अम्लान
amlānaपुं · masc.In 9 kośas: 7 synonym verses, 5 as a nānārtha head word, 15 as a meaning of another word.
सहा कुमारी तरणिरम्लानस्तु महासहा ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
लक्ष्मीवान्पूर्णको रेची मुखसंहननो विटः ।अम्लानस्त्वमिलातः स्याद्वर्णपुष्पो महासहा ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
पङ्केरुहञ्च वनजमम्लानपुटके अपि ।सिताम्भोजं पुण्डरीकं धवले कमले द्वयम् ॥
अनुष्टुप्
genderक्लीneut.
भवेद्घृतकुमारी तु कुमारी तरणिः सहा ।महासहा स्यादम्लानो द्वयमम्लानभुरुहे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 भु (wrong syllable)
genderपुंmasc.
महासहायामम्लानः शोणे तस्मिन् कुरण्टकः ।पीते तस्मिन् कुरवकस्तज्झाटे कलशोदकः ॥ ५२२ ॥
अनुष्टुप्
genderपुंmasc.
कुन्दे स्याद्वोरटः पुंसि ग्रैष्मी नु नवमालिका ।रक्तपिण्डस्त्वोड्रपुष्पः स्यादम्लानः कुरण्टकः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
अतिमुक्तश्च कन्यायां कुमारी तरुणी सहा ।महासहायामम्लानः पीताम्लाने कुरण्डकः ॥ १८८ ॥
अनुष्टुप्
genderपुंmasc.
निदानं तण्डके [58] विद्यात्कारणे व्याधिनिर्णये ।अम्लानं निर्मले ज्ञेयमम्लानं कुसुमान्तरम् ॥
अनुष्टुप्
उद्यानमस्त्री त्रिषु निःसृते स्या-दम्लान उक्तो नरि पुष्पभेदे ।स वाच्यवन्म्लानिविवर्जितेऽथव्युत्थानमुक्तं च निरुद्धकार्ये ॥ ३७ ॥
उपजातिः
द्विरुक्तधातुपूर्वार्धेऽप्यभीतस्त्रिस्तु निर्भये ।अम्लानस्तु पुमान् पुष्पस्तम्बे यस्य महासहा ॥ ९२ ॥
अनुष्टुप्
अम्लान as a meaning in nānārtha verses
- धरणिकोश यूथिकानग्निका स्यात्कुमारी च दूषिकाक्षिमलेऽपि च । झिल्लिकातपरुग्झिञ्झी धेनुका धेनुर्हस्तिनी । यूथिकाम्लानयूथ्योः स्यादम्बिका धात्रिकाम्बयोः ॥ Dharaṇikośa 1.1.15
- धरणिकोश महासहाअभिग्रहोऽभिग्रहणमभियोगोऽप्यभिग्रहः । महासहा मासपर्णी अम्लानश्च महासहा ॥ Dharaṇikośa 32.2.17
- कोषकल्पतरु रक्तकस्यान्नालिकेरमध्ये खड्गे रत्ने च सस्यकः प्रोक्तः । अम्लाने बन्धूके रक्तपटे ना च रक्तको [गणितः] ॥ ८६ ॥ Koṣakalpataru 6.1.86
- कोषकल्पतरु महासहायोषिति तुरंगगन्धावाचक उक्तो विपश्चिद्भिः । अम्लाने तु प्रथिता महासहा माषपर्ण्यां च ॥ ६४ ॥ Koṣakalpataru 6.32.64
- नानार्थार्णवसंक्षेप महासहाइत्येवं पृथुपाषाणे प्रसिद्धैव महाशिला । महासहा माषपर्ण्यां स्तम्बे चाम्लानसंज्ञके ॥ ४२ ॥ Nānārthārṇavasaṃkṣepa 6.42
- नानार्थार्णवसंक्षेप महासहाअम्लानसंज्ञझाटे च स्त्री समासादि पूर्ववत् । महाफला स्त्री कूश्माण्डे महाजम्व्वां च पूर्ववत् ॥ ४६३ ॥ Nānārthārṇavasaṃkṣepa 6.463
- नानार्थार्णवसंक्षेप कलशोदकत्रि तु स्यात् तत्र यस्यापि फलं कण्टकवद्भवेत् । कलशोदक इत्येष पुमानम्लानसंज्ञिनः ॥ ४० ॥ Nānārthārṇavasaṃkṣepa 7.40
- शिवकोष यूथिकायाज्ञिकः कुशपालाशखदिरे यावको निशि । अलक्तके सिल्हके च यूथिकाऽम्लानबालयोः ॥ ४४ ॥ Śivakoṣa 1.3.44
- शिवकोष कुरबककाष्ठीलिका तु योषिति वनजायां वनजरम्भायाम् । मतः कुरबकोऽम्लानझिण्टीषष्टिकभित्सु च ॥ ५७ ॥ Śivakoṣa 1.4.57
- शिवकोष कुरण्टककुरण्टकः कुन्दपीता म्लानझिण्टीकपीतने । कोशातकी पटोल्यां च घोषकक्ष्वेडवेधयोः ॥ ५८ ॥ Śivakoṣa 1.4.58
- शिवकोष महासहामहासहा माषपर्ण्यामम्लाने वक्रकण्टके ॥ ५३८ ॥ Śivakoṣa 28.3.538
- शब्दरत्नावली यूथिकायूथिका पुष्पभेदे स्यादम्लानेऽपि च योषिति । रसिका च रसालेक्षुरसयोः सरसेऽन्यवत् ॥ Śabdaratnāvalī 7.1.128
- शब्दरत्नावली रक्तकरक्तकोऽम्लानबन्धूकरक्तांशुकविनोदिषु । याजिका स्यात्तु केदारे लेखायां सर्षपान्तरे ॥ Śabdaratnāvalī 7.1.129
- शब्दरत्नावली कुरवकनिःशेषु चाम्लानझिण्टीभिदोः कुरवको भवेत् । पीतपुष्पाम्लानझिण्ठीद्रुमयोस्तु कुरुण्ठकः ॥ Śabdaratnāvalī 7.1.164
- शब्दरत्नावली कुरुन्टकीकटो भूम्नि देशे ना निम्बेऽपि कृपणे त्रिषु । कुरुन्टी स्त्री दारुपुत्र्यां झिण्ट्यम्लानभिदोः पुमान् ॥ Śabdaratnāvalī 7.11.39