वटी
vaṭīस्त्री · fem.In 14 kośas: 17 synonym verses, 5 as a nānārtha head word, 1 as a meaning of another word.
शुम्बं वराटको रज्जुः शुल्वं तन्त्री वटी गुणः ॥ ९२८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः ।
अनुष्टुप्
genderस्त्रीfem.
मृगाणां बन्धनी रज्जुः शुल्वोऽस्त्री नाव राटकः ।रज्जुः स्त्रियां त्रिषु वटी वरत्रा गुणदोरकौ ॥ ५५ ॥
अनुष्टुप्
genderविadj.
द्यूतबीजं वटी वा ना हिरण्यं च वराटकः ।द्वयोर्वराटो वटकः कपर्दः श्वेतकोऽपि च ॥ १०२ ॥
अनुष्टुप्
genderस्त्रीfem.
नदीयज्ञार्थयोर्वृक्षः सिद्धार्थोऽपि वटी स्त्रियाम् ।अमरा शृङ्गिनी क्षीरकाष्ठाप्यथ कपीतनः ॥ १०३ ॥
अनुष्टुप्
genderस्त्रीfem.
वराटिका वटी [70b] सोऽल्पः काकिणी ताश्च विंशतिः ।दुर्नामा दीर्घकोशी स्यात्पङ्कशुक्तिः सितालिका ।चिकिटः स्यान्महाशल्क इम्बिका जलवृश्चिकः ॥ २ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
जटा कुरण्टी च सटा वधूटीस्याद्ग्रामटी खट्यपटी वटी च ।नटिश्छटा स्याच्छकटिर्घटा चमाटिर्भुषण्ठिश्च मतात्र शुण्ठी ॥ ४६ ॥
उपजातिः
genderस्त्रीfem.
गुणो वराटो रज्जुः स्त्री नना शुल्बा वटी त्रयम् ।ग्रन्थिर्बन्धो व्रजो गोष्ठं गोष्ठीनं तु पुराव्रजः ॥ २४८ ॥
अनुष्टुप्
genderस्त्रीfem.
रज्जौ शुभं(ल्बं?) शोभनं च शुम्भं वटकरोऽपि च ।वटी वटो वटं चापि गुणो वटकरीति च ॥ ६०१ ॥
अनुष्टुप्
genderस्त्रीfem.
गुणो रज्जुस्तथा शुम्बं शुल्वं वटारको वटी ।तन्त्री तन्त्रिश्च नामानि मन्यन्ते रज्जुवस्तुनः ॥ १५७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderस्त्रीfem.
मृगबन्धनजाले तु वागुरा मृगबन्धनी ।रज्जुः स्त्रियां त्रिषु वटी गुणः शुल्ववरा स्त्रियाम् ॥
अनुष्टुप्
genderविadj.
न्यग्रोधे तु वटो वट्या वटं जन्तुफले पुनः ।उदुम्बरोडुम्बरौ द्वौ मलयूर्जघनेफला ॥ १४२ ॥
अनुष्टुप्
genderस्त्रीfem.
जाबालः स्यादजाजीवो देवाजीवस्तु देवलः ।पाशी तु कर्णिका रज्जूर्वरत्रा तन्त्रिका वटी ॥ १५३८ ॥
अनुष्टुप्
genderस्त्रीfem.
विभीतकी वटी शाटी कवाटी मण्डली तटी ।भल्लातक्यामलक्यौ च स्फुलिङ्गः शलली त्रिषु ॥ २३२८ ॥
अनुष्टुप्
genderविadj.
जृम्भश्च टाबन्ता एते स्त्रियामथ विभीतकः ।हरीतकाढकतटकवाटाश्च गुणो वटः ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
रज्जुःसा बन्धनी तन्त्री त्वल्पा पाशस्तु कर्णिका ।गुणो वराटो रज्जुः स्त्री न ना शुल्बा वटी त्रयी ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिलिङ्ग्यां तु क्वचिच्छुङ्गा कलशी कन्दरी दरी ।पेटी पुटी पटी वाटी कवाटी पिटका वटी ॥ ३७ ॥
अनुष्टुप्
genderपुंस्त्रीक्लीm. f. n.
वटी रज्जौ त्रयी ना तु न्यग्रोधेऽन्यस्त्ववोचत ।अपूपभेदे द्वे त्वेष वेणुकीवैश्यजे नरे ॥ ११८७ ॥
अनुष्टुप्
पटुः पटोले दक्षे च नीरोगे चतुरेऽन्यवत् ।पट्टः पेषणपाषाणव्रणादिवस्त्रपोरपि ॥राजशासनभेदेऽपि पत्रे पीठे चतुष्पथे ।पटिः स्त्री पटभेदे स्याद् वागुलौ कुम्भिकाद्रुमे ॥पुष्टिः पोषणवृद्धयोः स्त्रीफटादम्भे फणेऽपि च ।वटी त्रिषु गुणे ना तु वृक्षनाथकपर्दयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)nearly अनुष्टुप्
meaningsगुण
कुटी गृहे वटी पाशे घटी नाड्यां पुटी पुटे ।यात्रा प्रवर्तने ध्वान्ते तमिस्रा संस्थितिर्मृतौ ॥ १७३० ॥
अनुष्टुप्
meaningsपाश
वटी as a meaning in nānārtha verses
- शब्दरत्नावली गुणगणश्च प्रमथे वृन्दे संख्यायां सैनिकेऽपि च । गुणः सूत्रे चाप्रधाने मौर्व्वी त्यागवटीषु च ॥ कषादिशौर्यगन्धादिसत्त्वाद्यावृत्तिरज्जुषु । शुक्लादावपि पुंसि स्याद् गेष्णुर्ना गायने नटे ॥ Śabdaratnāvalī 7.15.8