मातापितृ
mātāpitṛपुं · masc.In 9 kośas: 8 synonym verses, 2 as a meaning of another word.
genderपुंmasc.
एकयोक्त्या प्रसू मातापितरौ पितरौ च तौ ।स्यातां जनयितारौ तौ मातरपितरावपि ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त (wrong syllable)
genderपुंmasc.
पितरौ मातापितरौ मातरपितरौ जनित्वौ च ।श्वश्रूश्वशुरौ * * * [श्वशुरौ]तातसुतौ स्तः पितापुत्रौ ॥ ९० ॥
metre not recognised
genderपुंmasc.
genderपुंmasc.
तथा मातरपितरौ स्यान्मातापितराविति ।श्वश्रूश्च श्वशुरश्चेति श्वशुरौ तावुभावपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
genderपुंmasc.
अम्बाऽप्यब्बा जनयित्री जनित्री जननीयुता ।जानी, पित्रोः स्मृतौ माता-पितरौ, मातरात्परौ ॥ १५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
genderपुंmasc.doubtful
भ्रात्रीयो भ्रातृजः पुत्रौ पुत्री पुत्रश्च तावुभौ ।पितरौ मातापितरौ मातरपितरावथ श्वशुरौ ॥ ११२९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सहप्रवाच्यौ भगिनीभ्रातरौ भ्रातराविति ।मातापितरौ पितरौ मातरपितराविति प्रसूतातौ ॥ ४७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
मातापितृ as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप जनिमन्रामायणप्रसिद्धे स्याद् गृध्रराजेऽपि गुग्गुलौ । जनिमा मातापितरावुत्पत्तिस्तनयोऽपि च ॥ ८८ ॥ Nānārthārṇavasaṃkṣepa 3.2.88
- नानार्थार्णवसंक्षेप जनित्रअश्वचर्मणि तु प्राह रभसोऽथ जनित्ववाक् । कुले द्यावापृथिव्योश्च मातापित्रोश्च कीर्तिता ॥ ३५ ॥ Nānārthārṇavasaṃkṣepa 3.3.35