शालि
śāliपुं · masc.In 18 kośas: 23 synonym verses, 2 as a nānārtha head word, 11 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
रक्तशालिर्महाशालिः कलमाश्चेति शालयः ।उद्दालः कथितः प्राज्ञैः कोद्रवः कोरदूषकः ॥ ५८० ॥
अनुष्टुप्
genderपुंmasc.
सुगन्धिः कोमलः शालिः षष्टिगस्तस्य भेदके ।प्रवरः शालिकः षष्टिः कमलस्तु कलावकः ॥ २५९ ॥
अनुष्टुप्
genderपुंmasc.
तत्र शूकेषु प्रथमे शालयः पुंस्यमी पुनः ।रक्तशालिर्महाशालिः कलमः शकुनाहृतः ॥ १८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षु (wrong syllable)
genderपुंmasc.
खट्वारूढोऽविनीतः स्यान्मसारमसृणौ समौ ।अग्र्योग्रगण्यो ग्रामण्यः श्रेष्ठः शाल्युत्तमः पुनः ॥ ५६ ॥
अनुष्टुप्
genderविadj.
शालिर्द्वयोरभिभवोऽभिभूतिश्च शला स्त्रियाम् ।अवज्ञानं च नीकारो व्रीडा व्रीडोऽप्यपत्रपा ॥ १३४ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
इक्षुपुष्पः स्वादुकन्दो दुषिका चेक्षुबालिका ।बल्वजो ना भूम्नि* स्यादुलपश्च प्रकीर्तितः ॥इक्षुः शालिः कुशः काशः शरः स्यात्तृणपञ्चकम् ।रौहिषं रोबलं(?) पूति भूतीकं कतृणं तृणम् ॥ १३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ना (syllables merged)
genderपुंmasc.
शालिस्तु गन्धमार्जारः फूत्यण्डः पुष्कलश्च सः ।पिङ्गलोडुबिडालः स्यादातुर्वनबिडालकः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
व्रीहिमान्व्रीहिको व्रीही शालिलः शालिकस्तथा ।शाली च शालियुक्तेऽथ चरव्यश्चरवे हुतः ॥स राजभोजनो राज्ञा भुज्यते योऽन्यलिङ्गकः ।शालयः कलमाद्याः स्युः कलमो ना कलामकः ॥लोहितो रक्तशालिः स्यान्महाशालिः सुगन्धिकः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
शालौ तु कलमाद्याः स्युः कलमे तु कलामकः ।लोहिते रक्तशालिः स्यान्महाशालौ सुगन्धिकः ॥ ३८७ ॥
अनुष्टुप्
genderपुंmasc.
षाष्टिकः कलमः शालिर्व्रीहिः स्तम्बकरिस्तथा ।वत्सः शकृत्करिर्जातः षोडन् षड्दशनः स्मृतः ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
एकशाले तु शालीयं द्विशाले शालिकं स्मृतम् ।त्रिशाले शालिशाल्ये द्वे भाशालीति च भण्यते ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
ऋद्धं च निर्बुसीधान्ये बहुलीकृतमिष्यते ।माषश्च कलमाः शाल्यः शालयः षष्टिकादयः ॥ ४३८ ॥
अनुष्टुप्
genderपुंmasc.
व्रीहिः शालिस्तन्दुलिकः कलमः षष्ठिको गुडः ।कङ्गुः प्रियङ्गुर्नीवारो वनशालिर्मुनिप्रियः ॥ २५६ ॥
अनुष्टुप्
genderपुंmasc.
पाटलो व्रीहिराशुः स्याद् गर्भपाकी च षष्टिकः ।शालयः कलमाद्याः स्युः कलमश्च कलामकः ॥ २१०७ ॥
अनुष्टुप्
genderपुंmasc.
शालिषष्टिकमुद्गादिबीजैरुत्पद्यते सदा ।तृणभूच्छत्रनामादिः सम्मूर्छज उच्यताम् ॥ २१६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शमीधान्ये तु माषादिर्यवादिः शूकधान्यके ।कलमाद्याः षष्टिकाद्याः शालयः पुंसि कीर्तिताः ॥
अनुष्टुप्
genderपुंmasc.
मुष्टिः स्यात् कटकं बन्धः खनित्रमवदारणम् ।व्रीहयः स्तम्बकरयः शालयः सिततण्डुलाः ॥ १४१३ ॥
अनुष्टुप्
genderपुंmasc.
तृणाद्यं मूलकं दर्भकाशेक्षुशरशालिभिः ।जीरकद्वितयं हिङ्गु साजमोदं ससैन्धवम् ॥ १४६९ ॥
अनुष्टुप्
genderपुंmasc.
प्रेङ्खितं स्याद्विलुलितं शालिश्रेष्ठावुभौ समौ ।परभागो गुणोत्कर्षे संदर्भो रचना न ना ॥ १८५४ ॥
अनुष्टुप्
genderविadj.
शालिपाली स्त्रियामुभे ॥ २४८ ॥
genderस्त्रीfem.
व्रीहयः स्तंबकरयः शालयः श्वेततण्डुलाः ।सुगन्धिको महाशाली रक्तशालिः सलोहितः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
धमिल्लचूडामुकुटेषु मौलि-र्द्वयोरशोके तु नृलिङ्ग उक्तः ।शालिः पु[68b]मान्स्यात्कलमे च गन्ध-मार्जारके योषिति पालिरस्रौ ॥ ८९ ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 शा (wrong syllable); pāda 2, syllable 1 मा (wrong syllable)
शालि as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् आशुआश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः ॥ Amarakośa 3.3.421
- धरणिकोश कलमकलमो लेखनी चैव शालीनां वाचकः पृथक् ? । नियमस्तु प्रतिज्ञायां यन्त्रणे निश्चये व्रते ॥ Dharaṇikośa 24.2.13
- कोषकल्पतरु बालिकामालिका तु सरिदन्तरे स्रजि श्रोत्रमण्डनकवालुकासु तु । बालिका भवति पत्रकाहला- बाल्यशालिललनास्वपि स्मृता ॥ १६ ॥ Koṣakalpataru 6.1.16
- कोषकल्पतरु पतंगकामे त्वनङ्गः खहृदोस्तु षण्ढे शालौ पतंगः शलभे खगेऽर्के । स्यात्पारदेऽन्त्येऽथ वरण्डकेऽपि नरङ्ग ऊर्मौ चरमे शफे स्यात् ॥ १९ ॥ Koṣakalpataru 6.3.19
- कोषकल्पतरु कलमचौरे च शालौ कलमोऽपि लाक्षा- रके तथा लेखनिकाह्वयेऽपि । क्लीबे तु तल्पे तलिमं विताने । तथा कृपाणेऽपि च कुट्टिमे च ॥ ८६ ॥ Koṣakalpataru 6.25.86
- नानार्थार्णवसंक्षेप पाण्डुधृतराष्ट्रानुजे पाण्ड्यदेशराजान्तरेऽपि च । शालिजात्यन्तरे रोगभेदे खर्जूरपादपे ॥ ७६४ ॥ Nānārthārṇavasaṃkṣepa 2.5.764
- शब्दरत्नावली कलमकलमः पुंसि लेखन्यां शालौ पाटच्चरेऽपि च । कुसुमन्तु फले पुष्पे स्त्रीरजोनेत्ररोगयोः ॥ Śabdaratnāvalī 7.25.33
- शब्दरत्नाकर पतंगपतंगः शलभे शालौ खगे कमलबान्धवे । पुष्परेणौ च रेणौ च परागः परिघोऽर्गले ॥ २११८ ॥ Śabdaratnākara 4.1.2118
- शब्दरत्नाकर प्रवरचतुष्पथे क्रमान्निम्ने प्रवरः शालिमुख्ययोः । पवित्रः पावके विष्णौ पवित्रं कलशे कुशे ॥ २१३४ ॥ Śabdaratnākara 4.1.2134
- त्रिकाण्डशेष कलमकुसुमं स्त्रीरजः पुष्पं क्षेमं कल्याणरक्षयोः । क्षेमा चण्डाऽथ कलमा लेखनीचौरशालयः ॥ २९४ ॥ Trikāṇḍaśeṣa 3.3.294
- वैजयन्ती पतंगप्रतिज्ञायन्त्रणाज्ञासु नियमो निश्चये व्रते । पतंगः शलभे शालौ मार्जारेऽग्नौ रवौ खगे ॥ ४० ॥ Vaijayantī 7.1.40