उत्सव
utsavaपुं · masc.In 14 kośas: 11 synonym verses, 7 as a nānārtha head word, 32 as a meaning of another word.
आलिङ्गनं परिष्वङ्गः संश्लेष उपगूहनम् ।अङ्कपाली परीरम्भः क्रोडिकृतिरथोत्सवे ॥ १५०७ ॥महः क्षणोद्धवोद्धर्षा मेलके सङ्गसङ्गमौ ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 डि (wrong syllable)
genderपुंmasc.
अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे ॥ ३७ ॥स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः ।कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
प्रत्यग्रमुक्तं सद्यस्कमुपाग्रमुपसर्जनम् ।दोला प्रेङ्खोलनं प्रेङ्खा उत्सवः स्यान्महः क्षणः ॥ ७६३ ॥
अनुष्टुप्
genderपुंmasc.
कम्पो वेपथुरत्र कम्पनमथो दर्दूः स शीताधिकामूर्छा स्त्री प्रलयो विचेष्टनमथोद्धर्षोद्धवौ च क्षणः ।पुंसि स्यान्मह उत्सवोऽथ चरमे सान्तं महः सम्मतंप्रोक्तः खण्डरसश्च चित्ररसयुक्सर्वेऽपि यस्मिन्रसाः ॥ २०९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
यायावरश्चक्रवरः सद्यःप्रक्षालितान्नकः ।उत्सवो मह उद्धर्ष उद्धवो हर्षवेणुकः ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
खेदो द्वेषोऽप्यमर्षश्च रुट्कोपक्रोधमन्यवः ।हर्षः प्रमोदः प्रमदो मुत्तोषानन्दमुत्सवः ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
उत्सवः क्षण उद्धर्षो महश्चोक्तस्तथोद्धवः ।मेलके संगमः सङ्गो निरोधो निग्रहो मतः ॥ ३८१ ॥
अनुष्टुप्
genderपुंmasc.
उत्सवः क्षण उद्धर्षो मह उद्धव उद्धयः ।उत्सवे बालकादीनां पर्यायः परिकीर्तितः ॥
अनुष्टुप्
genderपुंmasc.
अङ्कपाली परिरम्भः परीरम्भोऽप्यथोत्सवे ।महो महश्च सान्तं षण्, मेलके सङ्ग-सङ्गमौ ॥ ८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
genderपुंmasc.
अविज्ञातेङ्गिताकारो भावो गाम्भीर्यमुत्सवः ।उद्धवः क्षण उद्धर्षो महो मान्द्यमपाटवम् ॥ १०२० ॥
अनुष्टुप्
genderपुंmasc.
वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् ।उत्सवो मह उद्धर्ष उद्धवो हर्षवेणुकः ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
उत्सवो मह उत्सेके क्रोधाभीष्टप्रसारयोः ।उद्धव उत्सवः प्रोक्त उद्धवो मातुलो हरेः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
आत्मभूर्मन्मथे विष्णौ विरिञ्चे चाप्यथोत्सवः ।उत्सेकामर्षयोरिच्छाप्रसरे च महे तथा ॥ ३८ ॥
अनुष्टुप्
रभसस्तूत्सुके स्माह तदेतदसमञ्जसम् ।उत्सेधो मकुटच्छत्रध्वजेषूष्णीषकाययोः ॥ ३९ ॥
अनुष्टुप्
meaningsउत्सुक
doubtful
उपाधिर्धर्मचिन्तायां कुडुंबव्यापृतेऽपि च ।उत्सवस्त्विच्छाप्रसर उत्सेधामर्षयोर्महे ॥ ११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छा (wrong syllable)
उत्सव as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् क्षणनिर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ॥ ४७ ॥ Amarakośa 3.3.47
- नामलिङ्गानुशासनम् महस्तेजःपुरीषयोर्वर्चो महस्तूत्सवतेजसोः । Amarakośa 3.3.450
- हलायुधकोशः (अभिधानरत्नमाला) क्षणकालविशेषेऽवसरेऽव्यापारे पारतन्त्र्ये च । मध्ये तथोत्सवे च क्षणशब्दः कथ्यते सद्भिः ॥ ८५१ ॥ Abhidhānaratnamālā (Halāyudha) 5.851
- धरणिकोश क्षणगणः स्यात्प्रमथे संघे संख्यासैन्यप्रभेदयोः । क्षणो व्यापारशून्यत्वे मुहूर्तोत्सवपर्वसु । कणोऽतिसूक्ष्मे धान्यांशे पिप्पल्यां जीरके कणा ॥ Dharaṇikośa 14.2.6
- धरणिकोश कौमुदीकौमुदः कार्तिको मासः कौमुद्यौ चन्द्रिकोत्सवौ । तोयदो मुस्तके मेघे तोयदं घृतमुच्यते ॥ Dharaṇikośa 17.2.6
- धरणिकोश पर्वन्पर्व स्यादुत्सवे ग्रन्थप्रस्तावे विषुवादिषु । दर्शप्रतिपदोः सन्धौ स्यात्तिथिः पञ्चकान्तरे ॥ Dharaṇikośa 19.3.6
- धरणिकोश महगुहा दरी पृश्निपर्णी कार्तिकेयो गुहो मतः । मही नदी मही भूमिर्मह उत्सवतेजसोः ॥ Dharaṇikośa 32.2.4
- कोषकल्पतरु कौतुकप्रसेकः स्रुतौ सेचने वक्त्रलाला- स्रुतौ स्यादथ द्रोणिकायां जलस्य । विचारे रहोऽर्थे च शस्तो विवेक- स्त्रिषु त्वेकको निःसहाये रसे ना । कङ्कोलके मृणाले कोरकमस्त्री च कुड्मलार्थेऽपि । अभिलाषोत्सवनर्म- प्रीतिविवा[253a]हीयगीतसूत्रादौ ॥ ७५ ॥ Koṣakalpataru 6.1.75
- कोषकल्पतरु पर्वन्पर्वोत्सवेऽन्त्ये तिथिपञ्चके च ग्रन्थौ च दर्शप्रतिपत्सुसंधौ । प्रस्तावके लक्षणभिद्यपि स्यात् तद्वत्प्रदिष्टं विषुवादिकेषु ॥ ८९ ॥ Koṣakalpataru 6.21.89
- कोषकल्पतरु महस्महस्तथा तेजसि चोत्सवेऽन्त्ये *दस्तथाङ्कस्तु शरीरचिह्ने । पाथो जलेऽन्नेऽप्यथ पक्ष उक्तं छदे च वर्षार्धकपक्षयोश्च ॥ १० ॥ Koṣakalpataru 6.31.10
- नानार्थार्णवसंक्षेप क्षणमहाजलसमूहे च वाद्यादिद्रुतवर्तने । क्षणस्त्ववसरे मध्ये पारतन्त्र्ये तथोत्सवे ॥ १९ ॥ Nānārthārṇavasaṃkṣepa 2.2.19
- नानार्थार्णवसंक्षेप महस्स्वर्णवेतनयोर्भर्म भर्गस्तेजसि रेतसि । भुवः सूर्ये लोकभेदे महस्तूत्सवतेजसोः ॥ ४५ ॥ Nānārthārṇavasaṃkṣepa 2.3.45
- नानार्थार्णवसंक्षेप यजुस्धनप्रतापयोश्चाथ यजुर्यज्ञोत्सवे तथा । मन्त्रजातिविशेषे च योक्त्रं त्वङ्गुलियोक्त्रयोः ॥ ४८ ॥ Nānārthārṇavasaṃkṣepa 2.3.48
- नानार्थार्णवसंक्षेप क्षुद्रसरघायां च ना त्वेष उत्सवेऽथ क्षुणः पुमान् । क्षोमे क्रोधे रुजि त्रिस्तु स्यादुन्मत्तेऽथ कुन्दवाक् ॥ २४३ ॥ Nānārthārṇavasaṃkṣepa 2.5.243
- नानार्थार्णवसंक्षेप पर्वन्विपुवादाववसरे पञ्चदश्यां तथोत्सवे । प्रतिपत्पञ्चदश्योश्च सन्धौ ग्रन्थिद्वयान्तरे ॥ ७३९ ॥ Nānārthārṇavasaṃkṣepa 2.5.739
- नानार्थार्णवसंक्षेप महमहः पुंम्युत्सवे स्त्री तु मही वाचि गवि क्षितौ । सज्जनस्तु नदीभेदेऽप्याह द्विवचनेन तु ॥ ९४२ ॥ Nānārthārṇavasaṃkṣepa 2.5.942
- नानार्थार्णवसंक्षेप उद्गतउद्गता विषमे वृत्तविशेषे स्त्री त्रि तूत्सवे । उत्पिबो द्वे चकोराख्यपक्षिण्युत्पातरि त्रिषु ॥ २७१ ॥ Nānārthārṇavasaṃkṣepa 4.271
- नानार्थार्णवसंक्षेप कल्याणकल्याणं तूत्सवे क्लीबं मङ्गलेऽक्षयरुक्मयोः । हलायुधः स्वर्णपत्रे पठत्यनतिसूक्ष्महक् ॥ ३०१ ॥ Nānārthārṇavasaṃkṣepa 4.301
- परमानन्दीयनाममाला क्षणउत्सवेऽथ मतः क्ष्वेडो वक्रे च गरले तथा । क्ष्वेडा सिंहध्वनौ देशे काले क्ष्वेडं दुरासदे ॥ ३७९ ॥ Paramānandīyanāmamālā 5.29.379
- शब्दरत्नावली कौतुककोरकोऽस्त्री कुद्मले स्यात् कक्कोलकमृणालयोः । कौतुकस्त्वभिलाषे च नर्मण्युत्सवहर्षयोः ॥ Śabdaratnāvalī 7.1.60
- शब्दरत्नावली सुवसन्तकउत्सवे मदनेऽपि स्यात् माधव्यं सुवसन्तकः । अथ यूय्यां हेमपुष्प्यां चम्पके हेमपुष्पकः ॥ Śabdaratnāvalī 7.1.217
- शब्दरत्नावली क्षणऊर्णा स्यादन्तरावर्ते भ्रुसोर्मेषादिलोमनि । कर्णः स्यात्तु पृथापुत्रे श्रवणे काञ्चनी(?) त्रिषु(?) ॥ क्षण पर्वण्युत्सवे च कालमानेऽपि न द्वयोः । कणा तु जीवके चाल्पपिप्पलीमक्षिकासु च ॥ Śabdaratnāvalī 7.15.4
- शब्दरत्नावली पर्वन्तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नावली यात्राआमलक्यां विदार्याञ्च मलप्वामपि च स्त्रियाम् । यात्रा स्त्रियामुत्सवे स्याद्गमने यापनेऽपि च ॥ Śabdaratnāvalī 7.27.39
- शब्दरत्नावली वल्लरवल्लरः पुंसि गहननवक्षेत्रोत्सवेषु च । मार्गरो दक्षिणावर्त्तशङ्खकृष्णलवीजयोः ॥ Śabdaratnāvalī 7.27.98
- शब्दरत्नावली महस्महः क्लीबमुत्सवे स्यात्तेजस्यपि नपुंसकम् । मानसं चित्तसरसो रभसं हर्षवेगयोः ॥ Śabdaratnāvalī 7.32.28
- शब्दरत्नावली रसरासे रसस्तु शृङ्गारे गोष्ठामुत्सवरासयोः । राजहंसो नृपश्रेष्ठे कादम्बकलहंसयोः ॥ Śabdaratnāvalī 7.32.52
- शब्दरत्नावली महमही भूम्यां नदीभेदे मह उत्सवतेजसोः । मोहो मूर्छाविद्ययोर्ना दुःखमात्रे क्वचिद्भवेत् ॥ Śabdaratnāvalī 7.33.9
- शब्दरत्नाकर क्रमक्रमस्तु पादविक्षेपे वेदपाठान्तरे विधौ । उत्सवेऽवसरे मध्ये कालभेदाल्पकालयोः ॥ १८९२ ॥ Śabdaratnākara 4.1.1892
- त्रिकाण्डशेष यात्रागमनोत्सवयोर्यात्रा रुधिरं कुङ्कुमेऽपि च । वृक्षभित्पापयो रोध्रो दैत्यभेदे मृगे रुरुः ॥ ३६९ ॥ Trikāṇḍaśeṣa 3.3.369
- वैजयन्ती क्षणउत्सवे परतन्त्रत्वे मध्यावसरपर्वसु । कन्तू कुसूलकन्दर्पौ प्राज्ञकाव्यकृतौ कवी ॥ १२ ॥ Vaijayantī 6.1.12
- वैजयन्ती महस्भाग्यं कर्मण्यन्यजन्मकर्मण्यपि शुभाशुभे । भर्गसी रेतआलोकौ महसी तेजउत्सवौ ॥ २४ ॥ Vaijayantī 6.3.24