कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मोषक

moṣakaपुं · masc.

In 9 kośas: 9 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.41
चौरैकागारिकस्तेनदस्युतस्करमोषकाः ॥ २४ ॥प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.48 · p. 207
मोषकस्तस्करः स्तेन ऐकागारिककुम्भिलौ ।पुंसि क्लीबे स्तेनमपि खनिकाखनिकौ समौ ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.55 · p. 299
शुनःपुच्छादयो नाम्नि शुनीं पाता शुनिंधयः ।शौवः कुक्कुरसंकोचः शून्यं शुन्यं शुने हितम् ।शुनःपुच्छादयस्त्रय्यां कपाटघ्नः पुनर्मतः ।चोरश्चौरस्त[147a]स्करः स्यादैकागारिक-मोषकौ ।प्रतिरोधि-परास्कन्दि-पाटच्चर- मलिम्लुचाः ॥ ५५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.597 · p. 103
चौरे तु दस्युः स्तेनश्च ए(ऐ?)कागारिक इत्यपि ।मोषकः प्रतिरोधी च परास्कन्दी च पाट्चरः ॥ ५९७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.74 · p. 6
जीवान्तकः कौरिकिकः शाकुनिः सत्त्वशब्दवित् ।मोषकः स्तेनकश्चौरः स्तैन्यं पैशुन्यकं हृतिः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.65 · p. 40
पाशका देवना अक्षाः सारयोऽष्टपदं फलम् ।स्तेनः पाटच्चरो दस्युश्चौरस्तस्करमोषकौ ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.37 · p. 155
चौरो दस्युस्तस्करः स्यात् प्रतिरोधीमलिम्लुचः ।स्तेनैकागारिकः स्तन्यप्रच्छन्नजनमोषकाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1562 · p. 188
म्लेच्छादयश्च तद्भेदाः स्तेनश्चोरो मलिम्लुचः ।मोषकस्तस्करो दस्युर्लुण्टाकः प्रतिरोधकः ॥ १५६२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.56 · p. 140
प्रतिरोधी परास्कन्दी तस्करः प्रतिरोधकः ।स्तेनो रात्रिचरो दस्युर्मोषकः पारिपन्थिकः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.