कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अववाद

avavādaपुं · masc.

In 6 kośas: 7 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.277 · p. 15
आज्ञा शिष्टिर्निराङ्निभ्यो देशो नियोगशासने ।अववादोऽप्यथाहूय प्रेषणं प्रतिशासनम् ॥ २७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.25
अववादस्तु निर्देशो निदेशः शासनं च सः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.76 · p. 250
[111a]स्थाने वरं चाव्ययानि मर्यादा धारणा स्थितिः ।संस्था चाज्ञा तु निर्द्देशो निदेशोऽप्यववादवत् ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.35 · p. 3
सिंहासनं भद्रपीठं भद्रासननृपासने ।हैमं छत्रमातपत्रमववादो? निदेशकः ॥ ३५ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 त्र (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.401 · p. 51
आदेशश्च निदेशो वै अववादश्च कथ्यते ।सेवकादिकमाहूय प्रेषणं प्रतिशासनम् ॥ ४०१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.379 · p. 27
अपक्रोशोऽपवादः स्यादववादो विकुत्सनम् ।अगम्यागमनं युक्तं तवेत्यादिकभाषणम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.205 · p. 125
समर्थनं भवेत् सम्प्रधारणा च समर्थना ।आज्ञाववादो निर्देशो निदेशः शासनं तथा ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ दान्ताः Koṣakalpataru 6.19.43 · p. 238
विश्वासे च नियोजने निगदितो विद्वद्भिरुक्तस्तथावीणावादनवस्तुनीह * परीवादः कलङ्केऽपि च ।मर्यादासहिते तथा त्रिषु समर्यादः समीपे भवे-दातोद्ये पुटभेद एष नगरे चक्रे नदीनामपि ॥ ४३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश दान्ताः Śabdaratnāvalī 7.18.24 · p. 230
अष्टापदी चन्द्रमाल्यां मर्कटे शरभे पुमान् ।अववादः समाज्ञायां निन्दाविश्रम्भयोरपि ॥
अनुष्टुप्