कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तोक्म

tokmaपुं · masc.

In 13 kośas: 12 synonym verses, 5 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.92 · p. 46
यवो हयप्रियस्तीक्ष्णशूकस्तोक्मस्त्वसौ हरित् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.16
तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः ।हरेणुरेणुकौ चास्मिन्कोरदूषस्तु कोद्रवः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.98 · p. 472
रूपस्य निकुरम्बस्य तद्वच्छुल्वकुटुम्बयोः ।स्यात्तलभप्रसभयोस्तथैव युग्मतोक्मयोः ॥ ९८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.31 · p. 274
अश्वप्रियः प्रावटोऽथ तोक्मोऽसौ हरितो भवेत् ।साक्तुकः सक्तुसाधुर्यो यव आपूपिकस्त्रिषु ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.4 · p. 107
प्रसभं तलभं च[229a]भं च शुष्मंकिलिमं कृत्रिमतिग्मधाममीर्मम् ।तलिमं च तोक्म-युग्मेस्तोमं सूक्ष्मं विलोमवत्प्रदिष्टम् ॥ ४ ॥
metre not recognised
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र धान्यकाण्डः Nighaṇṭuśeṣa 6.388 · p. 210
यवे हयप्रियस्तीक्ष्णशूकस्तोक्मस्त्वसौ हरित् ।मङ्गल्यके मसूरः स्यात् कलाये तु सतीनकः ॥ ३८८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.88 · p. 63
सौगन्धिको महाशालिर्भेदाः शालेस्तु भूरयः ।हयप्रियस्तीक्ष्णशूको यवस्तोक्मो हरिन्मतः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.93 · p. 222
प्रसभं तलभं शुष्मं धामाध्यात्मेर्मपुष्करम् ।किलिभं तोक्मशूक्ष्मे च तिग्मयुग्माजिराणि च ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.427 · p. 80
यवे तु शितशूकः स्याद्धरिते तोक्म इष्यते ।कलायः सतिनकश्च हरेणुः खण्डिकोऽपि च ॥ ४२७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2109 · p. 349
यवो हयप्रियो लोके तीक्ष्णशूकश्च स स्मृतः ।स एव हरितस्तोक्मः कथ्यते कोविदैः किल ॥ २१०९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.30 · p. 139
यवो ना शितशूकः स्यात् शीतशूकश्च कीर्तितः ।तोक्मं तत्रैव हरिते यवगुत्से च कुत्रचित् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1417 · p. 171
शितशूको दीर्घशुको यवो यज्ञिय इत्यपि ।यवे तु हरिते तोक्म आशुव्रीहिस्तु पाटलः ॥ १४१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास मार्धश्लोकः Dharaṇikośa 24.2.3 · p. 142
तोक्मं स्मृतं हरिन्मात्रे तोक्मश्च हरितो यवः ।भ्रमोऽम्भोनिर्गमे भ्रान्तौ कुन्दाख्ये शिल्पयन्त्रके ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ मान्ताः Koṣakalpataru 6.25.66 · p. 281
क्रोधे यामिपतौ रुचौ च नरके भौमस्तथा मङ्गलेभूजेषु त्रिषु मण्डपे तु समये श्रामः पुमान्कीर्तितः ।यक्ष्मो रोगपतौ गदेऽपि गदितो रुक्मं तु हेमायसो-स्तोक्मं स्याद्धरिते यवे हरिति चाम्भोदे तु न स्याद्द्वयोः ॥ ६६ ॥
शार्दूलविक्रीडितम्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश मान्ताः Śabdaratnāvalī 7.25.10 · p. 253
चमूः सेनामात्रकेतु सेनाभेदेऽपि च स्त्रियाम् ।जाल्मः क्रूरे पामरेऽसमीक्ष्यकारिण्यपि त्रिषु ॥जिह्मः स्यात्कुटिले मन्दे क्लीबं तगरभूरुहे ।तोक्मं कर्णमले ना तु हरिते च हरिद्यवे ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.297 · p. 194
तोक्मं कर्णमले पुंसि हरिते च हरिद्यये ।द्रुमो यक्षेश्वरे वृक्षे दमो दमथुदण्डयोः ॥ २९७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.38 · p. 233
कर्णमूलेऽभ्रहरितोस्तोक्मं तोक्मो हरिद्यवः ।दंडोऽस्त्री शासने राज्ञां हिंसायां लगुडे दमे ॥ ३८ ॥
अनुष्टुप्