कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

योनि

yoniस्त्री · fem.

In 19 kośas: 30 synonym verses, 7 as a nānārtha head word, 38 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.350 · p. 26
पूतौ स्फिजौ कटिप्रोथौ वराङ्गं तु च्युतिर्बुलिः ।भगोऽपत्यपथो योनिः स्मरान्मन्दिरकूपिके ॥ ६०९ ॥स्त्रीचिह्नमथ पुंश्चिह्नं मेहनं शेपशेपसी ।शिश्नं मेढ्रः कामलता लिङ्गं च द्वयमप्यदः ॥ ६१० ॥गुह्यप्रजननोपस्था गुह्यमध्यं गुलो मणिः ।
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.182 · p. 57
निमित्ते कारणं हेतुर्बीजं योनिर्निबन्धनम् ॥ १५१३ ॥निदानमथ कार्यं स्यादर्थः कृत्यं प्रयोजनम् ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.132
भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी ।
अनुष्टुप्
genderपुंस्त्रीm. f.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.514 · p. 59
भगो योनिरुपस्थश्च वराङ्गं स्मरमन्दिरम् ।शिश्नः शेफोऽथ मेढ्रश्च तुल्ये मेहनशेफसी ॥ ५१४ ॥
अनुष्टुप्
genderस्त्रीfem.
श्रोणिश्रोण्यौ योनियोन्यौ क्रोडकोडे उभे समे ।शेफः शेफाः शेफशेपौ शेवः पञ्च समा मताः ॥ १७८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.204 · p. 43
नाषण् ककुन्दरे फुल्ललिङ्गे ते चरतावुके ।कुकंदरेप्यथ भगो द्वयोर्योनिश्च योन्यपि ॥ २०४ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.125 · p. 475
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.21 · p. 2
हेतुर्नाऽथ द्वयोर्योनिर्निदानं त्वादिकारणम् ।जन्यं कार्यं जन्म-जनुर्-जननान्युद्भवो भवः ॥ २१ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.13 · p. 41
ऐन्द्राग्नो निर्ऋतिर्नक्तंचरी वरुणसम्बरौ ।अर्यमा विजयो योनिर्भग एते दिने क्षणाः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.60 · p. 213
स्मरध्वजो मेढ्रमस्त्री मणिस्त्वस्याग्रमुच्यते ।सावनी तदधःसूत्रं योनिस्तु न नपुंसके ॥ ६० ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीपुंसलिङ्गाधिकारः Koṣakalpataru 4.4.26 · p. 110
genderपुंस्त्रीm. f.
व्रजशूलशब्दौ पुंसि भवतः । अयं व्रजः अयं शूलं । मृधं नपुंसके विद्धि ।इदं मृधं युद्धम् । एते शब्दाः पुंसि भवन्ति । अयं कम्बलः ऊर्णावस्त्रम् । अयं तोमरः शरप्रहरणम् । मुकुलः कुड्मलः । क[कु]न्दुको यानम् । भास्त्राशब्दः स्त्रियां भवति । इयं भास्त्रा कमलपत्री ।आकारेकारान्तं स्थावरं जङ्गमं स्त्रियां भवेन्नित्यम् ।क्वचिदूकारान्तमपि प्रोक्तं वा पुंसि योनिः स्यात् ॥ ८९ ॥
metre not recognised
genderपुंस्त्रीm. f.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.268 · p. 134
बुलिश्च्युतिर्भगो योनिः स्त्रीचिह्नं स्मरमन्दिरम् ।स्मृतोऽपत्यपथश्चैव वराङ्गं स्मरकूपिका ॥ २६८ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.31 · p. 214
स्त्रीलिङ्गे योनिमन्नाम वल्लीसेनातडिद्दिशाम् ।वम्रीतन्द्रानिशां ग्रीवादयाजिह्वाधियामपि ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.116 · p. 225
आणिर्योनिर्मुनिः सिन्धुर्हनुर्मृत्युर्मनुः पुनः ।ऋष्टिः कर्कन्धुराखुस्त्ववटुः कन्दुरूरुस्तथा ॥ ११६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रू (wrong syllable)
genderपुंस्त्रीm. f.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.93 · p. 7
शिश्नः प्रजननं मेढ्रं मेहनं चर्मकीलकम् ।स्मरालयं भगं योनिरुपस्थं गूढमोहनम् ॥ ९३ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.41 · p. 23
अधो नितम्ब आरोहः स्त्रीकट्या जघनं पुरः ।उपस्थं च भगो योनिः स्त्रीचिह्नं स्मरमन्दिरम् ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.982 · p. 150
भगोऽपत्यपथो योनिः वराङ्गं स्मरमन्दिरम् ॥ ९८२ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2756 · p. 449
निमित्तं कारणं योनिर्निदानञ्च निबन्धनम् ।बीजं हेतुश्च नामानि सप्तैव प्रथयन्ति वै ॥ २७५६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.275 · p. 101
कटीप्रोथः कटिप्रोथः पूलकः स्थिक् स्त्रियां स्फिचा ।लिङ्गयोन्योरुपस्यः स्याद् वराङ्गं स्मरमन्दिरम् ।योनिर्द्वयोरतिगृहं जन्मवर्त्माधरंभगम् ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.42 · p. 311
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.183 · p. 203
योनिर्योनी च, पुंश्चिह्ने शेपः शोफश्च सान्तगे ।शोप-शेफौ च शेवश्च त्रयोऽदन्ता बुधैः स्मृताः ॥ १८३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1067 · p. 132
मेढ्रोऽण्डं कोशवृषणावथ योनिर्द्वयोर्भगम् ।उपस्थं पृष्ठवंशस्य क्लीबे स्यादधरे त्रिकम् ॥ १०६७ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.9 · p. 61
-----------------------------------नादबिन्दु-समायुक्तो द्वादशस्तु स्वरो भगः ।योनिः सरस्वतीबीजमधरं वाग्भवं च वाक् ॥ऐं॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.8 · p. 68
-----------------------------------काममुद्रा पराख्याता शिवस्य दशमुद्रिकाः ।लिङ्गयोनित्रिशूलाक्षमालेष्टाभीमृगाह्वयः ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.17 · p. 69
योनिश्च भूतिनी चैव बीजाख्या दैत्यधूमिनी ।लेलिहानेति संप्रोक्ताः पञ्चमुद्राः विलोकिताः ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.19 · p. 69
-----------------------------------खेचरी बीजयोन्याख्या त्रिखण्डा दश कीर्त्तिताः ।कुम्भमुद्राऽभिषेके स्यात् पद्ममुद्रा तथासने ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.116 · p. 79
योनिर्मायाऽधरः सेन्दुर्वधूः कूर्चं क्रमाद्विदुः ।बीजानि चोच्चरन् मन्त्री मुद्राबन्धनमाचरेत् ॥ ११६ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.15 · p. 279
genderपुंस्त्रीm. f.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.61 · p. 178
शंकुर्मेढ्रः शेफकोशौ शिश्नं मेहनशेफसी ।पुषो भगं कामपदमक्ली योनिश्च्युतिर्बुलिः ॥ ६१ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
धरणिकोश Dharaṇikośa · धरणिदास नपादः Dharaṇikośa 19.1.5 · p. 105
इनः सूर्ये प्रभौ राज्ञि योनिः स्यादाकरे भगे ।हनिन्यूनौ [च?] गर्ह्यार्थौ सूनुः पुत्रेऽनुजेऽपि च ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.5 · p. 247
मुनिर्द्वयोर्बुद्धयतीङ्गुदीषुपियालकेऽगस्तिमुनौ पलाशे ।योनिर्द्वयोराकरकामधाम्नो-र्ज्यानिः स्रवन्त्यां गदिता च हानौ ॥ ५ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1074 · p. 134
भरणीसंज्ञनक्षत्रे पुनर्भूमनि चाप्यथ ।योनिः स्त्रीणां भगे स्थाने गृहे कारणताम्रयोः ॥ १०७४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1075 · p. 135
आकरे च स्त्रियां पुंसि योगी तु नरि पादपे ।नागरङ्गाह्वये यावशूकाख्यलवणे त्रि तु ॥ १०७५ ॥
अनुष्टुप्
meaningsआकर
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.15 · p. 235
मुनिर्ना नारदादौ तु वङ्गसेनद्रुमे जिने ।मृत्स्ना मृत्सा तु काक्ष्यां स्त्री यानं स्याद्वाहने गतौ ।योनिर्द्वयोराकरे स्याद्भगे भूमौ च कारणे ॥
अनुष्टुप्metre not read in every line
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.255 · p. 179
गतौ च यानं योनिस्तूत्पत्तिस्थाने भगेऽपि च ।रसनन्तु ध्वनौ स्वादे रसज्ञारास्नयोः स्त्रियाम् ॥ २५५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.66 · p. 235
युगोऽस्त्री स्यन्दनाद्यंगे क्ली तु युग्मे कृतादिके ।योनिः स्त्रीणां भगे स्थाने कारणे ताम्रकेऽप्यषण् ॥ ६६ ॥
अनुष्टुप्

योनि as a meaning in nānārtha verses