कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विट

viṭaपुं · masc.

In 16 kośas: 22 synonym verses, 4 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.331 · p. 17
वासन्तिकः केलिकिलो वैहासिको विदूषकः ।प्रहासी प्रीतिदश्चाथ षिड्गः पल्लवको विटः ॥ ३३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.382 · p. 45
वेश्यापतिर्भुजङ्गः स्याद्विटः पल्लवकः स्मृतः ।विहस्तो व्याकुलः प्रोक्तः कुण्ठो मन्दः क्रियासु यः ॥ ३८२ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.125 · p. 77
वेशार्यः पीठमर्दी च षिड्गः पवको विटः ।मार्दङ्गिको मौरजिको वीणावादस्तु वैणिकः ।वेणुध्माः स्युर्वैणविकाः पाणिवादास्तु पाणिकाः ॥ १२५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
त्वक् त्वचा च त्वचं च स्यात् वल्कं वल्कलमुच्यते ।एधः स्यात् एघसा सार्धं विटपेन विटो मतः ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.34 · p. 12
एडूकमेडुकं न स्त्री स्यातामथ निवेशनम् ।सदनं सादनं वेश्म भवनं मन्दिरं विटम् ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.98 · p. 213
पानार्थात्पात्रपर्यायमनुतर्षोनुतर्षणम् ।वेश्यापतिः पल्लवका भुजङ्गश्च विटश्च सः ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.51 · p. 219
पीठकेलिः पीठमर्दो भविलश्छिदुरो विटः ।प्रघटाविच्छास्त्रगण्डः प्रपञ्चलविपश्चितौ ॥ ५१ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.79 · p. 425
वासन्तिकः केलिकिलो वैहासिकविदूषकौ ।प्रहासी प्रीतिदश्चाथ षिङ्गः पल्लविको विटः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.40 · p. 79
कुशीलवोऽथ वेश्यानामाचार्यः पीठमर्द्दकः ।नर्मदः केलिसचिवः पीठमर्दोऽपि सम्मतः ।वासन्तिकः केलिकलो विदूषकोवैहासिकः प्रतिबुधः प्रहासः ।भवेद्विटः पल्लविकोऽपि षिद्ग-कोष्ठ(?)क्षुद्रा नटी तत्र च कारिका स्यात् ॥ ४० ॥
अनुष्टुप्metre not read in every linenearly upajati mixed: pāda 2, syllable 5 प्र (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.87 · p. 159
लक्ष्मीवान्पूर्णको रेची मुखसंहननो विटः ।अम्लानस्त्वमिलातः स्याद्वर्णपुष्पो महासहा ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.14 · p. 95
अवटो विटोऽपि * पटोललाटभूषार्थलोध्रान्यः ।कोष्ठो हठः प्रकोष्ठो-ऽङ्गुष्ठो गण्डः प्रगण्डश्च ॥ १४ ॥
metre not recognised
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.10 · p. 112
वटस्तु गोलभक्ष्यादौ पिटिकावाचकः पिटः ।विटं च नि[232a] कटं कोट्टं कुष्ठं कमठमीरितम् ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 37 · p. 18
कान्तेष्टौ दयितः प्रीतः प्रियः कामी च कामुकः ।वल्लभोऽसुपतिः प्रेयान् विटश्च रमणो वरः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.224 · p. 32
वासन्तिको विटश्चाथ षिङ्गपल्लवकौ समौ ।पूज्यो भट्टारको भट्टो देवस्तत्रभवानपि ॥ २२४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.135 · p. 228
genderपुंक्लीm. n.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.487 · p. 60
वैहासिकस्तथा केलिकिलः केलीकिलश्च वै ।अथ पल्लवकः षिङ्गस्तथा विटोऽपि कथ्यते ।आवुकश्च पिता प्रोक्त आवुत्तभावुकौ पुनः ॥ ४८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable); pāda 4, syllable 3 त्त (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.87 · p. 143
पाक्यं विडं विटं विट् च कृतके लवणे भवेत् ।सौवर्चलाक्षरुचके लवणे सौछले द्वयम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.10 · p. 218
माणीमन्थं माणिबन्धं रौमके, वसुकं वसु ।वस्तकं स्याद्, विड-विटौ पाक्ये, टङ्कस्तु टङ्कणे ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1047 · p. 130
आशीःस्वस्त्ययनाभिज्ञा वृद्धवेश्या महत्तरी ।भुजंगः पल्लवो धूर्तो विटः षिद्गः समा इमे ॥ १०४७ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव विशेष्यनिघ्नवर्गः Trikāṇḍaśeṣa 3.1.6 · p. 82
षिड्गो व्यलीकः षट्प्रज्ञः कामकेलिर्विदूषकः ।पीठकेलिः पीठमर्दो भविलश्छिदुरो विटः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.70 · p. 141
वेश्याचार्यः पीठमर्दः षिद्गो वातसुतो विटः ।मार्दंगिको मौरजिको वीणावादास्तु वैणिकाः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.39 · p. 176
वेश्यापतौ षिद्गकुंभभुजङ्गविटपल्लवाः ।पुत्रस्तु तनयः सूनुरात्मजो नन्दनोंऽगजः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ टान्ताः Koṣakalpataru 6.10.6 · p. 179
षिङ्गे विटोऽस्त्री लवणाम्बुशैल-वालच्छदेषु प्रथितः स पुंसि ।सिङ्घाणकादौ तु घृतादिकाना-मधःस्थभागेंऽहसि किट्टमस्त्री ॥
उपजातिः
शिवकोष Śivakoṣa · शिवदत्तमिश्र टद्विः Śivakoṣa 8.1.122 · p. 12
वटो वराटे न्यग्रोधे यष्टी क्लीतकपद्मयोः ।रिष्टः कुष्टे फेनिले च विटोऽब्जे लवणे रिमे ॥ १२२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश टान्ताः Śabdaratnāvalī 7.11.27 · p. 201
विटोऽद्रौ खदिरे षिङ्गे लवणे मूषिकेऽपि च ॥
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.104 · p. 126
विटोऽद्रौ लवणे षिड्गे मूषिके खदिरेऽपि च ।पाञ्चलौहे श्रुतिकटः प्रायश्चित्तभुजङ्गयोः ॥ १०४ ॥
अनुष्टुप्

विट as a meaning in nānārtha verses