बन्धनी
bandhanīस्त्री · fem.In 4 kośas: 3 synonym verses, 2 as a nānārtha head word.
मृगाणां बन्धनी रज्जुः शुल्वोऽस्त्री नाव राटकः ।रज्जुः स्त्रियां त्रिषु वटी वरत्रा गुणदोरकौ ॥ ५५ ॥
अनुष्टुप्
genderस्त्रीfem.
पशुरज्जुर्दामनी स्याद् बन्धनीत्यपि कुत्रचित् ।प्रग्राहः प्रग्रहोऽपि स्यात्तथा गवादिरज्जुषु ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ग (wrong syllable)
genderस्त्रीfem.
रज्जुःसा बन्धनी तन्त्री त्वल्पा पाशस्तु कर्णिका ।गुणो वराटो रज्जुः स्त्री न ना शुल्बा वटी त्रयी ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
प्रसवे त्वनयोरेतन्नब्लिङ्गमवधारयेत् ।पशुबन्धनरज्जौ तु बन्धनी स्त्री नपि त्वदः ॥ १२३७ ॥
अनुष्टुप्
meaningsपशुबन्धनरज्जु
फलिन्यग्निशिखायान्तु फल्यां स्त्री तद्वति त्रिषु ।फाल्गुणोऽर्जुनवृक्षे च गुडाकेशनदीजयोः ॥मासभेदे पुमानेव पौर्णमास्यान्तु फाल्गुनी ।ब्रह्मा प्रजापतौ ऋत्विग्योगभेदद्विजेषु ना ॥ब्रह्म तत्त्वे च वेदे च तपस्यपि च न द्वयोः ।वन्धनी वटिजीवातु नङिमाठनकर्मसु (?) ॥बन्धनञ्च वधे बन्धे हिंसायाञ्च नपुंसकम् ॥
अनुष्टुप्