कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कितव

kitavaपुं · masc.

In 18 kośas: 20 synonym verses, 6 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.485 · p. 22
कितवो द्यूतकृद्धूर्तोऽक्षधूर्तश्चाक्षदेविनि ॥ ४८५ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.121
उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः ॥ ७७ ॥मातुलो मदनश्चास्य फले मातुलपुत्रकः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.43
धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.388 · p. 45
पोगण्डो विकलाङ्गः स्याल्लोहलोऽव्यक्तवाग्भवेत् ।कितवः स्याद्द्यूतकारो द्यूतमक्षवती भवेत् ।अक्षो दुरोदरं प्रोक्तं सभिको द्यूतकारकः ॥ ३८८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.99 · p. 213
उपप्लुतस्तु व्यसनी पञ्चभद्रोप्यवप्लुतः ।धूर्तोक्षदेवी कितवो द्यूतकृत् कृष्णकोहलः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.103 · p. 213
श्वेता कपर्दिका श्वेती चूर्णिः षण् कितवं पणः ।परिणायस्तु सारीणां समन्तान्नयने स्त्रियाम् ॥ १०३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.226 · p. 273
कृष्णपुष्पोऽथ धत्तूर उन्मत्तः कितवः शठः ।धुस्तुरोऽपि च धूस्तूरो धुत्तुरो धूत्तुरश्च सः ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.72 · p. 301
धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो-ऽक्षद्यूश्च देवा च तथाक्षकृत्सः ।स्याद्द्यूतकारी सभिकोऽथ भेद्य-लिङ्गा मता योगभवा हि शब्दाः ॥ ७२ ॥
इन्द्रवज्रा
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.252 · p. 138
गन्धोत्कटः पुण्डरीकः पाण्डुराङ्गस्तपस्व्यपि ।धत्तूरे धूर्तधुत्तूरौ कितवो देवता शठः ॥ २५२ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 165 · p. 79
विदग्धश्चतुरः धूर्तश्चाटुकृत् कितवः शठः ।क्वापि नागरिको ज्ञेयः गोत्रसंज्ञाङ्कनाम तत् ॥ १६५ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.627 · p. 107
सरकः सरणश्च स्यादनुतर्षणमित्यपि ।धूर्तोऽक्षवेदी(देवी?) कितवो द्यूतकारेऽथ लग्नकः ॥ ६२७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.64 · p. 40
द्यूतकारोऽक्षदेवी चाक्षधूर्तः कितवश्व सः ।द्यूतं दुरोदरं चाक्षवती पणश्च कैतवम् ॥ ६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.751 · p. 106
द्यूतकृत् कितवः प्रोक्तो धूर्तोऽक्षधूर्त्त एव च ॥ ७५१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2057 · p. 341
उन्मत्तः कितवश्चापि प्रख्यातो मदनः पुनः ।नामान्येतानि कथ्यन्ते धत्तूरस्य हि पण्डितैः ॥ २०५७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.151 · p. 68
मदनोन्मत्तकितवा मातुलः कनकाह्वयः ।धुस्तूरस्य फले सद्भिरुक्तो मातुलपुत्रकः ॥फलपूरो वीजपूरः पूर्णको वीजपूरकः ।च्छोलङ्गो मातुलुङ्गश्च रुचको मातुलुङ्गुके ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.75 · p. 158
धार्तो धूर्तोऽक्षधूर्तः स्यादक्षदेवी दुरोदरः ।द्यूतकृत् कितवो द्यूतकारः स्यात् कृष्णकोहलः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.534 · p. 69
वृक्षादनी वृक्षरुहा जीवन्त्यपदरोहिणी ।धुत्तूरः कितवो धूर्त उन्मत्तः कनकाह्वयः ॥ ५३४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1568 · p. 189
द्यूतकृत् कितवो धूर्तश्चाक्षदेव्यक्षदेवनः ।स्यादेवाक्षवती द्यूतमस्त्रियां कैतवं पणः ॥ १५६८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.76 · p. 51
पिचुले झावुकः शाके पृथुच्छदहलीमकौ ।उन्मत्ते धूर्तधुत्तूरधुस्तूरकितवाः शठः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.58 · p. 140
लोप्त्रं हृतोऽर्थश्चौर्यं तु स्तेयं स्तैन्यं च चौरिका ।धूर्तोऽक्षधूर्तः कितवो द्यूतकृत्कृष्णकोहलः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास वपादः Dharaṇikośa 28.1.5 · p. 204
प्रसेवौ स्यूतवीणाङ्गे विद्रवौ धीपलायने ।कितवौ मत्तधूस्तूरौ गालवो मुनिलोध्रयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.15 · p. 360
तोकोद्भवे च प्रसवोऽथ मन्त्रि-सहाययोः स्यात्सचिवस्तथैव ।धूर्ते च मत्ते कितवः प्रदिष्टोहेमाह्वये वञ्चकवाचकोऽपि ॥ १५ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.480 · p. 88
कितवः पुंसि धुर्धूरे क्ली तु तत्प्रसवे त्रि तु ।द्यूतकारेऽथ रभसो मत्तवञ्चकयोरपि ॥ ४८० ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र वत्रिः Śivakoṣa 24.2.504 · p. 46
कारवी रामचीघोषाजमोदाकृष्णजीरके ।कितवश्चोरके धूर्ते कैरवं कुमुदेऽम्बुजे ॥ ५०४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.28 · p. 287
कितवो वञ्चके मत्ते खले च कनकाह्वये ।केशवः कृष्णपुन्नागप्रशस्तकेशवत्स्वपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.413 · p. 238
आश्रवोऽङ्गीकृतौ वश्ये आहवौ यागसङ्गरौ ।उपप्लवौ राहूत्पातौ कितवौ मत्तवञ्चकौ ॥ ४१३ ॥
अनुष्टुप्

कितव as a meaning in nānārtha verses