पितृ
pitṛपुं · masc.In 20 kośas: 37 synonym verses, 1 as a nānārtha head word, 20 as a meaning of another word.
genderपुंmasc.
पितरस्तु पितुर्वंश्या मातुर्मातामहा कुले ॥ ५५९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
genderपुंmasc.
genderपुंmasc.
मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ ।श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च ॥ ३७ ॥
आर्या
genderपुंmasc.
भाव इत्युच्यते विद्वान् भावुको भगिनीपतिः ।आवुकस्तु पिता ज्ञेय आर्यो मारिष उच्यते ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
अम्बा सवित्री जननी च माता,वप्ता च तातो जनकः पिता च ।स्नुषा जनी पुत्रवधूर्वधूः स्यात्,प्रजावती भ्रातृवधूः स्मृता च ॥ ५०४ ॥
उपजातिः
genderपुंmasc.
भर्तृदारक इत्युक्ते पतिस्त्वार्यः प्रकीर्तितः ।आर्यपुत्रस्तु पूज्यः स्यादार्यकस्तु पिता च सः ॥ १५२ ॥
अनुष्टुप्
genderपुंmasc.
सर्वेऽमी पितरः पूर्वे पूर्वजा अथ बान्धवाः ।सगोत्रः स्वजनो ज्ञातिः सगन्धो बन्धुरित्यपि ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
ज्ञातेयं देहकर्त्ता तु तातो जनयिता पिता ।जन्यो वप्रश्च सविता वप्ता जन्मार्थकारकः ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
एकयोक्त्या प्रसू मातापितरौ पितरौ च तौ ।स्यातां जनयितारौ तौ मातरपितरावपि ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त (wrong syllable)
genderपुंmasc.
पञ्चिका दुर्गसन्धानी पितरस्तु पितामहाः ।स्वधाकव्यभुजश्चन्द्रगोलस्थाः पूर्वजा अपि ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
आद्यो रौद्रोऽथ द्वितीयोऽहिः सितोऽथाज इत्यपि ।मैत्रोऽथारभटश्चापि पितरः सारटोऽप्यथ ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
रौद्राभ्युदयिकौ श्वेतसर्पौ मित्राह्वमैत्रकौ ।पितृचारभटौ भानुवसू तौयाह्वविश्वकौ ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
तातस्ततः पिता वप्ता रेतोधा जनकोऽपि च ।[79b]बीजी जनयितासौ तु व्रती संस्कारकृद्यदि ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
पितरौ मातापितरौ मातरपितरौ जनित्वौ च ।श्वश्रूश्वशुरौ * * * [श्वशुरौ]तातसुतौ स्तः पितापुत्रौ ॥ ९० ॥
metre not recognised
genderपुंmasc.
पितरः पितृवंश्याः[80b] स्युर्मातुर्मातामहाः कुले ।स्वो ज्ञातिःस्वजनो बन्धुर्बान्धवश्चारिकोऽपि सः ॥ १० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सवित्री जननी माता जनकः सविता पिता ।देहापघनकायाङ्गं वपुः संहननं तनुः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
पिता जनकतातौ तु वप्ता जनयिता समौ ।रेतोधोबीजिनौ चापि पितृतातपितामहौ ॥ २२१ ॥
अनुष्टुप्
genderपुंmasc.
श्वशुरश्च तयोस्तातः पितरः पितृपूर्वजाः ।मातामहा मातृवंश्या विशेषोऽयं निरीक्ष्यताम् ॥ २२४ ॥
अनुष्टुप्
genderपुंmasc.
समौ पिता च माता च पितरावेकशेषतः ।बान्धवः स्वजनो ज्ञातिः सगोत्रः स्वनिजावपि ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
पितरौ श्वशुरौ पुत्रौ दम्पती द्वन्द्ववाचकाः ।उल्बं जरायुषि प्रोक्तं तस्मिन्गर्भाश्रयोऽपि च ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
धाविका दुग्धदा धात्री धाविको दुग्धदापतिः ।धात्रीपुत्रो धाविकेयो जनेता जनकः पिता ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
पिता तु जनकस्तातो वप्ता जनयितापि च ।अम्बा माता सवित्री च जनयित्री जनन्यपि ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
वप्यो वप्ता तथा तातो बीजी बप्यः पिता पुनः ॥ ८९० ॥
अनुष्टुप्
genderपुंmasc.
श्वश्रूर्माता पतिपत्न्योः श्वसुरस्तु पिता तयोः ।पितरः स्यात् पितुर्वंश्या मातुर्मातामहाः कुले ॥ ८९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderपुंmasc.
genderपुंmasc.
तातः पिता प्रसविता वप्ता जनयिता गुरुः ।जन्मदो जनको जन्यो जनितापि च कुत्रचित् ॥
अनुष्टुप्
genderपुंmasc.
पुत्रौ पुत्रश्च कन्या च पुत्रश्च दुहिता च तौ ।प्रकृत्यन्तरमित्येके पितरौ तातमातरौ ॥
अनुष्टुप्
genderपुंmasc.
पितरः पितृशब्दश्च ज्ञातौ स्वः स्वजनस्तथा ।बान्धवो बन्धुरात्मीये स्व-स्वकीये नपुंसके ॥ १५१ ॥
अनुष्टुप्
genderपुंmasc.
त्वक् स्त्रिायमजिनं चर्म माता तु जननी प्रसूः ।जनयित्री सवित्री च तातो जनयिता पिता ॥ ११२२ ॥
अनुष्टुप्metre not read in every lineimpossible sign sequence: ्वक् स्त्रिायमजिनंnearly अनुष्टुप्
genderपुंmasc.
भ्रात्रीयो भ्रातृजः पुत्रौ पुत्री पुत्रश्च तावुभौ ।पितरौ मातापितरौ मातरपितरावथ श्वशुरौ ॥ ११२९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
आदित्याः पितरो विश्वे साध्याश्च वसवोऽपि च ।भृगवोऽङ्गिरसश्चेति स्वर्लोकस्य परिच्छदाः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
समदुर्दुहिता पुत्री द्वितीयः कुलधारकः ।पिता जनयिता वप्ता शिशुकः क्षीरकण्ठकः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
बीजी तु जनको वप्ता तातो जनयिता पिता ।पितामहः पितृपिता तत्पिता प्रपितामहः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
सहप्रवाच्यौ भगिनीभ्रातरौ भ्रातराविति ।मातापितरौ पितरौ मातरपितराविति प्रसूतातौ ॥ ४७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पितरस्तु पितुर्वंश्या मातुर्मातामहाः कुले ।अन्ववायोऽन्वयो वंशः सन्तानो जननं कुलम् ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
पितृ as a meaning in nānārtha verses
- धरणिकोश जनकअलकः कुटिले केशे अलका नगरीत्यपि । जनकः पितरि प्रोक्तो जनको मुनिभेदयोः ॥ Dharaṇikośa 1.2.41
- धरणिकोश ज्ञातिसुतौ पुत्रमहीपालावेतावागतकर्बुरौ । क्रतुर्मुनौ च यज्ञे च ज्ञातिः पितृसगोत्रयोः । धूर्तौ कितवधूस्तूरौ प्राप्तिः स्याल्लब्धिसिद्धयोः ॥ Dharaṇikośa 15.1.11
- धरणिकोश वप्तृयन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि । शास्ता च शासके शुल्के (?) वप्ता पितरि वापके ॥ Dharaṇikośa 15.1.13
- धरणिकोश वप्रवप्रः पितरि केदारे वप्रः प्राकाररोधसोः । अमरौ देवास्थिसंहारावमरे दूर्वागुडूचिके ॥ Dharaṇikośa 26.2.24
- धरणिकोश गुरुगुरुर्महति विख्यातो दुर्जरालघुनोर्गुरुः । गुरुर्निषेकादिकरे पित्रादिसुरमन्त्रिणोः ॥ Dharaṇikośa 26.3.18
- कोषकल्पतरु पोषयित्नुपयोधरे तु स्तनयित्नुरुक्तो मेघ[ध्व]नौ मृत्युगदाह्वयोश्च । स्यात्पोषयित्नुः पितरि प्रभौ च दुर्वादिविप्रे गदयित्नुरुक्तः ॥ ४८ ॥ Koṣakalpataru 6.21.48
- कोषकल्पतरु श्वाफल्ककौरव्यौ तु कुरोर्गोत्रापत्यतत्तनयौ द्विजौ । एवं श्वाफल्कवाशिष्ठबैदाः स्युः पितृपुत्रयोः ॥ ५५ ॥ Koṣakalpataru 6.26.55
- नानार्थार्णवसंक्षेप जन्युअपत्ये च पुमांस्त्वेष प्रादुर्भावे प्रजापतौ । पितर्यपि जगत् तु क्ली जगतीति स्त्रियामपि ॥ ४६८ ॥ Nānārthārṇavasaṃkṣepa 2.5.468
- नानार्थार्णवसंक्षेप ततवीणादिवाद्ये क्ली ना तु पितरि त्रि तु विस्तृते । व्याप्ते त्रयं तु त्रितये त्रिस्त्रिवेद्यां त्रयी स्त्रियाम् ॥ ५०५ ॥ Nānārthārṇavasaṃkṣepa 2.5.505
- नानार्थार्णवसंक्षेप वप्रपितरि त्रि तु वन्ध्यं स्यान्निष्फले स्त्री तु योषिति । अयोग्यायां गर्भधृतेर्वलस्तु नरि पर्वते ॥ ११७१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1171
- नानार्थार्णवसंक्षेप शस्तृमित्रावरुणयोश्चेति पितरीति च मन्यते । शक्वा तु हस्ते ग्रन्थादौ पुंस्यथो शक्वरी स्त्रियाम् ॥ १३३४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1334
- नानार्थार्णवसंक्षेप जनकधनञ्जयेन तु प्रोक्ता जनित्री मातरि स्त्रियाम् । जनकः पुंसि पितरि सीताताते च राजनि ॥ ७८१ ॥ Nānārthārṇavasaṃkṣepa 4.781
- शब्दरत्नावली तातजातीफले च मालत्यां छन्दस्यश्मन्तिकासु च । ज्ञातिस्ताते सगोत्रे च पुमानप्रसवेऽपि च ॥ ततं वाद्यव्याप्तयोर्ना मारुते विस्तृते त्रिषु । तातः पितरि पूज्ये स्यादनुकम्प्ये च पुंस्ययम् ॥ तिक्तः सुगन्धरसयोः पर्पटे तु नपुंसकम् । तिक्ता च कटुरोहिण्यां वचनादौ तु वाच्यवत् ॥ Śabdaratnāvalī 7.16.14
- शब्दरत्नावली सनातनसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
- शब्दरत्नाकर द्रोणमानभेदे पितर्यश्वत्थाम्नो गुल्मान्तरेऽपि च । स्याद्गुणेतरवाताद्योर्दोष एनसि दुर्विधौ ॥ १९३८ ॥ Śabdaratnākara 4.1.1938
- शब्दार्णव गुरुगुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे ॥ २२४ ॥ Śabdārṇava 224
- त्रिकाण्डशेष तातव्याप्तविस्तृतवाद्येषु ततं तिक्तं सुगन्ध्यपि । चापे तृणत्वे तृणता तातः पित्रनुकम्पयोः ॥ १५८ ॥ Trikāṇḍaśeṣa 3.3.158
- वैजयन्ती वप्रवप्रः पितरि ना न स्त्री क्षेत्रे रोधसि सानुनि । वर्षोऽस्त्री भारताद्यब्दवृष्टिषु प्रावृषि स्त्रियः ॥ ७९ ॥ Vaijayantī 6.5.79
- वैजयन्ती जनिमन्जगलो मेदके पिष्टमद्येऽपि कितवेऽपि च । जनिमा मातापितरावुत्पत्तिस्तनयोऽपि च ॥ २७ ॥ Vaijayantī 7.1.27
- वैजयन्ती सवितृसविता सारथौ रुद्रे पितर्यर्के सुजातिभिः । सन्निवेशे गणे गेहे संस्त्यायः संग्रहाः पुनः ॥ ७८ ॥ Vaijayantī 7.1.78