महाशालि
mahāśāliपुं · masc.In 9 kośas: 9 synonym verses.
genderपुंmasc.
रक्तशालिर्महाशालिः कलमाश्चेति शालयः ।उद्दालः कथितः प्राज्ञैः कोद्रवः कोरदूषकः ॥ ५८० ॥
अनुष्टुप्
genderपुंmasc.
तत्र शूकेषु प्रथमे शालयः पुंस्यमी पुनः ।रक्तशालिर्महाशालिः कलमः शकुनाहृतः ॥ १८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षु (wrong syllable)
genderपुंmasc.
व्रीहिमान्व्रीहिको व्रीही शालिलः शालिकस्तथा ।शाली च शालियुक्तेऽथ चरव्यश्चरवे हुतः ॥स राजभोजनो राज्ञा भुज्यते योऽन्यलिङ्गकः ।शालयः कलमाद्याः स्युः कलमो ना कलामकः ॥लोहितो रक्तशालिः स्यान्महाशालिः सुगन्धिकः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
शालौ तु कलमाद्याः स्युः कलमे तु कलामकः ।लोहिते रक्तशालिः स्यान्महाशालौ सुगन्धिकः ॥ ३८७ ॥
अनुष्टुप्
genderपुंmasc.
सुगन्धिको महाशालिः षष्ठिकः सूक्ष्मतण्डुलः ।कलावकास्तु कलमाः प्रवराः शालषष्ठिकाः ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
सौगन्धिको महाशालिर्भेदाः शालेस्तु भूरयः ।हयप्रियस्तीक्ष्णशूको यवस्तोक्मो हरिन्मतः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
पुनः ख्यातो महाशालिः सुगन्धिकोऽपि कथ्यते ।लोहितो रक्तशालिश्च नामतः प्रथितं भुवि ॥ २१०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्धि (wrong syllable)
genderपुंmasc.
व्रीहयः स्तंबकरयः शालयः श्वेततण्डुलाः ।सुगन्धिको महाशाली रक्तशालिः सलोहितः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.