कोद्रव
kodravaपुं · masc.In 15 kośas: 18 synonym verses, 2 as a meaning of another word.
सा कृष्णा मधुका रक्ता शौधिका मुशटी सिता ।पीता माधव्यथोद्दालः कोद्रवः कोरदूषकः ॥ ११७७ ॥
अनुष्टुप्
genderपुंmasc.
तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः ।हरेणुरेणुकौ चास्मिन्कोरदूषस्तु कोद्रवः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
रक्तशालिर्महाशालिः कलमाश्चेति शालयः ।उद्दालः कथितः प्राज्ञैः कोद्रवः कोरदूषकः ॥ ५८० ॥
अनुष्टुप्
genderपुंmasc.
गोधूमः शतमर्वा स्यात् हेमाभः सुमनोगुरुः ।कोद्रवः कोटदूषः स्यात् बलकः करदूषकः ॥ २६९ ॥
अनुष्टुप्
genderपुंmasc.
विरुक्षणे द्रवन्नालमदना पतकोद्रवे ।चिक्कणः कन्दगुणिकः प्रियङ्गुः पीततण्डुलः ॥ २७० ॥
अनुष्टुप्
genderपुंmasc.
स्त्रियां स्यान्माधवी सैव काकपर्यायकङ्गुनी ।कोरदूषः कोद्रवः स्यादुद्दालो वनकोद्रवे ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
मदनाङ्गो देशदेशसम्भवो भिन्नजातिकः ।श्यामाकः कोद्रवः कङ्गुर्नीवारो मकरः कुली ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
लोहिता मधुका मा(सा?)तु सा कृष्णा विनिगद्यते ।श्यामाकः श्यामकश्चाथ कोद्रवः कोरदूषकः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
सा कृष्णा मधुका रक्ता शोधिका मुसटी सिता ।पीता माधव्यधोद्दाले कोद्रवः कोरदूषकः ॥ ३९५ ॥
अनुष्टुप्
genderपुंmasc.
गोधूमस्तु म्लेच्छभोज्यः सुमनाः सुमनो गुरुः ।शतपर्वा बहवकः कोद्रवे कोरदूषकः ॥ २१४ ॥
अनुष्टुप्
genderपुंmasc.
कोद्रवाख्ये धान्यभेदे कोरदूषः प्रकीर्तितः ।स्यात्स्वल्पचणके सूरमसूरो(रौ?) मिरिदोऽपि च ॥ ४२८ ॥
अनुष्टुप्
genderपुंmasc.
जवारिका दीर्घदण्डा कोद्रवः कठिनो सरः ।ग्राही घनो मटरको मरुधान्यकबाजरौ ॥ २६० ॥
अनुष्टुप्
genderपुंmasc.
मुसटी श्वेतकङ्गुः स्याद् माधवी पीतकङ्गुनी ।उद्दालः काद्रवः स्याच्च कोद्रवः कोरदूषकः ॥ २१२३ ॥
अनुष्टुप्
genderपुंmasc.
मृणालं नलदं सेव्यं लाज-नामज्जकाभयम् ।तृणं नलादयो गर्मुच्छ्यामाककोद्रवादयः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderपुंmasc.
कोद्रवः कोद्रवोऽपि स्यात् कोर्दूषः कोरदूषकः ॥
genderपुंmasc.
कोद्रवः कुद्रवोऽप्युक्तः युगन्धर्यां तु योनलः ।जोन्नाला यवनालश्च, जूर्णा जूर्णिः शणः सणः ॥ २५७ ॥
अनुष्टुप्
genderपुंmasc.
श्वेतकङ्गुस्तु मसुटी पीतकङ्गुस्तु मागधी ।उदारः काककङ्गुः स्त्री कोरदूषस्तु कोद्रवः ॥ १४२० ॥
अनुष्टुप्
genderपुंmasc.
सतीनकस्तु सातीनः समावुद्दालकोद्रवौ ।समौ तु वल्लनिष्पाचौ राजिका राजसर्षयः ॥ १८४५ ॥
अनुष्टुप्
genderपुंmasc.
कोद्रव as a meaning in nānārtha verses
- कोषकल्पतरु जालचालं छदौ स्यादपि कम्पनेऽन्त्ये जालस्तु नीपे कपटेऽथ ना न । आनायवातायनकोद्रवेषु स्त्री घोषके चाथ भुजंगमे स्यात् ॥ ६१ ॥ Koṣakalpataru 6.28.61
- नानार्थार्णवसंक्षेप वरकवनमुद्गे कोद्रवस्य प्रभेदे रूक्षणाह्वये । अस्त्रियां तु द्विखण्डाख्ये भवेत् प्रावरणान्तरे ॥ १६२४ ॥ Nānārthārṇavasaṃkṣepa 4.1624