पूर्णपात्र
pūrṇapātraक्ली · neut.In 7 kośas: 8 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.
उत्सवेषु सुहृद्भिर्यद्बलादाकृष्य गृह्यते ।वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् ॥ ६७७ ॥
अनुष्टुप्
genderक्लीneut.
वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् ।तदेवाप्रपदीनं स्याद्व्याप्नोत्याप्रपदं हि यत् ॥ २९८ ॥
अनुष्टुप्
genderक्लीneut.
भणितं स्यादाच्छुरितं गोमुखं तूपलेपनम् ।वर्द्धापनार्थं यत्पूर्णपात्रं पूर्णानकं च तत् ॥ ३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
genderक्लीneut.
पूर्णानकं पूर्णपात्रं हर्षाद्वर्द्धापकं च तत् ।प्रयत्नेन विना लब्धं स्वस्तिलब्धं विशेष्यवत् ।(?)प्रवारणं काम्यदानं हन्तकारो बलिः समौ ।बलेर्हितादौ बालेयं गदितं भेद्यलिङ्गकम् ॥याथाकथाचं तु यथाकथा चैव प्रदीयते ।प्रावृषेण्यं प्रावृषि यद्देयं शरदि शारदम् ॥ ७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रा (wrong syllable)
genderक्लीneut.
पुरोगामी शुनि द्वे स्यात् त्रिषु तु स्यात् पुरस्सरे ।पूर्णपात्रस्तु नृनपोरुत्सवेषु सुहृज्जनैः ॥ ४०२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
genderक्लीneut.
छेकोक्तिर्वक्रभनितं गोमुखं तूपलेपनम् ।हार्षायणाप्तं यत्पूर्णपात्रं पूर्णानकं च तत् ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् ।उत्सवो मह उद्धर्ष उद्धवो हर्षवेणुकः ॥ ६१ ॥
अनुष्टुप्
genderक्लीneut.
वर्धापकं स्यादिह पूर्णपात्र-मथो महामात्र इह प्रधाने ।समृद्धके हस्तिपकाधिपे चा-थो बिन्दुशारीफलके वले च ॥ २९ ॥
उपजातिः
meaningsवर्धापक
गृह्यते वस्त्रमाल्यादि बलादाकृष्य तत्र यत् ।यम्य प्रमाणमुष्टीनां पत्पञ्चाशच्छतद्वयम् ॥ ४०३ ॥
अनुष्टुप्
doubtful
तत्रापि तण्डुलाद्येऽथ पूर्णे पात्रे जलादिना ।लिङ्गत्रयं स्यादत्रार्थे पूर्णानकपदं पुनः ॥ ४०४ ॥
अनुष्टुप्
doubtful
पूर्णपात्र as a meaning in nānārtha verses
- कोषकल्पतरु पूर्णानकअङ्गारको मङ्गल उल्मुकांशः स्त्रियां पलाशस्य च कोरके स्यात् । स्यात्पूर्णपात्रे पटहे च पूर्णा- नकं प्रमोदाद्वसनग्रहे च ॥ ३५ ॥ Koṣakalpataru 6.1.35