कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्र

praवि · adj.

In 6 kośas: 1 synonym verse, 5 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1462 · p. 55
स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः ।भूतरूपोपमाः काशः संनीप्रप्रतीतः परः ॥ १४६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ती (wrong syllable)
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास रान्ताः Dharaṇikośa 34.16.1 · p. 241
[प्र] प्रकर्षे गताद्यर्थे स्वः स्वर्गपरलोकयोः ।दुः कष्टे तु निषेधे [च] पुनरप्रथममेदयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 पुन (syllable split)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.12 · p. 132
प्रश्नानुनीत्योरपि संभ्रमे तुक्रोधे विषादे स्मरणेऽप्यये स्यात् ।मध्यान्तिकेऽर्थे समया प्र तु स्या-द्गते प्रकर्षेऽप्यथ दुश्च कष्टे ॥ १२ ॥
उपजातिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.52 · p. 303
प्र प्रकर्षे गताद्यर्थे अरे सम्बोधने क्रुधि ॥उर्य्युरी चोररी च स्याद्विस्तारेऽङ्गीकृतावपि ।दुर्निषेधे च दुःखे च निर्निषेधे च निश्चये ॥परि स्यात्सर्वतीभावभागवर्जनदूषणे ।व्याप्ति वीप्सालक्षणेत्थम्भूतदोषप्रकाशने ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययैकाक्षराध्यायः Śabdaratnākara 5.1.2254 · p. 273
नाभावान्यविरोधेषु निर्निश्चयनिषेधयोः ।प्रश्ने विकल्प नु स्विच्च प्रादौ यात्राप्रकृष्टयोः ॥ २२५४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अनेकार्थाव्ययाध्यायः Vaijayantī 8.7.6 · p. 284
प्रश्ने विकल्पे नु स्विच्च प्रादौ यात्राप्रकृष्टयोः ।वि निषेधे पृथग्भावे वा विकल्पोपमानयोः ॥ ६ ॥
अनुष्टुप्