कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्तम्बकरि

stambakariपुं · masc.

In 13 kośas: 13 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.88 · p. 45
धान्यं तु सस्यं सीत्यं च व्रीहिः स्तम्बकरिश्च तत् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.21
धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.579 · p. 65
धान्यशूकं च किंशारुः कणिशं धान्यशीर्षकम् ।नालं काण्डं क्षुपो गुच्छो व्रीहिः स्तम्बकरिः स्मृतः ॥ ५७९ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर त्रयोदशोपदेशः Bālaprabodhikā 13.258 · p. 89
व्रीहिस्तु रेणुको बीजो धान्यं सस्यं तु वैटिकः ।व्रीहिः स्तम्बकरिः प्रोक्तः शालेयाः श्वेततण्डुलाः ॥ २५८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.81 · p. 141
अपि स्तम्बकरिर्गुच्छो वालस्त्रिष्वपि चास्त्रियाम् ।काण्डेऽफले पलालोऽस्त्री पलोथापि कडङ्गरे ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र धान्यकाण्डः Nighaṇṭuśeṣa 6.386 · p. 208
अथ धान्ये सस्यं सीत्यं व्रीहिस्तम्बकरी अपि ।आशौ स्यात्पाटलो व्रीहिर्गर्भपाकिनि षष्टिकः ॥ ३८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.207 · p. 34
व्रीहिस्तु रेणुको बीजो धान्यं सस्यं [ तु ] रीरिका ।व्रीहयस्तम्बकरयः शालेयाः श्वेततण्डुलाः ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 167 · p. 81
षाष्टिकः कलमः शालिर्व्रीहिः स्तम्बकरिस्तथा ।वत्सः शकृत्करिर्जातः षोडन् षड्दशनः स्मृतः ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.86 · p. 62
शेपालं तु शेवालं शैवालं जलनीलिका ।सस्यसीत्ये समे धान्यं व्रीहिस्तम्बकरी समे ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 शे (syllables merged)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2106 · p. 348
धान्यं सस्यं तथा सीत्यं व्रीहिः स्तम्बकरिः पुनः ॥ २१०६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.45 · p. 140
शस्यशूकन्तु किंशारुः कणिशं शस्य मञ्जरी ।पुंसि स्तम्बकरिः धान्यं व्रीहिर्ना धान्यमात्रके ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1413 · p. 171
मुष्टिः स्यात् कटकं बन्धः खनित्रमवदारणम् ।व्रीहयः स्तम्बकरयः शालयः सिततण्डुलाः ॥ १४१३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.32 · p. 125
व्रीहयः स्तंबकरयः शालयः श्वेततण्डुलाः ।सुगन्धिको महाशाली रक्तशालिः सलोहितः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.doubtful