कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रावृषेण्य

prāvṛṣeṇyaपुं · masc.

In 8 kośas: 8 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.201 · p. 271
प्रावृष्यः प्रावृषेण्यः स्यादथ धूलीकदम्बकः ।बलभद्राभिधो भृङ्गप्रियः क्रमुकपुष्पकः ॥ २०१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.91 · p. 50
वर्षा च वरिषा भूम्नि प्रावृषेण्यस्तु तद्भवे ॥ ९१ ॥
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.76 · p. 157
कदम्ब[38b]स्तु कलम्बः स्यात्प्रावृषेण्यो हलिप्रियः ॥ ७६ ॥
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.74 · p. 238
पूर्णानकं पूर्णपात्रं हर्षाद्वर्द्धापकं च तत् ।प्रयत्नेन विना लब्धं स्वस्तिलब्धं विशेष्यवत् ।(?)प्रवारणं काम्यदानं हन्तकारो बलिः समौ ।बलेर्हितादौ बालेयं गदितं भेद्यलिङ्गकम् ॥याथाकथाचं तु यथाकथा चैव प्रदीयते ।प्रावृषेण्यं प्रावृषि यद्देयं शरदि शारदम् ॥ ७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रा (wrong syllable)
genderविadj.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.12 · p. 9
तत्पुष्पचूर्णे तु करिकुसुमः पुष्परोचनः ।कदम्बे स्यात् पीतदारुः प्रावृषेण्यो हलिप्रियः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.257 · p. 35
क्रमात्प्रावृट् च वर्षाश्च स्त्रीत्वैकत्वबहुत्वयोः ।प्रावृषेण्यं त्रिषु प्रावृड्भवं प्रावृषिकं त्रिषु ॥ २५७ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1793 · p. 217
पुलकप्रावृषेण्यौ तु कदम्बः प्रियकश्च सः ।पूगावली तु कुहली बदरी तु तिरीटिका ॥ १७९३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.60 · p. 50
कदम्बे पुलकी श्रीमान् प्रावृषेण्यो हलीमकः ।महाकदम्बके नीपो धूर्तो धूतीरदीपनौ ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.383 · p. 59
युद्धे पश्वहिपक्ष्याद्यैर्युद्धमात्रेऽप्यथो पुमान् ।प्रावृषेण्यः कदम्बद्रौ त्रिषु प्रावृड्भवादिषु ॥ ३८३ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र यच Śivakoṣa 21.3.365 · p. 33
पार्वतीया तु मोदक्यां धातक्यामभयाभिदि ।प्रावृषेण्यात्मगुप्तायां कुलत्थे ना हरिप्रिये ॥ ३६५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.57 · p. 263
आश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः ।हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु ।पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते ।लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥परमात्मनि तीर्थे च विहारे च महालयः ।अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् ।बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः ।युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)

प्रावृषेण्य as a meaning in nānārtha verses