कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रतिशासन

pratiśāsanaक्ली · neut.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.277 · p. 15
आज्ञा शिष्टिर्निराङ्निभ्यो देशो नियोगशासने ।अववादोऽप्यथाहूय प्रेषणं प्रतिशासनम् ॥ २७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.63
प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.77 · p. 243
प्रेषणं यत्समाहृत्य तत्तु स्यात्प्रतिशासनम् ।ससंस्तावस्तु विज्ञेयः स्तुतिभूमिर्द्विजन्मनाम् ॥ ७७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.44 · p. 34
प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ।प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् ॥ ४४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.401 · p. 51
आदेशश्च निदेशो वै अववादश्च कथ्यते ।सेवकादिकमाहूय प्रेषणं प्रतिशासनम् ॥ ४०१ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.63 · p. 174
भृत्यादिकं समाहूय प्रेषणं प्रतिशासनम् ।छन्दोगयागस्तुतिभूः संस्तावः सवेदिह (?) ॥उद्घनस्तक्ष्यते यत्रकाष्ठे काष्ठं निधाय सः ।स्यात् स्तम्बघ्नः स्तम्बघनः येन स्तम्बो निहन्यते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (syllables merged)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1708 · p. 206
विधुरं तु प्रविश्लेषे विनाशः स्याददर्शनम् ।प्रतिशासनमित्येतदाहूय प्रेषणं पुनः ॥ १७०८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.35 · p. 194
यत्प्रेषणं समाहूय तस्मिन् स्यात् प्रतिशासनम् ।वंचनं त्वतिसंधानं व्यलीकं च प्रतारणम् ॥ ३५ ॥
अनुष्टुप्
genderक्लीneut.