अतिसन्धान
atisandhānaक्ली · neut.In 5 kośas: 5 synonym verses.
कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् ।व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ ॥कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् ।व्यलीकमतिसन्धानं साधौ सभ्यार्यसज्जनाः ॥ ३७९ ॥
अनुष्टुप्
genderक्लीneut.
वञ्चनं चातिसन्धानं व्यलीकं स्यात्प्रतारणम् ।विप्रलम्भो विसंवादो विप्रलापश्च कीर्तितः ॥ ७४८ ॥
अनुष्टुप्
genderक्लीneut.
अथ स्याद्दम्भचर्या च कुक्कुटिः कुहना तथा ।वञ्चनं च व्यलीकं चाऽतिसन्धानं प्रतारणम् ॥ ५६२ ॥
अनुष्टुप्
genderक्लीneut.
छलना तु न ना शाठ्यं कुसृतिर्निकृतिः स्त्रियौ ।प्रतारणातिसंधानवञ्चनानि प्रलोभनम् ॥ १०१८ ॥
अनुष्टुप्
genderक्लीneut.doubtful
यत्प्रेषणं समाहूय तस्मिन् स्यात् प्रतिशासनम् ।वंचनं त्वतिसंधानं व्यलीकं च प्रतारणम् ॥ ३५ ॥
अनुष्टुप्
genderक्लीneut.doubtful