कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पूत

pūtaवि · adj.

In 14 kośas: 25 synonym verses, 2 as a nānārtha head word, 16 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.350 · p. 26
पूतौ स्फिजौ कटिप्रोथौ वराङ्गं तु च्युतिर्बुलिः ।भगोऽपत्यपथो योनिः स्मरान्मन्दिरकूपिके ॥ ६०९ ॥स्त्रीचिह्नमथ पुंश्चिह्नं मेहनं शेपशेपसी ।शिश्नं मेढ्रः कामलता लिङ्गं च द्वयमप्यदः ॥ ६१० ॥गुह्यप्रजननोपस्था गुह्यमध्यं गुलो मणिः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.112 · p. 46
धान्यमावसितं रिद्धं तत्पूतं निर्वुसीकृतम् ।
अनुष्टुप्
genderविadj.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1436 · p. 54
पवित्रं पावनं पूतं पुण्यं मेध्यमथोज्ज्वलम् ॥ १४३५ ॥विमलं विशदं वीध्रमवदातमनाविलम् ।विशुद्धं शुचि चोक्षं तु निःशोध्यमनवस्करम् ॥ १४३६ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.81
पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.23
ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम् ॥ २३ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.55
पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम् ॥ ५५ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.105 · p. 225
स्यान्म्लानं कच्चलं तु स्यान्मलदूषितमित्यथ ।निर्णिक्तं विमलं वीध्रं पूतं मेध्यं पवित्रकम् ॥ १०५ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.223 · p. 273
स्यात् पिण्डरोहणः पूतः किंकिणीरवकस्तु सः ।हयपर्यायवैर्यर्थः कटवीरो हरप्रियः ॥ २२३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.343 · p. 287
गुण्डा शिरिशिरा श्वेता स्यात्तदर्थस्तु वज्रकः ।पूतो ह्रस्वः कुशो ब्रह्मपवित्रो यज्ञभूषणः ॥ ३४३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.3 · p. 99
वार्जीवनं जीवनीयं दगर्णे(?) सर्वतोमुखम् ।गवं(?)सरः कर्बुरं च पवित्रं पूतमङ्कुरः ।कम्बलं तामरं कृत्स्नं क्षणदं स्यन्दनं मधु ।क्षरं कंत्वलिगं * * न स्त्री कोडं(?)रसं विषम् ॥ ३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.4 · p. 242
योगाय यौ प्रभवतस्त्रिष्विमौ योग्य-यौगिकौ ।पवितः प्रयतः पूतः पवित्रः पावनः शुचिः ।मेध्यः पुण्योऽथ वाल्मीकि - वाल्मीक - कुशिनः कविः ॥ ४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.51 · p. 276
रिद्धमृद्धं चावसितं पूतं स्याद्बहुलीकृतम् ।यन्निर्बुसीकृतं धान्यं कण्डितं त्वाहतं त्रिषु ॥ ५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.98 · p. 281
पूतं स्याद्गलितं स्निग्धं मसृणं चिक्कणं समम् ।अम्लीकृतं त्वासुतं स्यान्मांसे शूलेन पाचितम् ॥ ९८ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.324 · p. 92
कश्मलं मलिनं म्लानं कच्चरं च मलीमसम् ।पवित्रं मेध्यपूते च पावनं पुण्यनाम च ॥ ३२४ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.100 · p. 44
पूतं पवित्रं मेध्यं च मलिनं च मलीमसम् ।निर्णिक्तं क्षालितं धौतमुज्ज्वलं निर्मलं शुचि ॥ १०० ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2133 · p. 351
ऋद्धं सिद्धं सुसम्पन्नं चेति नामानि सन्ति हि ।शूर्पादिना स्वच्छभूतं पूतं स्यान्निर्बुसीकृतम् ॥ २१३३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.159 · p. 421
पवित्रं पावनं पुण्यं पूतं मेध्यं तथैव च ।
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.84 · p. 116
पवित्रः प्रयतः पूतः शुचिः शुद्धः पवित्रिनः ।पाषण्डः कौलिकः सर्वलिङ्गी पाषण्डिकोऽपि च ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.51 · p. 141
मर्दनानन्तरं पुञ्जीकृतधान्ये चतुष्टयम् ।बहुलीकृतपूते द्वे ह्यपनीतवुषादिके ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.7 · p. 164
पूतं मेध्यं पवित्रं स्याद् वीध्र प्रयतनिर्मलम् ।निःशोध्यं शोधितं मृष्टं निर्णिक्तमनवस्करम् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.39 · p. 252
कष्मलं, मेध्ये पावनं पवित्रं च पविस्तथा ।पूतं च प्रकृष्टे मुख्यं प्रमुखं मुखमित्यपि ॥ ३९ ॥
metre not recognised
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1431 · p. 173
धान्यराशिस्तु खलजो वरण्डस्तृणसंचयः ।ऋद्धे त्वावसितं धान्ये पूतं स्याद्बहुलीकृतम् ॥ १४३१ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1658 · p. 199
कुट्टाकरछेदकश्छेत्ता शरारुर्हिंस्रघातुकौ ।पूतः पवित्रः प्रयतः पुण्यो मेध्यश्च शुद्धवत् ॥ १६५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.67 · p. 128
ऋद्धमावसितं धान्यं पूतं तु वहुलीकृतम् ।खलपूः स्याद्बहुकरश्छादिषेयं छदिस्तृणम् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.65 · p. 206
तत्तु स्यादासेचनकं न तृप्तिर्यस्य दर्शनात् ।पवित्रं प्रयतं पूतं मेध्यं शुद्धं शुचीति च ॥ ६५ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.5 · p. 205
फले च पर्याप्तगतं च षण्ढेत्रिषु प्रणीतेऽपि च हिंसिते च ।धुतं भवे*******धूतं तथा भर्त्सितकम्पितार्थम् ।पूतं पवित्रे बहुलीकृते चतोयेऽथ शास्त्रेऽवधृते श्रुतं स्यात् ॥ ५ ॥
उपेन्द्रवज्राtwo metres in one verse
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.165 · p. 148
पङ्क्तौ मार्गेऽपि पूतं तु पवित्रे बहुलीकृते ।श्रेणिर्दश च पङ्क्तिः स्यात्प्रसूतिर्जन्मतोकयोः ॥ १६५ ॥
अनुष्टुप्

पूत as a meaning in nānārtha verses