कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रकार

prakāraवि · adj.

In 12 kośas: 8 synonym verses, 5 as a nānārtha head word, 41 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1462 · p. 55
स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः ।भूतरूपोपमाः काशः संनीप्रप्रतीतः परः ॥ १४६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ती (wrong syllable)
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.694 · p. 80
सदृक् समानः सदृशः सदृक्षः,प्रख्यः प्रकाशः प्रतिमः प्रकारः ।तुल्यः समः सन्निभ इत्यभिन्नाः,शब्दाः प्रयोगेषु गवेषणीयाः ॥ ६९४ ॥
उपजातिः
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.66 · p. 29
प्रख्य-प्रतीकाश-निभोपमानो-पमा-प्रकार-प्रतिम-प्रकाशाः ।संकाश-नीकाश-सनाभि-भूतरूपादयश्चोत्तरगाः समार्थाः ॥ ६६ ॥
उपजातिः
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.29 · p. 32
प्रतियत्नो गुणाधानं विकृतं वैकृतं त्रिषु ।उपस्कृतं भेद्यलिङ्गं प्रतियत्ने च वैकृते ॥विधा स्त्री भिद्भिदा भेदः प्रकारोऽथ परिक्रमः ।विहारोऽपि परीसर्प-परिसर्पगमास्त्रयः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2658 · p. 429
प्रकारश्चाथ नीकाशः सङ्काशो रूपमेव च ।तदापि सदृशार्थकत्वमायात्येव न संशयः ॥ २६५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.23 · p. 193
प्रकार इत्थंभावः स्यादपकारोऽन्यपीडनम् ।प्रत्याख्यानं निराकारः प्रत्यादेशो निरासवत् ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.122 · p. 211
आभा प्रख्योपमाभिख्या प्रकारः सन्निभं निभम् ।निकाशाद्याश्च साम्यार्थाः समे स्युः शब्दतः पराः ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.309
प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास रपादः Dharaṇikośa 26.1.14 · p. 163
पिठरौ दन्तिकाग्रन्थौ जठरौ कठिनोदरौ ।प्रकारौ भेदसादृश्यौ आकाराविङ्गिताकृती ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.44 · p. 324
भेदे प्रकारः सदृशे तथा स्या-ट्टङ्कार उक्तोऽद्भुतकुप्रसिद्ध्योः ।मौर्वीध्वनौ स्याच्छरयन्त्रके तुदण्डार उक्तोऽपि कुलालचक्रे ॥ ४४ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.128 · p. 22
तथैव ततपुष्पादौ भेदसादृश्ययोः पुनः ।प्रकारोऽथ प्रमाथः स्याद्धिंसायां च प्रमन्थने ॥ १२८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.56 · p. 243
वरुणेऽनले प्रचेताः प्रतापमाहात्म्ययोः प्रभावः स्यात् ।भेदसमते प्रकारौ विपर्यये विस्तरे प्रपञ्चः स्यात् ॥ ५६ ॥
गीतिः

प्रकार as a meaning in nānārtha verses