वराट
varāṭaपुं · masc.In 13 kośas: 15 synonym verses, 4 as a nānārtha head word, 11 as a meaning of another word.
शुल्वा रज्जुर्वराटश्च वटस्तन्त्रीर्गुणः स्मृतः ।पाशः स्याद्बन्धनग्रन्थिर्वागुरा मृगजालिका ॥ ५९७ ॥
अनुष्टुप्
genderपुंmasc.
उक्ता मुक्ता मौक्तिकं शौक्तिकेयं,मुक्तास्फोटः शुक्तिराख्यायते च ।कम्बुः शङ्खः क्षुल्लकाः क्षुद्रशङ्खाः,शम्बूकास्ते स्युः कपर्दो वराटः ॥ ६६४ ॥
शालिनी
genderपुंmasc.
किञ्जल्के त्वकरुश्च स्यात्केसरः परिकीर्तितः ।पद्मोदरो वराटः स्याद्बिसकोशस्तु कर्णिका ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
द्यूतबीजं वटी वा ना हिरण्यं च वराटकः ।द्वयोर्वराटो वटकः कपर्दः श्वेतकोऽपि च ॥ १०२ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
रज्जुः समासेऽथ खनौ च गञ्जालाजा बहुत्वे च भुजो वराटः ।रज्जौ च शस्त्रे च गृहे कुटः स्या-त्कुटिस्तुटिः स्याच्च सटा घटा च ॥ २० ॥
उपजातिः
genderपुंस्त्रीm. f.
गुणो वराटो रज्जुः स्त्री नना शुल्बा वटी त्रयम् ।ग्रन्थिर्बन्धो व्रजो गोष्ठं गोष्ठीनं तु पुराव्रजः ॥ २४८ ॥
अनुष्टुप्
genderपुंmasc.
क्षुद्रशङ्खाः शङ्खनकाः शम्बूका जलमात्रजाः ।कपर्दस्तु वराटः स्यात्पणास्थिकवराटकाः ॥ १२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
genderपुंmasc.
आकरार्थे तथा गञ्जो भूरुहे बाणपिप्पलौ ।वृन्दे गोले च पिण्डोऽपि वराटो रज्जुशस्त्रयोः ॥ १०४ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कुवेणी मत्स्यधानी स्याद् बडिशं मीनवेधनम् ।उद्गालो मत्स्यबन्धः स्याद्वराटस्तु कपर्दकः ॥ ३३१ ॥
अनुष्टुप्
genderपुंmasc.
बीजकोशो वराटः स्यात्पद्माक्षं पद्मकर्कटी ।संवर्तिका नवं पर्णं वारिपर्णी तु कुम्भिका ॥ ३६३ ॥
अनुष्टुप्
genderपुंmasc.
चकोरो वरकः शारी पद्यो वातीकतित्तिरी ।रक्तवर्त्मक इन्द्राह्वो वराटश्चेति विष्किराः ॥ ८१३ ॥
अनुष्टुप्
genderपुंmasc.
खड्गे वराट एरण्डबीजाभपुलकान्वितः ।स्नुहीदलसदृक्छायो निस्त्रिंशोऽथावि(सि?)राजयः ॥ १३३८ ॥
अनुष्टुप्
genderपुंmasc.
पाशो रश्मिर्गुणो बन्धो वराटः प्रग्रहो वटः ।शुल्बं शुल्बाप्यथ व्याधो मृगयुर्लुब्धकश्च सः ॥ १५३९ ॥
अनुष्टुप्
genderपुंmasc.
जूटो वराटः कर्कन्धूः शाल्मलिर्बलिडाडिमौ ।मृत्युः कुम्भो भुजो बाहुर्ज्वालः कीलोऽशनिः फणः ॥ २३२६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
रज्जुःसा बन्धनी तन्त्री त्वल्पा पाशस्तु कर्णिका ।गुणो वराटो रज्जुः स्त्री न ना शुल्बा वटी त्रयी ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
तद्वति स्यात् तथैवायं वलजातेऽपि ना पुनः ।रज्जौ वराटः पद्मस्य बीजकोशेऽप्यधीयते ॥ १५८८ ॥
अनुष्टुप्
खड्गभेदेऽपि चैरण्डबीजाभपुलकावलौ ।नीचेऽथ द्वे कपर्दाख्यजलजन्तौ त्रिषु त्वयम् ॥ १५८९ ॥
अनुष्टुप्
doubtful
सेवकेऽथ वरालो ना मिश्रवर्णान्तरे भवेत् ।सितपिङ्गाणरूपेऽथ तद्वति त्रिषु सा पुनः ॥ १५९० ॥
अनुष्टुप्
meaningsसेवक
वराट as a meaning in nānārtha verses
- धरणिकोश कपर्दकविशेषकः स्यात्तिलके विशेषयति योऽपि च । कपर्दको वराटः स्याज्जटाजूटे शिवस्य च ॥ Dharaṇikośa 1.2.54
- कोषकल्पतरु वटवटस्तु न स्त्री समतावराट- कपर्दभक्ष्येषु गुडेऽपि तद्वत् । न्यग्रोधशुम्बेषु स तु त्रिलिङ्गो द्वंद्वेन हीनः स फले वटस्य ॥ ५ ॥ Koṣakalpataru 6.10.5
- नानार्थार्णवसंक्षेप शारद्यूतशारौ वराटेऽपि शबरस्वाम्यवोचत । शारिः स्त्री शारिकासंज्ञविहङ्गे नृस्त्रियोः पुनः ॥ १३५६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1356
- नानार्थार्णवसंक्षेप हिरणअक्षये चाप्यकुप्ये च रेतस्यप्यथ बोधत । वराटहेमरेतःसु हिरणं रभसोऽपठीत् ॥ ९२ ॥ Nānārthārṇavasaṃkṣepa 3.3.92
- नानार्थार्णवसंक्षेप कपर्दमहादेवजटाजूटे जटाजूट इतीतरे । जलजन्तुविशेषे तु वराटाख्ये द्वयोरथ ॥ ३७७ ॥ Nānārthārṇavasaṃkṣepa 4.377
- परमानन्दीयनाममाला कपर्दकपर्दोऽपि वराटे स्याज्जटाजूटे पिनाकिनः । कीनाशस्तु दरिद्रेऽपि कर्षके राक्षसे यमे ॥ १२९ ॥ Paramānandīyanāmamālā 5.7.129
- शिवकोष वटवटो वराटे न्यग्रोधे यष्टी क्लीतकपद्मयोः । रिष्टः कुष्टे फेनिले च विटोऽब्जे लवणे रिमे ॥ १२२ ॥ Śivakoṣa 8.1.122
- शिवकोष हिरण्यहिरण्यं तु वराटे स्यात्काञ्चनेऽपि च न द्वयोः । Śivakoṣa 21.2.11
- शब्दरत्नावली कपर्दकमहादेवः जटाजूटे वराटे च कपर्दकः । नागभेदे बिल्वतरौ भवेत् कर्कटकोऽपि च ॥ Śabdaratnāvalī 7.1.161
- त्रिकाण्डशेष कपर्दशिवजूटे वराटेऽपि कपर्दोऽथाऽमये गदः । विष्णोर्भ्रातरि चास्त्रे स्त्री पलाशे गरुति च्छदः ॥ २०६ ॥ Trikāṇḍaśeṣa 3.3.206
- त्रिकाण्डशेष हिरण्यहिरण्यं रेतसि स्वर्णे मानभेदे वराटयोः । उरस्यपि च बुक्कायां हृदयं मानसेऽपि च ॥ ३२५ ॥ Trikāṇḍaśeṣa 3.3.325