कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दामनी

dāmanīस्त्री · fem.

In 12 kośas: 15 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1274 · p. 49
बन्धनं दाम संदानं पशुरज्जुस्तु दामनी ॥ १२७४ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.73
न पुंसि दाम सन्दानं पशुरज्जुस्तु दामनी ॥ ७३ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.277 · p. 33
सन्दानं दामनी दाम पशूनां बन्धनं मतम् ।अजः प्रोक्तः स्तभो वस्तश्छागश्छगलकश्छगः ॥ २७७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.467 · p. 184
क्लीबे दामं स्त्रियां रञ्जुर्दामन्युष्ट्रः क्रमेलकः ।वक्रग्रीवो बहुकरो वासन्तः कण्टकाशनः ॥ ४६७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.44 · p. 465
गोष्ठी वानी रसवती मत्स्यण्ड्या सह दामनी ।कस्तूरी सिञ्जिनी मौर्वी क्षैरेय्यपि च देहली ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.52 · p. 286
पशुरज्जुर्दामनी स्यात्प्रजनोपसरौ समौ ।द्रोणी गवादनी च स्त्री गवादेर्भक्ष्यभाजनम् ।गोगोयुगं तु गोयुग्ममेवं स्यादुष्ट्रगोयुगम् ॥ ५२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.58 · p. 101
ह्रादिनी स्वेदनी कर्तनी काकिनीदामनी शिञ्जिनी वर्तनी कामिनी ।नीलिनी मालिनी चेतना भावनासामिधेनी तथा मातुलानी भवेत् ॥ ५८ ॥
स्रग्विणी
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.247 · p. 39
अथ स्याद्दाण्डिको दण्डः काणोऽपि लकुटो लकुः ।सन्दानं दामनी दामा रज्जुः स्याद्वलिनीति च ॥ २४७ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.65 · p. 219
प्रतोली तिलपर्णी चाढक्यपट्यौ कुमार्यपि ।सिञ्जिनी दामनीन्द्राणी द्रुणी गोणी जुहूस्तनुः ॥ ६५ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.506 · p. 91
दामनीति स्त्रियां चाथ वैशाखो मन्थनं तथा ।मन्थाश्च मन्थनं(नो?) मन्था मन्थानो दधिमन्थने ॥ ५०६ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.66 · p. 131
अथ कूपे प्रपाश्चान्धुरुदपानं सदो स्त्रियाम् ।कूपयन्त्रे त्रिका नेमिः पि(वि?)नाहस्तस्य दामनी ॥ ६६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2300 · p. 373
गोबन्धनाय रज्जुः स्यात् संदानं दान बन्धनम् ।दामनी पशुरज्जुश्च यत्राऽनेकस्य बन्धनम् ॥ २३०० ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.142 · p. 147
पशुरज्जुर्दामनी स्याद् बन्धनीत्यपि कुत्रचित् ।प्रग्राहः प्रग्रहोऽपि स्यात्तथा गवादिरज्जुषु ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ग (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.762 · p. 97
नस्या स्त्री नासिकारज्जुः पशुरज्जुस्तु दामनी ।निधानं स्याद्गवां दोहे पश्चाच्चरणबन्धनम् ॥ ७६२ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.29 · p. 138
जाबालः स्यादजाजीवः कोणोऽक्ली लगुडो नरि ।सन्दानं दामनी दामा न ना दाम पशोस्तु या ॥ २९ ॥
अनुष्टुप्
genderस्त्रीfem.