः । उपस्थ उत्सङ्ग वराङ्गपायु- मेढ्रेषु निःस्वे त्वपि नग्नकेन्द्रे ॥ ११ ॥ Koṣakalpataru 6.18.11
- कोषकल्पतरु शृधुस्पृक्काशठीसारिविकाङ्गनासु शृधुः पुमान्स्याद्धियि चापि पायौ । Koṣakalpataru 6.20.18
- शब्दरत्नाकर अपानअवकाशेऽवधौ भेदे विनार्थच्छिद्रयोरपि । अपानः पुंसि देहस्थवायौ पायौ नपुंसके ॥ २०३९ ॥ Śabdaratnākara 4.1.2039
- तन्त्राभिधान छमाता निशाचरः पायुर्विक्षतः स्थितिशब्दकः ॥ ७८ ॥ Tantrābhidhāna 2.24.78