पूर्णक
pūrṇakaपुं · masc.In 4 kośas: 5 synonym verses.
धान्येषु पूर्णको लोलः कोद्रवेषु च पर्वतः ।पुष्पेष्वप्सु च नीली स्याद्धरायामूषराभिधः ॥ ३१० ॥
अनुष्टुप्
genderपुंmasc.
दालिर्दाली चणादीनां स्फोरो नरि यवोद्भवे ।पिष्टे सक्तुः पूर्णकः स्यादापूपः परकोऽस्त्रियाम् ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
लक्ष्मीवान्पूर्णको रेची मुखसंहननो विटः ।अम्लानस्त्वमिलातः स्याद्वर्णपुष्पो महासहा ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
विशारदो गुडपुष्पः फलमस्य तु पर्पटम् ।तिलके पूर्णकश्छन्नकुसुमो मुखमण्डनः ॥ ६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ड (wrong syllable)
genderपुंmasc.
मदनोन्मत्तकितवा मातुलः कनकाह्वयः ।धुस्तूरस्य फले सद्भिरुक्तो मातुलपुत्रकः ॥फलपूरो वीजपूरः पूर्णको वीजपूरकः ।च्छोलङ्गो मातुलुङ्गश्च रुचको मातुलुङ्गुके ॥
अनुष्टुप्
genderपुंmasc.