कलम
kalamaपुं · masc.In 19 kośas: 25 synonym verses, 6 as a nānārtha head word, 2 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
रक्तशालिर्महाशालिः कलमाश्चेति शालयः ।उद्दालः कथितः प्राज्ञैः कोद्रवः कोरदूषकः ॥ ५८० ॥
अनुष्टुप्
genderपुंmasc.
मेलामसिर्द्वयोः पत्राञ्जनं स्याच्च मसी स्त्रियाम् ।स्त्रियां स्यात्कलमः पुंसि लेखनी चापि न स्त्रियाम् ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
तत्र शूकेषु प्रथमे शालयः पुंस्यमी पुनः ।रक्तशालिर्महाशालिः कलमः शकुनाहृतः ॥ १८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षु (wrong syllable)
genderपुंmasc.
रक्तशूको रक्तशालिर्महतः शालितण्डुलौ ।कलामाः कलमा भूम्नि नाकलम्बिश्च गारुडः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
वातायुः कृष्णसारस्तु कलमः कृष्ण इत्यपि ।एणोऽप्यथ पुनर्न्यङ्कुर्वङ्कुणो मृगसंनिभः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
कलमो लेखनी वर्णतूलिका वर्ण(र्णि?)का स्त्रियः ।तूलिका कूचिका चित्रलेखनी च स्त्रियो मताः ॥चरमे चित्रमालेख्यं लिषिः स्त्री चित्रलेखनम् ।लेखीलको लेखहारो चित्रयन्त्रेषु संचकः ॥लेखबर्हं लेखपत्रं वाचनं तु प्रहेलनम् ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
प्लवगः कलमो विप्रोऽथान्यो देवशिरीषकः ।चक्रेन्द्रको बदरकोऽप्यथ न स्त्री तमालकः ।समौ तपिच्छ-तापिच्छौ कालस्कन्धश्च कीर्तितः ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
व्रीहिमान्व्रीहिको व्रीही शालिलः शालिकस्तथा ।शाली च शालियुक्तेऽथ चरव्यश्चरवे हुतः ॥स राजभोजनो राज्ञा भुज्यते योऽन्यलिङ्गकः ।शालयः कलमाद्याः स्युः कलमो ना कलामकः ॥लोहितो रक्तशालिः स्यान्महाशालिः सुगन्धिकः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
शालौ तु कलमाद्याः स्युः कलमे तु कलामकः ।लोहिते रक्तशालिः स्यान्महाशालौ सुगन्धिकः ॥ ३८७ ॥
अनुष्टुप्
genderपुंmasc.
सुगन्धिको महाशालिः षष्ठिकः सूक्ष्मतण्डुलः ।कलावकास्तु कलमाः प्रवराः शालषष्ठिकाः ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
षाष्टिकः कलमः शालिर्व्रीहिः स्तम्बकरिस्तथा ।वत्सः शकृत्करिर्जातः षोडन् षड्दशनः स्मृतः ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
षष्टिको गर्भपाकी च पाटलस्त्वाशुरुच्यते ।कलामकस्तु कलमो रक्तशालिस्तु लोहिते ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
ततस्तु तुण्डी कलमस्तत इत्युच्यते बुधैः ।प्रभिन्नगर्जितौ मत्ते उद्वान्तो निर्मदोऽमदे ॥ २८६ ॥
अनुष्टुप्
genderपुंmasc.
अतिभारवहे स्थौरी पृष्ठ्यः पटुकलः पटुः ।कर्कः सिताश्वे नीलाश्वे कलमः कन्धरः शरः ॥ २९७ ॥
अनुष्टुप्
genderपुंmasc.
ऋद्धं च निर्बुसीधान्ये बहुलीकृतमिष्यते ।माषश्च कलमाः शाल्यः शालयः षष्टिकादयः ॥ ४३८ ॥
अनुष्टुप्
genderपुंmasc.
व्रीहिः शालिस्तन्दुलिकः कलमः षष्ठिको गुडः ।कङ्गुः प्रियङ्गुर्नीवारो वनशालिर्मुनिप्रियः ॥ २५६ ॥
अनुष्टुप्
genderपुंmasc.
पाटलो व्रीहिराशुः स्याद् गर्भपाकी च षष्टिकः ।शालयः कलमाद्याः स्युः कलमश्च कलामकः ॥ २१०७ ॥
अनुष्टुप्
genderपुंmasc.
लेखनी वर्णतुली स्यात् वर्णकाक्षरतूलिका ।कराश्रयः श्रीकरणश्चित्रकः कलमः पुमान् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 तु (wrong syllable)
genderपुंmasc.
शमीधान्ये तु माषादिर्यवादिः शूकधान्यके ।कलमाद्याः षष्टिकाद्याः शालयः पुंसि कीर्तिताः ॥
अनुष्टुप्
genderपुंmasc.
आशुव्रीहिः कलमस्तु कडमश्च कलामकः ।मङ्गल्यके मङ्गल्याऽपि मसूरो मसुरस्तथा ॥ २५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
रोहितो रक्तशालिः स्यात् श्वेतशालिस्तु सूकरः ।कलापकास्तु कलमा हायनास्तु महाबुसाः ॥ १४१४ ॥
अनुष्टुप्
genderपुंmasc.
बालकः कृष्णशालिः स्यात् प्रवरः शालिषष्टिकः ।कलमसुगन्धिकहायनपारावतगौरलोहितपतंगाः ॥ १४१५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
षष्टिको गर्भपाकी स्यात्प्रवरः शालियष्टिकः ।कलापकास्तु कलमा हायनास्तु महाबुसाः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
वीणाप्रसेवके गेयभेदे च कलमः पुनः ।लेखन्यामङ्कुरे शालिप्रभेदे तस्करेऽपि च ॥ ६२ ॥
अनुष्टुप्
कलम as a meaning in nānārtha verses
- कोषकल्पतरु शालिधमिल्लचूडामुकुटेषु मौलि- र्द्वयोरशोके तु नृलिङ्ग उक्तः । शालिः पु[68b]मान्स्यात्कलमे च गन्ध- मार्जारके योषिति पालिरस्रौ ॥ ८९ ॥ Koṣakalpataru 6.28.89
- नानार्थार्णवसंक्षेप कलापककलमाख्ये नपि त्वेतज्जानीयाद्विश्वभेषजे । स्याद्विद्रुमलतायां तु कपोताङ्घ्रिः स्त्रियामियम् ॥ १५७ ॥ Nānārthārṇavasaṃkṣepa 6.157