कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भ्रातृ

bhrātṛपुं · masc.

In 13 kośas: 17 synonym verses, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.551 · p. 24
स्वजाते त्वौरसोरस्यौ मृते भर्तरि जारजः ।गोलकोऽथामृते कुण्डे भ्राता तु स्यात्सहोदरः ॥ ५५० ॥समानोदर्यसोदर्यसगर्भसहजा अपि ।सोदरश्च स तु ज्येष्ठः स्यात्पित्र्यः पूर्वजोऽग्रजः ॥ ५५१ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.283 · p. 25
भ्राता च भगिनी चापि भ्रातरावथ बान्धवः ।स्वो ज्ञातिः स्वजनो बन्धुः सगोत्रश्च निजः पुनः ॥ ५६१ ॥आत्मीयः स्वः स्वकीयश्च सपिण्डास्तु सनाभयः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.36
भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.105 · p. 32
एकशेषाद्भ्रातरौ तौ भगिनीभ्रातरावुभौ ।पुत्रीपुत्रावुभौ पुत्रावथ भार्यापती च तौ ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.91 · p. 209
मातापितृभ्यां यः शून्यश्छेमण्डः स प्रकीर्तितः ।नरौ नरश्च नारी च युवानौ युवतिर्युवा ॥भ्राता स्वसा च गदितौ भ्रातरावथ सोदरः ।सहोदरः सगर्भ्यश्च समानोदर्य इत्यपि ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.215 · p. 127
भ्राता सहोदरश्चैव समानोदर्यसंज्ञकः ।सोदर्यसहजौ पित्र्यपूर्वजौ वृद्धसोदरे ॥ २१५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.225 · p. 129
भ्राता च भगिनी चापि भ्रातरावेकशेषतः ।पुत्रश्च पुत्रिका चापि पुत्रौ वा पुत्रिकासुतौ ॥ २२५ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.54 · p. 4
तातो द्वितो जनुकरो भ्राता बन्धुः सहोदरः ।सहजन्मा सहजनु सहजो बान्धवोऽनुजः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.14 · p. 21
भ्राता सहोदरो बन्धुः सहजो बान्धवोऽपि च ।भगिनी तु स्वसा जामिर्दंपती दयितापती ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.581 · p. 133
भ्राता च सहजश्चापि समानोदर्य इत्यपि ।
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.897 · p. 136
भ्राता च भगिनी चापि भ्रातरौ कथ्येते खलु ॥ ८९७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.174 · p. 94
अथ भ्राता दायबन्धुस्तथा स्याद्भगिनी स्वसा ।ननान्दा नन्दिनी नन्दा ननन्दा च पतिस्वसा ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.191 · p. 96
भ्रातृभगिन्यौ भ्राता च स्वसा च भ्रातरावुभौ ॥
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1130 · p. 139
श्वश्रूश्वशुरौ भ्राता भगिनी च भ्रातरावेतौ ।पितामहश्च प्रपितामहश्चोभौ यथाक्रमम् ॥ ११३० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.41 · p. 126
कदंबकस्तु शुभकः सर्षपोऽस्मिन् पुनः सिते ।त्रिष्टुभभ्रात्ररक्षोघ्नाः शठः सिद्धार्थतोटकौ ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.31 · p. 175
सहजः स्वसरो भ्राता कनिष्ठोऽवरजोऽनुजः ।पूर्वजस्त्वग्रजो ज्येष्ठः पितृव्याः सहजाः पितुः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.47 · p. 176
सहप्रवाच्यौ भगिनीभ्रातरौ भ्रातराविति ।मातापितरौ पितरौ मातरपितराविति प्रसूतातौ ॥ ४७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.

भ्रातृ as a meaning in nānārtha verses

  • धरणिकोश गदगदा शस्त्रविशेषं स्याद्गदो भ्राता च शार्ङ्गिणः । नदो ध्वने समुद्रे च नदी तरंगिणी स्मृता ॥ Dharaṇikośa 17.2.2
  • कोषकल्पतरु बन्धुसाधुर्भवेद्वार्धुषिके मनोज्ञे स्यात्सज्जने पुंसि तु बन्धुजीवे । स्याद्बान्धवे भ्रातरि चापि बन्धु- र्वधूर्नवोढागृहिणीस्नुषासु ॥ ६७ ॥ Koṣakalpataru 6.20.67
  • कोषकल्पतरु दहरनागे च रागे दहरस्तु नाखौ स्वल्पे तथा भ्रातरि बालके च । स्याच्चामराभश्चमरो द्विलिङ्गो मृगप्रभेदेऽपि च मञ्जरीषु ॥ ३ ॥ Koṣakalpataru 6.27.3
  • नानार्थार्णवसंक्षेप सूनुसूनुस्तु पुंसि पुत्रे स्याद् भ्रातर्यप्यजयोऽब्रवीत् । इयं दुहितरि स्त्री स्यादथ सृप्रं नपुंसकम् ॥ १५४८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1548
  • नानार्थार्णवसंक्षेप दहरअल्पेऽथ भ्रातरि पुमान् रभसेन समीरितः । अथ त्रैराज्यजे द्वे स्यान्मर्त्यजात्यन्तरेऽपि च ॥ ९०८ ॥ Nānārthārṇavasaṃkṣepa 4.908
  • नानार्थार्णवसंक्षेप स्वसरत्रि तु तद्वत्यपि स्याच्च स्वर्गते स्व(रस?सर)स्तु ना । भ्रातरि क्ली तु दिवसे गेहे चाथ द्वयोरयम् ॥ १९१९ ॥ Nānārthārṇavasaṃkṣepa 4.1919
  • शब्दरत्नावली केशटकेशटो भातरि हरौ स्यादजौकणयोरपि । चर्पटः पर्पटे क्षारे चपेटे विपुलेऽपि च ॥ Śabdaratnāvalī 7.11.42
  • शब्दरत्नावली बन्धुनद्धो बद्धे समुद्धृते वधो बन्धकरन्धयोः । बन्धुर्ना बान्धवे मित्रे बन्धूके भ्रातरीत्यपि ॥ बाधा निषेधे दुःखे च बुधः सोमजसूरिणोः । बुद्धो जिने पण्डिते ना बुधितेऽपि च वाच्यवत् ॥ बोधः समाधिभेदे ना तथा पिप्पलभूरुहे । मधु क्लीबं पुष्परसे मर्त्ये क्षौद्रे रसान्तरे ॥ पुंसि मधुद्रुमे चैव वसन्ते द्रैत्यभिद्यपि ॥ Śabdaratnāvalī 7.19.8
  • शब्दरत्नावली दहरदहरो मूषिकाशारे भ्रातरि स्वलाकेऽपि च । दन्तुरः स्यादुन्नतातिनतोन्नतरदेषु च ॥ Śabdaratnāvalī 7.27.78