यव
yavaपुं · masc.In 17 kośas: 21 synonym verses, 17 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
भङ्गः स्यान्मातुला … ।महासो दीर्घशूकः स्यात्स्वरूडश्च पवित्रकः ।यवः केवलकुल्माषौ यवकं तोयपुष्पिका ॥ २६८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
धान्यभेदाः कङ्गुयवाः श्यामाका वरादयः ।फलीकृतस्तण्डुलः स्याच्छम्बूकाः सूक्ष्मतद्गणाः ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क (syllables merged)
genderपुंmasc.
यवो मेध्यान्नपर्यायो हविष्यः शितशूककः ।दिव्योक्षतस्तीक्ष्णशूकः पवित्रस्त्यक्तुरित्यपि ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
षड्भिस्ताभिर्मरीचिः स्त्री षड्भिराभिस्तु राजिका ।ताभिस्त्रिभिः सर्षपः स्यात्सर्षपैरष्टभिर्यवः ॥ ५१६ ॥
अनुष्टुप्
genderपुंmasc.
अन्यत्रैते स्वलिङ्गाः स्युः फलपाकशुक(?)पुनः ।फले प्रकृतिलिङ्गाः स्युर्यथा माषा यवास्तिलाः ॥ ४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 क (wrong syllable)
genderपुंmasc.
जीर्णप्रकारशालिर्यो गदितः स च जीर्णकः ।षष्टिको गर्भपाकी स्याद्व्रीहिभेदोऽस्त्रियामणुः ।वनव्रीहिस्तु नीवारो यवस्तु शितशूककः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
त्रिराजिकः सर्षपोऽथ यवोऽष्टाभिश्च सर्षपैः ।गुञ्जा चतुर्यवा तास्तु पञ्च स्युर्माषकोऽस्त्रियाम् ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
एते शब्दाः पुंसि भवन्ति । अयं शेखरः पुष्पसङ्घातः उत्तुङ्गो वा । यूपो यज्ञभाण्डम् । पुरोडाशो यज्ञपिण्डकिः । कूपोऽवटः । सूपो व्यञ्जनम् । लवो लेशः । शष्पो बालतृणम् । धर्म उपवासादिः । मयो वेश्म । वासांसि वस्त्राणि तेषां दशाः । दाराः स्त्रियश्च पुंसि भवन्ति बहुत्वं चैषां सदा भवति । इमे वासोदशाः वस्त्रान्तसूत्रम् । इमे दाराः स्त्रियः । वास इति किम् । दशा अवस्था ।मांसविवराभिधानं नपुंसके विद्धि तीर्थतुण्डे च ।यवमाषाद्या व्रीहयः पुंसि प्रियङ्गवश्च स्त्रियामेव ॥ ५६ ॥
metre not recognised
genderपुंmasc.
मांसाभिधानं विवराभिधानं च तीर्थतुण्डे च नपुंसके विद्धि जानीहि । यथा मांसं पलं पललं क्रव्यमित्यादि । इदं विवरं बिलं छिद्रं रन्ध्रं कुहरं सुषिरमित्यादि । इदं तीर्थं पुण्यस्थानम् । तुण्डं वक्त्रम् । यवमाषाद्या व्रीहयः पुंसि । यथा इमे माषाः मुद्गाः कुलत्थाः सोष्टाः गोधूमाः तिलाः कलापाः मसूराः सर्षपाः । प्रियङ्गवश्च स्त्रियामेव । इमाः प्रियङ्गवः ।पल्लव उक्तः पुंसि नपुंसके किसलयं स्त्रियां लाक्षा ।ऋग्रोचना पिडका कण्डूः क्षपा चैव ॥ ५७ ॥
metre not recognised
genderपुंmasc.
यवे हयप्रियस्तीक्ष्णशूकस्तोक्मस्त्वसौ हरित् ।मङ्गल्यके मसूरः स्यात् कलाये तु सतीनकः ॥ ३८८ ॥
अनुष्टुप्
genderपुंmasc.
सौगन्धिको महाशालिर्भेदाः शालेस्तु भूरयः ।हयप्रियस्तीक्ष्णशूको यवस्तोक्मो हरिन्मतः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
गोधूमो वर्हणो वल्पः तीक्ष्णशूको यवोऽवलः ।स्नेही तिलो वलीमाषः स्निग्धः सन्तर्पणः सरः ॥ २५७ ॥
अनुष्टुप्
genderपुंmasc.
यवो हयप्रियो लोके तीक्ष्णशूकश्च स स्मृतः ।स एव हरितस्तोक्मः कथ्यते कोविदैः किल ॥ २१०९ ॥
अनुष्टुप्
genderपुंmasc.
यवो ना शितशूकः स्यात् शीतशूकश्च कीर्तितः ।तोक्मं तत्रैव हरिते यवगुत्से च कुत्रचित् ॥
अनुष्टुप्
genderपुंmasc.
व्रीहिश्यामाकगोधूमयवमुद्गतिलाणवः ।माषप्रियङ्गुनीवारकोरदूषमसूरकाः ।गवीधुका कुलित्थश्च यज्ञीयास्ते चतुर्दश ॥ ११८६ ॥
अनुष्टुप्
genderपुंmasc.
शितशूको दीर्घशुको यवो यज्ञिय इत्यपि ।यवे तु हरिते तोक्म आशुव्रीहिस्तु पाटलः ॥ १४१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
genderपुंmasc.
ते तु गौरस्त्रयस्ते तु षड्यवस्तच्चतुष्टयम् ।गुञ्जा ताः पञ्च माषस्ते षोडशोऽक्षः स कर्षकः ॥ १४९६ ॥
अनुष्टुप्
genderपुंmasc.
जंघापदं चतुष्पादस्त्रिपादस्तु गृहान्तरम् ।अंगुलोऽस्त्री यवा अष्टौ समस्तु चतुरंगुलः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
धुरणश्च यवाग्रश्च ते त्रयो गौरसर्षपः ।तेऽष्टौ यवः षोडश तु यवा माषोऽथवा त्रिभिः ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
यव as a meaning in nānārtha verses
- धरणिकोश कुन्तलकुन्तलः कल्पितः केशे यवे जनपदान्तरे । शौष्कलश्चामिषाशी स्याच्छुष्कमांसपणायकः ॥ Dharaṇikośa 27.2.25
- धरणिकोश कुल्मासप्रहासः स्यान्नटबटौ हास्यतीर्थविशेषयोः । कुल्मासश्च यवे प्रोक्तः काञ्चिके यवपिष्टके ? ॥ Dharaṇikośa 31.2.16
- कोषकल्पतरु कुन्तलपित्तला तोयपिप्पल्यां निस्तलं वृत्तलोलयोः । स्यात्कुन्तलः पुंसि यवे लाङ्गले देशकेशयोः ॥ १२ ॥ Koṣakalpataru 6.28.12
- नानार्थार्णवसंक्षेप तुग्रअजगन्धाह्वयस्तम्बे पुनस्तुङ्गी पुमान् पुनः । तुग्रो यवे वरिष्ठे तु त्रिरन्नाकाशयोस्तु नप् ॥ ५४९ ॥ Nānārthārṇavasaṃkṣepa 2.5.549
- नानार्थार्णवसंक्षेप रूढत्रिषु वृक्षे तु ना रूढः पुनः पुंसि यवे त्रि तु । कृतप्ररोहणे शब्देऽवयवार्थबहिष्कृते ॥ ११२० ॥ Nānārthārṇavasaṃkṣepa 2.5.1120
- नानार्थार्णवसंक्षेप अक्षतक्ली त्रि त्वनीक्षितेऽथ स्यादक्षतं क्लीबलिङ्गकम् । धान्येऽपि तण्डुलेऽथ स्त्रीनपोर्लाजेषु ना यवे ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 4.21
- नानार्थार्णवसंक्षेप अरूढअरूढस्तु यवे पुंसि त्रिषु त्वकृतरोहणे । रूढादन्यत्र चास्थानं पुनस्त्रिषु जलाश्रये ॥ ८० ॥ Nānārthārṇavasaṃkṣepa 4.80
- नानार्थार्णवसंक्षेप पवित्रपावके पवने सोमे घृणौ यवविवस्वतोः । त्रि तु पूते क्ली तु ताम्रे गोमये सलिले कुशे ॥ १०५२ ॥ Nānārthārṇavasaṃkṣepa 4.1052
- नानार्थार्णवसंक्षेप महाबुस(म?न)खे वैश्रवणे राज्ञि महत्यथ महाबुसः । यवे हायनसंज्ञे च धान्येऽथ स्यान्महामुनिः ॥ ९८ ॥ Nānārthārṇavasaṃkṣepa 6.98
- नानार्थार्णवसंक्षेप अश्वप्रियअलेः प्रियायां त्रिषु तु प्रिये मधुलिहस्तथा । भलिर्यस्य प्रियस्तत्राप्यथो अश्वप्रियो यवे ॥ ३२ ॥ Nānārthārṇavasaṃkṣepa 6.32
- नानार्थार्णवसंक्षेप महाबुसकण्टकिव्रततीभेदेऽप्यत्राप्यर्थादि पूर्ववत् । महाबुसस्तु ना धान्ये हायनाख्ये यवे च ना ॥ ४६५ ॥ Nānārthārṇavasaṃkṣepa 6.465
- शिवकोष यज्ञाङ्गयवे सक्तुफलायां च बालपत्रेऽपि सर्पिषि । रक्ताङ्गो रञ्जने चित्रे रक्ताङ्गा विद्रुमेऽसृजि ॥ ९५ ॥ Śivakoṣa 3.2.95
- शिवकोष कुल्माषकुल्माषं काञ्जिकेनार्धस्विन्नधान्ये यवे चणे ॥ ५१९ ॥ Śivakoṣa 26.2.519
- शब्दरत्नावली शतपर्विकावचायामपि दूर्वायां यवे च शतपर्विका । अथ दीपे दर्पणे च कथितः शीतचम्पकः ॥ Śabdaratnāvalī 7.1.216
- शब्दरत्नावली कुन्तलकुन्तलेश्चषके केशे ह्रीवेरयवयोरपि । कुलालः कुम्भकारे स्यात्कौशिके कुक्कुभेऽपि च । कुम्भिलः शालमत्स्ये स्याच्चौरश्लोकार्यचौरयोः ॥ Śabdaratnāvalī 7.28.54
- वैजयन्ती अक्षतक्ल्यक्षतं तण्डुले धान्ये न ना लाजेषु ना यवे । अजिरं जर्जरे कामे विषयांकणयोर्द्रुते ॥ १४ ॥ Vaijayantī 7.5.14
- वैजयन्ती कलिङ्गकलिङ्गं तु यवे ना तु देशपक्षिविशेषयोः । खनको भूमिवित्तज्ञे मूषिकेऽप्यवदारके ॥ ३३ ॥ Vaijayantī 7.5.33