कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मातुल

mātulaपुं · masc.

In 16 kośas: 20 synonym verses, 9 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.553 · p. 24
जघन्यजे यविष्ठः स्यात्कनिष्ठोऽवरजोऽनुजः ।स यवीयान्कनीयांश्च पितृव्यश्यालमातुलाः ॥ ५५२ ॥पितुः पत्न्याश्च मातुश्च भ्रातरो देवृदेवरौ ।देवा चावरजे पत्युर्जामिस्तु भगिनी स्वसा ॥ ५५३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.121
उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः ॥ ७७ ॥मातुलो मदनश्चास्य फले मातुलपुत्रकः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.31
पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.71 · p. 28
मातुर्भ्राता मातुलः स्यान्मामको मातृकेशरः ।सकष्टमातुलो मातुः सपत्न्यास्तु सहोदरे ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.228 · p. 274
खर्जूघ्नः कालहा पुष्पः खरकण्टफलोऽपि सः ।मोहनो मातुलः श्यामः शैवः कलभमत्तकौ ॥ २२८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.62 · p. 148
मातुलो बीजपुष्पश्च पुमान्मरुबकः फलम् ।श्वेतस्त्वेष करञ्जः स्याच्चर्मकारतरुश्च सः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.10 · p. 161
धूर्त्तो धत्तूर उन्मत्तो देविता तरलः शठः ।घाण्टिकः कनकाह्वश्च काहलापुष्प-मातुलौ ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.6 · p. 210
भ्राता पितृव्यो मातुस्तु तत्र मातुल-मामकौ ।मातुलानी मातुली च मामिका चास्य कामिनी ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.21 · p. 303
ब्रह्मसर्पोऽश्वलाला स्यान्मालुधानस्तु मातुलः ।सुरकस्तु सुरावर्णो दन्दशूको निगद्यते ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.253 · p. 139
घण्टापुष्पस्तलफलो मातुलः कनकाह्वयः ।उन्मत्तो मदनश्चास्य फलं मातुलपत्रकम् ॥ २५३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.217 · p. 128
पितृव्यस्तु पितुर्भ्राता मातुलो मातृसोदरे ।पत्नीभ्राता मतः श्यालो देवरः पतिबान्धवे ॥ २१७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.49 · p. 4
मातुलो जननीभ्राता भगिनी सहजा स्वसा ।शालको गृहिणीबन्धुः श्यालः पत्नीसहोदरः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.884 · p. 133
पितुः पत्न्याश्च मातुश्च भ्राता लोके निगद्यते ।पितृव्यश्च तथा श्यालः मातुलः क्रमशोऽत्र वै ॥ ८८४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2056 · p. 340
धत्तूरो धुतुरो धूर्तो धुस्तूरो धुस्तुरस्तथा ।धूस्तूरो मातुलश्चैव धुत्तूरः कनकाह्वयः ॥ २०५६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.151 · p. 68
मदनोन्मत्तकितवा मातुलः कनकाह्वयः ।धुस्तूरस्य फले सद्भिरुक्तो मातुलपुत्रकः ॥फलपूरो वीजपूरः पूर्णको वीजपूरकः ।च्छोलङ्गो मातुलुङ्गश्च रुचको मातुलुङ्गुके ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.178 · p. 95
पितुः कनिष्ठभ्राता तु खुल्लतातो विधीयते ।मातुर्भ्राता मातुलः स्यान्मामको मातृकेशटः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1125 · p. 139
स्वस्त्रीयो भागिनेयः स्याद् दौहित्रो दुहितुः सुतः ।जामाता दुहितुर्भर्ता मातुर्भ्राता तु मातुलः ॥ ११२५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 107 · p. 537
धूस्तुरस्तु पुरीमोहो धूस्तूरः कनकाह्वयः ।धुस्तूरो मातुलश्चास्य फले मातुलपुत्रकः ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.9 · p. 50
श्वश्रुर्वृद्धः शतानीको जरन्तः स्यादथांशकः ।सगन्धाज्ञातिदायादा मातुलो मातुकेशटः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.33 · p. 175
देवरो देवृदेवानौ मातुर्भ्राता तु मातुलः ।दंपत्योरार्जिकोऽन्योन्यो वैमात्रेयो विमातृजः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास लार्धश्लोकः Dharaṇikośa 27.2.38 · p. 196
श्रीफलो वृक्षभेदे स्याच्छ्रीफली नीलिका स्मृता ।मातुलः स्यापितृश्याले धूस्तूरे मातुलो मतः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.9 · p. 346
मातुलो मामके व्रीहिभेदे धत्तूरराठयोः ।परवत्कुटिलं भुग्ने स्त्रियां तु सरिदन्तरे ॥ ९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1408 · p. 170
पुरा भिन्दुर्युवेत्यस्यामृचि गीते हि सामनि ।त्रिर्मरुद्योगिनि स्यात् तु धुर्धूरे मातुलः पुमान् ॥ १४०८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1409 · p. 170
मदनाख्यद्रुमे चाथ रभसः शब्दवित्तमः ।मातुर्भ्रातरि च स्त्री तु भार्यायां तस्य मातुली ॥ १४०९ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र लत्रिः Śivakoṣa 23.2.469 · p. 43
गुन्द्रायां भस्मगन्धिन्यां मातुलः कनकाह्वये ।फले राठस्य भङ्गायां मातुलानी च मातुली ॥ ४६९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.84 · p. 282
महिला फलिनीनार्य्योर्मदमत्तास्वपि स्त्रियाम् ।मातुलो व्रीहिभेदे स्यान्मातृभ्रातरि धुस्तूरे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 स्तू (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2143 · p. 259
मासे मद्ये हरौ पुष्पसमयेऽपि च माधवः ।धुस्तूरे सर्पभेदे च मातृभ्रातरि मातुलः ॥ २१४३ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.405 · p. 235
मेखलाद्रिनितम्बेऽपि ग्रहे ना मङ्गलं शुभे ।निकटेऽपि च मूलं स्याद्धुस्तूरेऽपि च मातुलः ॥ ४०५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.61 · p. 244
धुर्तूरे सर्पभेदे च मातुलो मदनः पुनः ।सिक्थे वसन्ते धुर्तुरे कन्दर्पेऽप्यथ माधवः ॥ ६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable)

मातुल as a meaning in nānārtha verses