कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

सामान्यकाण्डः · धर्मकर्माध्यायः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां सामान्यकाण्डे गणाध्यायः

रूपं तत्त्वं सतत्त्वं च स्वरूपं च सलक्षणम् ।सहजं निजमाजानं धर्मसर्गौ निसर्गवत् ॥ १ ॥
5.2.1 · p. 192
अनुष्टुप्
स्वभावः प्रकृती रीतिरवस्था तु दशा स्थितिः ।प्रभावः प्रभवन्ती स्यात् प्रभुता प्रभविष्णुता ॥ २ ॥
5.2.2 · p. 192
अनुष्टुप्
परभागो गुणोत्कर्षः प्राग्भारोऽतिशयो भरः ।विस्तारो विग्रहो व्यासस्स तु शब्दस्य विस्तरः ॥ ३ ॥
5.2.3 · p. 192
अनुष्टुप्
अनायासार्थकं फाण्टं दौर्मत्यं तु कररैकम् ।विघ्नोऽन्तरायः प्रत्यूहो रोषे त्वादीनवाश्रवौ ॥ ४ ॥
5.2.4 · p. 192
अनुष्टुप्metre not read in every line
दैर्घ्यमायाम आनाहः परिणाहो विशालता ।वैपरीत्यं विपर्यासो व्यत्ययश्च विपर्ययः ॥ ५ ॥
5.2.5 · p. 192
अनुष्टुप्
व्यत्यासो व्यतिहारः स्यादन्तर्गडु निरर्थकम् ।तत्क्षणं स्यादेकपदं यदृच्छा नियमोज्झितिः ॥ ६ ॥
5.2.6 · p. 192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
वण्टो विभागो भागोंऽशः पादस्त्वंशश्चतुर्थकः ।कला तु षोडशो भागो वारस्त्ववसरः क्षणः ॥ ७ ॥
5.2.7 · p. 192
अनुष्टुप्
प्रतिकूलानुकूलार्थे अपष्ठुरमपष्ठु च ।पृष्ठमांसादनं पश्चाद्गतस्यार्थस्य गर्हणम् ॥ ८ ॥
5.2.8 · p. 192
अनुष्टुप्
आम्रेडनं झटप्पः स्यात् झंपः संपातपाटवम् ।कर्म क्रियाप्यनुष्ठानं तद्भेदा गमनादयः ॥ ९ ॥
5.2.9 · p. 192
अनुष्टुप्
यात्रा व्रज्या च गमनं प्रस्थानं च गतिर्गमः ।चक्रावर्तो भ्रमो भ्रांतिर्भ्रमिर्घूर्णिश्च घूर्णनम् ॥ १० ॥
5.2.10 · p. 192
अनुष्टुप्
ईहनं शीघ्रगमनं सारणं छद्मना गतिः ।व्रज्याटाट्या पर्यटनमल्पेऽध्वनि गतागतम् ॥ ११ ॥
5.2.11 · p. 192
अनुष्टुप्
सविकारा गतिः सोरो भेलनं तरणं प्लवः ।कादाचित्कस्तु भेयोऽसौ क्षेपो लंगनलंघने ॥ १२ ॥
5.2.12 · p. 193
अनुष्टुप्
निर्याणं स्यान्निर्गमनमंहनं वक्षसा गतिः ।प्रतिबन्धः प्रतिष्टंभः सम्बन्धः प्राप्तिरापनम् ॥ १३ ॥
5.2.13 · p. 193
अनुष्टुप्
निर्बन्धोऽभिनिवेशः स्यात् प्रवेशोऽन्तरगाहनम् ।आस्यासनोपवेशश्च निवेशो रचना स्थितिः ॥ १४ ॥
5.2.14 · p. 193
अनुष्टुप्
अथाभ्यादानमारंभः प्रक्रमः स्यादुपक्रमः ।प्रत्युत्क्रमः प्रयोगः स्यादारोहणमभिक्रमः ॥ १५ ॥
5.2.15 · p. 193
अनुष्टुप्
आक्रमोऽभिक्रमः क्रान्तिर्व्युत्क्रमस्तूत्क्रमो मृतम् ।विक्रमः शौर्यकरणमत्याधानमतिक्रमः ॥ १६ ॥
5.2.16 · p. 193
अनुष्टुप्
भूमानं विक्रमः पद्भ्यां निर्हारोऽभ्यवकर्षणम् ।अनुहारोऽनुकारः स्यात् परिहारो निवर्तना ॥ १७ ॥
5.2.17 · p. 193
अनुष्टुप्
प्रत्याहार उपादानमभिहारस्त्वभिग्रहः ।समास उपसंहारः समाहारः समुच्चयः ॥ १८ ॥
5.2.18 · p. 193
अनुष्टुप्
अपहारस्त्वपादानं प्रहारस्त्वभिताडनम् ।उपलंभस्त्वनुभवो विलंभस्त्वतिसर्जनम् ॥ १९ ॥
5.2.19 · p. 193
अनुष्टुप्
विप्रलंभो विसंवादः प्रतिलंभस्तु लंभनम् ।स्वतंत्रवृत्तिर्व्युत्थानमभ्युत्थानं तु गौरवम् ॥ २० ॥
5.2.20 · p. 193
अनुष्टुप्
संस्थानं सन्निवेशः स्यादुपस्थानं तु संगतिः ।धान्योत्क्षेपणमुत्कारः पराकारस्तु धिक्क्रिया ॥ २१ ॥
5.2.21 · p. 193
अनुष्टुप्
विकारो विप्रकारः स्यादाकारस्त्विंग इंगितम् ।उपक्रियोपकारः स्यादपकारोऽन्यतः कृतिः ॥ २२ ॥
5.2.22 · p. 193
अनुष्टुप्
प्रकार इत्थंभावः स्यादपकारोऽन्यपीडनम् ।प्रत्याख्यानं निराकारः प्रत्यादेशो निरासवत् ॥ २३ ॥
5.2.23 · p. 193
अनुष्टुप्
परिणामोऽन्यथाभावः सन्नामस्त्वन्यथाकृतिः ।प्रणामः प्रणिपातः स्यादुन्नामस्तुंगतोन्नतिः ॥ २४ ॥
5.2.24 · p. 194
अनुष्टुप्
उद्योगोऽस्त्री समुत्थानं विनियोगोऽर्पणं फले ।विधिर्नियोगः संप्रेष उपयोगः फलक्रिया ॥ २५ ॥
5.2.25 · p. 194
अनुष्टुप्
संयोगसंप्रयोगौ संभेदः सन्निपातसंश्लेषौ ।संपाते विश्लेषे तु विप्रयोगविरहवियोगाः ॥ २६ ॥
5.2.26 · p. 194
metre not recognised
विगमोऽपगमोऽपायो मेलने संगसंगमौ ।शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ॥ २७ ॥
5.2.27 · p. 194
अनुष्टुप्
बंधनं प्रसितिर्बंधः क्लान्तिस्तु क्लमथः क्लमः ।परिसर्या परीसारः परिसर्पः परिक्रमः ॥ २८ ॥
5.2.28 · p. 194
अनुष्टुप्
लवे विलावो लवनं तेमः स्तेमः समुन्दनम् ।प्रतिश्रवः प्रतिख्यातिरपेक्षा प्रतिजागरः ॥ २९ ॥
5.2.29 · p. 194
अनुष्टुप्
संयामसंयमौ यामो वियामो वियमो यमः ।संवाहनं मर्दनं स्यात् पर्यवस्था विरोधनम् ॥ ३० ॥
5.2.30 · p. 194
अनुष्टुप्
संस्तवः स्यात्परिचय उदजः प्रेषणे पशोः ।पवनं पवनिष्पावौ जूतिस्तु जवनं जवः ॥ ३१ ॥
5.2.31 · p. 194
अनुष्टुप्
प्रेजनं स्यादपसरो रंधनं पचनं पचा ।क्षयः क्षिया नयो नायो मदो मादः स्नवः स्रवः ॥ ३२ ॥
5.2.32 · p. 194
अनुष्टुप्
उद्वेग उद्भ्रमः श्रायः श्रयणं प्रमितिः प्रमा ।स्फातिस्तु वृद्धिः स्फुरणं स्फुलनं क्षेपणं क्षिपा ॥ ३३ ॥
5.2.33 · p. 194
अनुष्टुप्
उद्यमो गुरणं श्च्योतिः प्रघारः प्रथनं प्रथा ।भंगिस्तु व्याकृतिः खेदो निर्वेदो घटना घटा ॥ ३४ ॥
5.2.34 · p. 194
अनुष्टुप्
यत्प्रेषणं समाहूय तस्मिन् स्यात् प्रतिशासनम् ।वंचनं त्वतिसंधानं व्यलीकं च प्रतारणम् ॥ ३५ ॥
5.2.35 · p. 194
अनुष्टुप्
निष्ठीवोऽस्त्री निष्ठीवनमपि निष्ठेवनं च निष्ठ्यूतिः ।उपरत्यारत्यपरतिविरतय उपरमण उपरामः ॥ ३६ ॥
5.2.36 · p. 195
आर्या
संविदागूः प्रतिज्ञास्थाप्यभ्युपायः प्रतिश्रवः ।अंगीकाराभ्युपगमनियमाश्रवसंश्रवाः ॥ ३७ ॥
5.2.37 · p. 195
अनुष्टुप्
प्रणीतिः स्यादनुनयः प्रश्रयः सांत्वनं तथा ।सपत्राकृतिनिष्पत्राकृती त्वत्यन्तपीडने ॥ ३८ ॥
5.2.38 · p. 195
अनुष्टुप्
वर्णनं स्याद्विभजनं प्रवाहस्तु परंपरा ।श्रन्थनं ग्रन्थनं गुंफः संदर्भो रचना न ना ॥ ३९ ॥
5.2.39 · p. 195
अनुष्टुप्
विधूननं विधुवनं त्यागो हानं च वर्जनम् ।आवर्जनं द्रवक्षेपे निधानं क्षेपणासने ॥ ४० ॥
5.2.40 · p. 195
अनुष्टुप्
सम्मूर्छनं व्यापनं स्यात् विदरः स्फुटनं भिदा ।आवर्तनं क्वाथनं स्यात् क्वथनं पाकवर्तनम् ॥ ४१ ॥
5.2.41 · p. 195
अनुष्टुप्
संवीक्षणं विचयनं लोटनं तु विवेष्टनम् ।इत्यादयः क्रियाशब्दा लक्ष्या धातुषु लक्षणैः ॥ ४२ ॥
5.2.42 · p. 195
अनुष्टुप्