कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

व्रीहि

vrīhiपुं · masc.

In 21 kośas: 23 synonym verses, 3 as a nānārtha head word, 19 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.88 · p. 45
धान्यं तु सस्यं सीत्यं च व्रीहिः स्तम्बकरिश्च तत् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.15
आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.21
धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.579 · p. 65
धान्यशूकं च किंशारुः कणिशं धान्यशीर्षकम् ।नालं काण्डं क्षुपो गुच्छो व्रीहिः स्तम्बकरिः स्मृतः ॥ ५७९ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर त्रयोदशोपदेशः Bālaprabodhikā 13.258 · p. 89
व्रीहिस्तु रेणुको बीजो धान्यं सस्यं तु वैटिकः ।व्रीहिः स्तम्बकरिः प्रोक्तः शालेयाः श्वेततण्डुलाः ॥ २५८ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 50 · p. 5
पुष्पे मणिचकं सूनं फले सस्यं तु पिप्पलम् ।धान्ये स्यादक्षतं सित्यं व्रीहिर्वरिरितीर्यते ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.23 · p. 135
प्रायः स्युर्व्रीहयो व्रीहिर्महान्कृष्णो जतूद्भवः ।सारामुखस्त्वरितको लावाक्षश्चीनशूकरौ ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.28 · p. 274
काष्ठे पञ्चाङ्गुलं क्लीबे धान्यं सीत्यं च सस्यकम् ।व्रीहिः स्तम्बकरी पुंसि व्रीहिस्त्वाशुश्च पाटलः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
एते शब्दाः पुंसि भवन्ति । अयं शेखरः पुष्पसङ्घातः उत्तुङ्गो वा । यूपो यज्ञभाण्डम् । पुरोडाशो यज्ञपिण्डकिः । कूपोऽवटः । सूपो व्यञ्जनम् । लवो लेशः । शष्पो बालतृणम् । धर्म उपवासादिः । मयो वेश्म । वासांसि वस्त्राणि तेषां दशाः । दाराः स्त्रियश्च पुंसि भवन्ति बहुत्वं चैषां सदा भवति । इमे वासोदशाः वस्त्रान्तसूत्रम् । इमे दाराः स्त्रियः । वास इति किम् । दशा अवस्था ।मांसविवराभिधानं नपुंसके विद्धि तीर्थतुण्डे च ।यवमाषाद्या व्रीहयः पुंसि प्रियङ्गवश्च स्त्रियामेव ॥ ५६ ॥
metre not recognised
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र धान्यकाण्डः Nighaṇṭuśeṣa 6.386 · p. 208
अथ धान्ये सस्यं सीत्यं व्रीहिस्तम्बकरी अपि ।आशौ स्यात्पाटलो व्रीहिर्गर्भपाकिनि षष्टिकः ॥ ३८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.207 · p. 34
व्रीहिस्तु रेणुको बीजो धान्यं सस्यं [ तु ] रीरिका ।व्रीहयस्तम्बकरयः शालेयाः श्वेततण्डुलाः ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 167 · p. 81
षाष्टिकः कलमः शालिर्व्रीहिः स्तम्बकरिस्तथा ।वत्सः शकृत्करिर्जातः षोडन् षड्दशनः स्मृतः ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.86 · p. 62
शेपालं तु शेवालं शैवालं जलनीलिका ।सस्यसीत्ये समे धान्यं व्रीहिस्तम्बकरी समे ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 शे (syllables merged)
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.434 · p. 81
मातुलानी तु भङ्गा च भङ्गी च शणपुष्पिका ।व्रीहिधान्ये स्तम्बकरी कणिशं सस्यमञ्जरी ॥ ४३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त (wrong syllable)
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.256 · p. 18
व्रीहिः शालिस्तन्दुलिकः कलमः षष्ठिको गुडः ।कङ्गुः प्रियङ्गुर्नीवारो वनशालिर्मुनिप्रियः ॥ २५६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2106 · p. 348
धान्यं सस्यं तथा सीत्यं व्रीहिः स्तम्बकरिः पुनः ॥ २१०६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2107 · p. 348
पाटलो व्रीहिराशुः स्याद् गर्भपाकी च षष्टिकः ।शालयः कलमाद्याः स्युः कलमश्च कलामकः ॥ २१०७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.45 · p. 140
शस्यशूकन्तु किंशारुः कणिशं शस्य मञ्जरी ।पुंसि स्तम्बकरिः धान्यं व्रीहिर्ना धान्यमात्रके ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1186 · p. 146
व्रीहिश्यामाकगोधूमयवमुद्गतिलाणवः ।माषप्रियङ्गुनीवारकोरदूषमसूरकाः ।गवीधुका कुलित्थश्च यज्ञीयास्ते चतुर्दश ॥ ११८६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1413 · p. 171
मुष्टिः स्यात् कटकं बन्धः खनित्रमवदारणम् ।व्रीहयः स्तम्बकरयः शालयः सिततण्डुलाः ॥ १४१३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.31 · p. 125
न स्त्री मेथिः खले पाली खलधानं पुनः खलः ।व्रीहिर्वरेणुको वीज्यो धान्यं सस्यं लवेटिका ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.32 · p. 125
व्रीहयः स्तंबकरयः शालयः श्वेततण्डुलाः ।सुगन्धिको महाशाली रक्तशालिः सलोहितः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.63 · p. 128
कोद्रवाद्याः कुधान्यानि व्रीहयः शालिकादयः ।स्तम्बे गुचक्षुपौ काण्डे नाली त्रय्यफला तु सा ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.112 · p. 30
धान्यमात्रे षष्टिकादिधान्यभेदेऽप्यथ व्रजे ।विन्यासे च व्यूहशब्दो विन्यस्तेऽपीति कश्चन ॥ ११२ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र हद्विः Śivakoṣa 28.1.534 · p. 49
व्रीहिः सामान्यधान्ये स्याच्चाशुव्रीहौ पुमान् रुहा ॥ ५३४ ॥
शब्दरत्नावली Śabdaratnāvalī · मथुरेश हान्ताः Śabdaratnāvalī 7.33.12 · p. 298
व्रीहिः शरत्पक्वधान्ये धान्यमात्राशुधान्ययोः ॥

व्रीहि as a meaning in nānārtha verses

  • हलायुधकोशः (अभिधानरत्नमाला) अणुआर्यः स्यात्सौविदल्लेऽपि व्रीहावप्यणुरिष्यते । चण्डालेऽपि दिवाकीर्तिर्विवस्वान् देवतास्वपि ॥ ८१४ ॥ Abhidhānaratnamālā (Halāyudha) 5.814
  • धरणिकोश हायनहायनास्तु समाख्याता व्रीहिसंवत्सरार्चिषः । गोस्तनो हारभेदे च द्राक्षा तु गोस्तनी मता ॥ Dharaṇikośa 19.2.34
  • धरणिकोश धान्यधान्यं व्रीहिषु धन्याके प्रियं हृद्ये धवे प्रियः । शय्या तल्पे ग्रन्थगुम्फे व्रज्या त्वटनरङ्गयोः ॥ Dharaṇikośa 25.1.9
  • धरणिकोश लौहित्यअपत्ये दुहितृसुतौ लौहित्यौ व्रीहिसागरौ । श्वशुर्यौ देवरश्यालौ विस्मयाऽद्भुतगर्वयोः ॥ Dharaṇikośa 25.1.12
  • धरणिकोश मसूरमसूरश्च मसूरी च व्रीहौ पापरुजि क्रमात् । करीरस्तरुभेदः स्यात्कलशे वैणवाङ्कुरे ॥ Dharaṇikośa 26.2.62
  • धरणिकोश आशुस्पशौ प्रणिधिसंग्रामावाशू च व्रीहिसत्वरौ । निस्त्रिंशौ क्रूरखड्गौ तु बालिशो मूर्खशावकौ ॥ Dharaṇikośa 29.1.2
  • कोषकल्पतरु मकुष्ठस्थाने प्रतिष्ठा मखनिर्वृतौ च यागस्य सिद्धावपि वृत्तभेदे । व्रीहौ मकुष्ठः त्रिषु मन्थरे स्या- दंबष्ठ उक्तो नरि देशभेदे ॥ ६३ ॥ Koṣakalpataru 6.11.63
  • कोषकल्पतरु कुरुविन्दमुनिदैत्यद्रुमभेदे मुचुकुन्दो मुस्तके व्रीहौ । कुरुविन्दः कुल्माषे माणिक्ये हिङ्गुले मुकुरे ॥ ४६ ॥ Koṣakalpataru 6.19.46
  • कोषकल्पतरु हायनस्याद्धायनोऽस्त्री किरणे च वर्षे व्रीहौ तु ना फल्गुनफाल्गुनौ तु । तपस्यमासे हरिसारथौ च नद्यर्जुने स्त्री तु स पौर्णमास्याम् ॥ ४८ ॥ Koṣakalpataru 6.21.48
  • कोषकल्पतरु धान्यजीवन्तिकायामथ मूल्यमाहुः वस्ने भृतौ चाथ विलेपभित्त्योः । कुड्यं च धान्यं तु किलाल्लकायां ( ? ) व्रीहौ सुपुण्ये तु परत्र धन्यः ॥ ३२ ॥ Koṣakalpataru 6.26.32
  • कोषकल्पतरु लौहित्यआकल्पेऽपि च रङ्गभुव्यतिथिषु त्वातिथ्य उक्तोऽन्तिमे स्यादर्थेऽतिथये सुते दुहितरि प्राज्ञैरपत्यं स्मृतम् । सामर्थ्यं किल योग्यतातिबलयोर्व्रीहौ पुनः सागरे लौहित्यश्चरमे पुनर्निगदितो ज्ञैर्लोहितत्वार्थकः ॥ ७२ ॥ Koṣakalpataru 6.26.72
  • नानार्थार्णवसंक्षेप मूतयः पटादिरुपादानद्रव्यतुल्यप्रयोजनः । तत्रापि मूतशब्दस्तु व्रीहावातञ्चने च ना ॥ १०१५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1015
  • नानार्थार्णवसंक्षेप लोहित्यवीहौ च नदभेदे च वञ्चुलस्तु द्रुमान्तरे । तिमिशाख्येऽप्यशोके च वेतसेऽथ वरूथवाक् ॥ १८२ ॥ Nānārthārṇavasaṃkṣepa 3.2.182
  • शब्दरत्नावली चीनत्रिषु सान्द्रे दृढे पूर्णे निबिडे सम्पुटेऽपि च । चीनो व्रीहिमृगभिदोस्तन्तौ देशेंऽशुके पुमान् ॥ Śabdaratnāvalī 7.20.5
  • शब्दरत्नावली धान्यभेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् । दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥ दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति । दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥ दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु । दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥ दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः । दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥ धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु । धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥ धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः । नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः । नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥ पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु । पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥ पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.18
  • शब्दरत्नावली मसूरमसूरा मसुरा वेश्यास्वथ व्रीहौ पुमानयम् । पापरोगे मसूरी स्यात्तथा मसुरिकेत्यपि ॥ मर्मरः पीतकाष्ठे स्याद्वस्त्रपर्णादिनिस्वने । मञ्जरं मञ्जरी च स्यान्मुक्तातिलकवल्लीषु ॥ मदिरा तु सुरायां स्त्री मदिरो मत्तखञ्जने । मुकुरः कुलवृक्षे स्याद्दर्पणे दण्डभिद्यपि ॥ मार्जार ओतौ खट्टासे मिहिरो वृद्धसूर्ययोः । मुदिरः कामुके मेघे मुहिरो मूर्खकामयोः ॥ Śabdaratnāvalī 7.27.96
  • वैजयन्ती मूतमार्गो मृगपदे मासि सौम्यर्क्षेऽन्वेषणेऽध्वनि । मूत आतञ्चने व्रीहौ व्रीह्यादेर्बन्धने तृणैः ॥ ४६ ॥ Vaijayantī 6.1.46
  • वैजयन्ती हायनहर्यक्षो धनदे सिंहे व्रीह्यब्दार्चिः षु हायनः । महोदरेपि हेरंबो हरिमा मृत्युरोगयोः ॥ ८४ ॥ Vaijayantī 7.1.84
  • वैजयन्ती पारावतनीचे व्रीहाविन्द्रनीले प्राणनाथो यमे प्रिये । पुण्डरीकं सितच्छत्रे कुष्ठभेदे सितांबुजे ॥ १६ ॥ Vaijayantī 8.5.16