कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Pañcatattvaprakāśa

पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa

409 verses · 3,817 words tagged · 962 marked doubtful (dashed)

भूमिभानुः · मनुष्यमरीचिः

मृन्मृत्तिका प्रशस्ता मृन्मृत्सा मृत्स्ना महीपलम् ।नीवृज्जनपदो देशविषयावुपवर्त्तनम् ॥ ४ ॥
1.1.4 · p. 1
अनुष्टुप्
प्राच्यः प्राक् पूर्व्व इन्द्राख्य उदगुत्तरधानदाः ।आगस्त्यो दक्षिणो याम्यः प्रत्यक्पाश्चात्यपश्चिमाः ॥ ५ ॥
1.1.5 · p. 1
अनुष्टुप्
पूः पुरी नगरी गेहि नगरं पुटभेदनम् ।स्थानीयं निगमो वासो गोपुरं पत्तनं पुरम् ॥ ६ ॥
1.1.6 · p. 1
अनुष्टुप्
आपणो विपणिः पण्यवीथिका हट्टकोऽट्टकः ।पल्लीग्रामो गृहं गेहं वेश्म सद्म निकेतनम् ॥ ७ ॥
1.1.7 · p. 1
अनुष्टुप्
सदनं भवनागारे मन्दिरं तल्पमाशया ।शय्या पर्य्यङ्कगः? खट्वाऽऽस्तरणं तूलिका सुवा? ॥ ८ ॥
1.1.8 · p. 1
अनुष्टुप्
सुजनी गुणिनी गुण्या वस्त्रोर्णं चित्रभूस्तरः ।उपधानं गेन्दुककं गवाक्षो जालमार्गतः ॥ ९ ॥
1.1.9 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गे (wrong syllable)
काश्मीरलोमं काश्मीरं कम्बलो वर्णकम्बलः ।कौशेयं पट्टकूल्लाह्वं क्षौमं कीटान्त्रतन्तुजम् ॥ १० ॥
1.1.10 · p. 1
अनुष्टुप्
वातायनं वाजिशाला मन्दुरा वेशनं कलम् ।शिल्पशाला शिल्पगृहं गजशाला गजालयम् ॥ ११ ॥
1.1.11 · p. 1
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 शि (wrong syllable)
गोस्थानं गोगृहं गोष्ठं शस्त्रशालाऽस्त्रमन्दिरम् ।महानसः पाकशाला देवशालाऽमरालयम् ॥ १२ ॥
1.1.12 · p. 1
अनुष्टुप्
मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः ।ना पुमान् पुरुषो गोध्मः पाञ्चजन्यजपूरुषौ? ॥ १३ ॥
1.1.13 · p. 1
अनुष्टुप्
राजा भट्टारको देवो भूपतिः क्ष्मापतिर्नृपः ।राज्ञी राजप्रिया देवी महिषी नृपवल्लभा ॥ १४ ॥
1.1.14 · p. 1
अनुष्टुप्
राजपुत्रो राजसूनुर्युवराजो नृपात्मजः ।कुमारोऽमात्यसचिवौ मन्त्री राज्यप्रचारकः ॥ १५ ॥
1.1.15 · p. 1
अनुष्टुप्
महामात्रः सुप्रधानो नृपपूज्यः पुरोहितः ।पुरोधा भूपतिगुरुर्गृहाध्यक्षो गृहाधिकृत् ॥ १६ ॥
1.1.16 · p. 2
अनुष्टुप्
सम्भारपालः सम्भारी सर्व्वसम्भाररक्षकः ।दिल्लीपतिः सार्व्वभौमोऽधीशो भूपपुरन्दरः ॥ १७ ॥
1.1.17 · p. 2
अनुष्टुप्
पातिसाहः शाककर्त्ता सेनानी सैन्यचारकः ।सेनाध्यक्षश्च सूनेता कोष्ठपो दण्डवासिकः ॥ १८ ॥
1.1.18 · p. 2
अनुष्टुप्
कोष्ठपालः कोशपतिर्धनपालो धनाधिपः ।भाण्डारिको द्रव्यरक्षो दैवज्ञो गणको भवित् ॥ १९ ॥
1.1.19 · p. 2
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
सांवत्सरो ज्योतिषिको मौहूर्तो गदहा भिषक् ।चिकित्सको भेषजविद्वैद्यो व्यासः पुराणकृत् ॥ २० ॥
1.1.20 · p. 2
अनुष्टुप्
पौराणिकः कथाकर्त्ता वीणाविद्वैणिकस्तनाट्? ।गेयको गायको रागी तानज्ञो गीतवर्त्तनः ॥ २१ ॥
1.1.21 · p. 2
अनुष्टुप्
नाट्यविन्नटको नाट्यो नर्त्तको लास्यकृन्नटः ।चित्रविच्चित्रकृच्चित्रकर्मा चित्रविलेखकः ॥ २२ ॥
1.1.22 · p. 2
अनुष्टुप्
लास्यं नृत्तं नर्त्तनकं नाट्यं नर्त्तनताण्डवे ।विपञ्ची तुंबिनी तन्त्री वीणा सप्तस्वरस्वना ॥ २३ ॥
1.1.23 · p. 2
अनुष्टुप्
लिपिरक्षरविन्यासः पङ्क्तिर्वर्णपरम्परा ।पत्राञ्जनं मसिर्मेला मसी कज्जलकन्यका ॥ २४ ॥
1.1.24 · p. 2
अनुष्टुप्
अर्णःशब्दोऽक्षरं वर्णः श्लोकः पद्यं सुभाषितम् ।मसीधेनुर्मषीपात्रं लेखनी वर्णतूलिका ॥ २५ ॥
1.1.25 · p. 2
अनुष्टुप्
वर्णदूतस्वस्तिवक्त्रोलेखो वाचिकहारकः ।पत्रमुद्रा काचनकाऽनङ्गलेखः स्मरेन्थिहा? ॥ २६ ॥
1.1.26 · p. 2
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 का (wrong syllable)
उपाध्यायोऽध्यापनकृत् पाठकोऽध्यापको गुरुः ।शिष्यः छात्रः पार्श्ववासी पवित्रः प्रयतः शुचिः ॥ २७ ॥
1.1.27 · p. 2
अनुष्टुप्
अपूतोऽविमलोऽशुद्धो मलिनोऽप्रयतोऽशुचिः ।लिपिकारोऽक्षरवणो लेखको द्वारपालकः ॥ २८ ॥
1.1.28 · p. 2
अनुष्टुप्
प्रतीहारो द्वारगोप्ता द्वास्थो वेत्रलताधरः ।स्थापन्यः कञ्चुकी षण्ठः सौविदुल्लो नपुंसकः ॥ २९ ॥
1.1.29 · p. 3
अनुष्टुप्
सांदेशिको दौत्यकरो दूतः पान्थः प्रवासधृक् ।प्रवासी पथिकोऽध[ध्व]न्योऽध्वगो? मित्रं सखा सुहृत् ॥ ३० ॥
1.1.30 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शत्रुर्वैरी सपत्नोऽरिर्द्वेषणो दुर्हृदो द्विषत् ।द्विट्विपक्षोऽहितोऽराति[भि]रमित्रं सख्यहा रिपुः ॥ ३१ ॥
1.1.31 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 भि]र (syllable split)
प्रत्यर्थी परिपथ्यस्व? आप्तः प्रत्ययितश्चरः ।चारो गूढनरो तर्वे? वशिकोऽन्तःपुराधिकृत् ॥ ३२ ॥
1.1.32 · p. 3
अनुष्टुप्
भटोऽनुजीव्यनुचरः पदातिः पदगोऽनुगः ।पत्तिर्भृत्यः शस्त्रजीवी किङ्करः सेवको जनः ॥ ३३ ॥
1.1.33 · p. 3
अनुष्टुप्
उपायनमुपग्राह्यमुपहारोपढौकिते ।शाणेयं कर्गलं शाद्वं पत्रमर्णावनिः सुधम् ॥ ३४ ॥
1.1.34 · p. 3
अनुष्टुप्
सिंहासनं भद्रपीठं भद्रासननृपासने ।हैमं छत्रमातपत्रमववादो? निदेशकः ॥ ३५ ॥
1.1.35 · p. 3
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 त्र (wrong syllable)
शासनं नृपनिर्देश आज्ञा तेजः प्रतापकः ।प्रभावः कीर्त्तिः सच्छ्लोकः प्रशस्तिः शुभ्ररुग्यशः ॥ ३६ ॥
1.1.36 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्त्तिः (wrong syllable)
वल्लभा प्रमदा कान्ता प्रेयसी दयितान्तरा ।सती पतिव्रता साध्वी चण्डा निष्कारणक्रुधा ॥ ४० ॥
1.1.40 · p. 3
अनुष्टुप्
मनस्विनी बहुमना आर्य्योदारस्वभाविनी ।बन्धकी कुनटा मुक्ता पुनर्भूः पुंश्चली खला ॥ ४१ ॥
1.1.41 · p. 3
अनुष्टुप्
कामुकीच्छा[युक्ता] स्याद्वृषस्यन्ती नरान्तरा ।अवीरा निष्पतिसूता विश्वस्ता विधवाऽधवा ॥ ४३ ॥
1.1.43 · p. 4
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 च्छा (syllables merged); pāda 3, syllable 6 ति (wrong syllable)
सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिणी ।सामान्यवनिता वेश्या पण्यस्त्री वारसुन्दरी ॥ ४५ ॥
1.1.45 · p. 4
अनुष्टुप्
वाराङ्गना वसुरता गणिका सर्व्ववल्लभा ।लोभिनी काञ्चनी वेश्या हौडिकी म्लेच्छगायिका ॥ ४६ ॥
1.1.46 · p. 4
अनुष्टुप्
कानीनः कन्यकापुत्रो बन्धुलः कुलटासुतः ।कौलटेयः कौलटेरो भागिनेयः स्वसुः सुतः ॥ ४७ ॥
1.1.47 · p. 4
अनुष्टुप्
स्वसृजो भगिनीपुत्रः सोदर्य्यः सोदरात्मजः ।भ्रातृव्यो भ्रातृतनयः पितृव्यः पितृसोदरः ॥ ४८ ॥
1.1.48 · p. 4
अनुष्टुप्
मातुलो जननीभ्राता भगिनी सहजा स्वसा ।शालको गृहिणीबन्धुः श्यालः पत्नीसहोदरः ॥ ४९ ॥
1.1.49 · p. 4
अनुष्टुप्
गृहिणीभगिनी श्याली श्यालिका गृहिनीस्वसा ।पाणिपीडनमुद्वाहो विवाहो मैथुनं रतम् ॥ ५० ॥
1.1.50 · p. 4
अनुष्टुप्
पशुधर्म्मो निधुवनं सम्भोगः कामसङ्गरः ।श्वशुरो दयितातातः श्वश्रू श्वशुरवल्लभा ॥ ५१ ॥
1.1.51 · p. 4
अनुष्टुप्
प्रजावती भ्रातृजाया ननन्दा श्व[स्व]श्रुजस्वसा ।जनयित्री प्रसूर्माता जननी जन्मदायिनी ॥ ५२ ॥
1.1.52 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
धाविका दुग्धदा धात्री धाविको दुग्धदापतिः ।धात्रीपुत्रो धाविकेयो जनेता जनकः पिता ॥ ५३ ॥
1.1.53 · p. 4
अनुष्टुप्
तातो द्वितो जनुकरो भ्राता बन्धुः सहोदरः ।सहजन्मा सहजनु सहजो बान्धवोऽनुजः ॥ ५४ ॥
1.1.54 · p. 4
अनुष्टुप्
कनिष्ठोऽग्रजनु? ज्येष्ठो देवरः पतिसोदरः ।धवः प्रियः पतिर्भर्त्ता वल्लभो दयितोऽसुपः? ॥ ५५ ॥
1.1.55 · p. 4
अनुष्टुप्
जार उपपतिः कुण्डो जारजो गोलकोऽन्यजः ।गर्भो दोहदकं भ्रूणः पोतो बालोऽर्भकः शिशुः ॥ ५६ ॥
1.1.56 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 उ (wrong syllable)
पुत्रः सुतः स्वजः सूनुरात्मजस्तनयौरसौ ।पौत्रो नप्ता पुत्रपुत्रः पौत्री नप्त्री सुतात्मजा ॥ ५७ ॥
1.1.57 · p. 5
अनुष्टुप्
दौहित्रो दुहितुः पुत्रो दुहिता तनया सुता ।दौहित्री दुहितुः पुत्री मातुली मातुलप्रिया ॥ ५८ ॥
1.1.58 · p. 5
अनुष्टुप्
मातुलेयो मातुलभूर्जामाता तनयापतिः ।पितृष्वसा पित्रनुजा तत्पुत्रः पितृस्वसृजः ॥ ५९ ॥
1.1.59 · p. 5
metre not recognised
सम्बन्धी सामरसिको मङ्गल्यो मङ्गलब्रुवः ।द्विजातिर्ब्राह्मणो विप्रो वाडवो भूसुरो द्विजः ॥ ६० ॥
1.1.60 · p. 5
अनुष्टुप्
सुधी[धि]र्विद्वान्बुधः सूरिर्विपश्चित्पण्डितः कविः ।अनक्षरः कुधीर्मूर्खो बुद्धिर्द्धीर्धिषणा मतिः ॥ ६१ ॥
1.1.61 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विषवैद्यो जाङ्गलिको गारुडिः सर्पमन्त्रवित् ।गोपो दासेरको दासो दासेयः परिचारकः ॥ ६२ ॥
1.1.62 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
चेटः प्रे[प्र]ष्यः परिस्कन्दो भूजिष्यः प्रपराचितः ।चेटी दासेरिका दासी प्रेष्या योज्या भुजिष्यिका ॥ ६३ ॥
1.1.63 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कारुः शिल्पी शिल्पकर्त्ता कुम्भकारः कुलालकः ।तन्तुवायस्तन्त्रवायः पटकर्त्ता कुविन्दकः ॥ ६४ ॥
1.1.64 · p. 5
अनुष्टुप्
मालाकारः पुष्पमालो मालिको वाटिकाद्रुपः ।रञ्जको रागकृद्वस्त्ररञ्जको राजकौण्डिकः ॥ ६५ ॥
1.1.65 · p. 5
अनुष्टुप्
शौण्डिको मदिराकर्त्ता गञ्जावा सोमदक्षितिः ।शस्त्रमार्गोऽस्त्ररुक्कर्त्ता शस्त्रोल्लेखोऽसिधावकः ॥ ६६ ॥
1.1.66 · p. 5
अनुष्टुप्
चर्माजीवश्चर्मकारः पादूकृच्चर्ममर्द्दकः ।लोहकारो लोहकर्त्ताऽयःकृल्लोहविघुट्टकः ॥ ६७ ॥
1.1.67 · p. 5
अनुष्टुप्
नाडिन्धमः स्वर्णकारः पश्यतोहरहैमिकौ ।कलादो रुक्मकृद्रुक्मकारको रुप्यकुट्टकः ॥ ६८ ॥
1.1.68 · p. 5
अनुष्टुप्
रत्नज्ञो रत्नरुक्कर्त्ता जटितो रत्नविक्रयी ।शाङ्खिकः काम्बुकः काम्बः शौल्बिकस्ताम्रकुट्टकः ॥ ६९ ॥
1.1.69 · p. 5
अनुष्टुप्
रथकारः काष्ठतक्षस्तष्टाऽक्षारुवार्द्धकी ।अन्तवासी क्षुरमुण्डी नापितो बालकर्त्तकः ॥ ७० ॥
1.1.70 · p. 5
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (syllables merged); pāda 3, syllable 6 र (wrong syllable)
निर्णेयकः पाटक्षाली रजको वस्त्रधौतकः ।अजाजीवच्छागपालो जाबालिर्मेषमाण्डलिः ॥ ७१ ॥
1.1.71 · p. 6
अनुष्टुप्
कृशाश्वी भरतो जायाजीवः पत्नीप्रवर्त्तकः ।मायाकारः छद्मनाट्यो मायिक ऐन्द्रजालिकः ॥ ७२ ॥
1.1.72 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
मार्द्दङ्गिको मौरजिको वेणुध्मा वेणुवादकः ।जालिको वागुराबन्धो मांसिको मांसविक्रयी ॥ ७३ ॥
1.1.73 · p. 6
अनुष्टुप्
जीवान्तकः कौरिकिकः शाकुनिः सत्त्वशब्दवित् ।मोषकः स्तेनकश्चौरः स्तैन्यं पैशुन्यकं हृतिः ॥ ७४ ॥
1.1.74 · p. 6
अनुष्टुप्
मातङ्गः श्वपचोऽस्पृश्यश्चण्डालः पुक्कसः प्लवः ।म्लेच्छः तुरुष्को यवनो विद्धकर्णो वराहभुक् ॥ ७५ ॥
1.1.75 · p. 6
अनुष्टुप्
बाहुजः क्षत्रियः क्षत्री राजन्यो मौलिसिंचितः ।ऊरुजः पीतरुग्वैश्यो विड्वाणिज्याऽवनिस्पृशः ॥ ७६ ॥
1.1.76 · p. 6
अनुष्टुप्
शूद्रोऽन्त्यवर्णोऽङ्घ्रिभवः श्यामः सेवनजीवनः ।भिल्लः किरातः शबरो निषादो वेणुकल्मषः ॥ ७७ ॥
1.1.77 · p. 6
अनुष्टुप्
मूर्द्धोत्तमाङ्गं मौलिः कं मस्तकं शीर्षकं शिरः ।शिरोरुहः शिरसिजः कुन्तलश्चिकुरः कजः ॥ ७८ ॥
1.1.78 · p. 6
अनुष्टुप्
बालः केशस्तनुरुहो रोम लोमाङ्गजात्मजाः ।कूर्चं वक्त्रा शिखाश्मश्रु गुम्फः पुंस्त्वद्रुमाङ्कुरः ॥ ७९ ॥
1.1.79 · p. 6
अनुष्टुप्
आननं वदनं वक्त्रं मुखमास्यं रदालयम् ।काकपक्षं शिखा वेणिर्वेणी कुन्तलशृङ्खला ॥ ८० ॥
1.1.80 · p. 6
अनुष्टुप्
जूटीबन्धः केशगुच्छो धम्मिलः कबरी कचा ।कर्णः श्रवः श्रुतिः श्रोत्रं श्रवणं शाब्दिकेन्द्रियम् ॥ ८१ ॥
1.1.81 · p. 6
अनुष्टुप्
दृक् दृष्टिर्नयनं नेत्रं लोचनं चक्षुरक्षिणी ।अपाङ्गो लोचनप्रान्तः कटाक्षः कुटिलेक्षितम् ॥ ८२ ॥
1.1.82 · p. 6
अनुष्टुप्
गोधिर्ललाटमलिकं निटिलं भालमर्द्धकम् ।घ्राणं गन्धेन्द्रियं घोणा नासिका गन्धवाहिनी ॥ ८३ ॥
1.1.83 · p. 6
अनुष्टुप्
रसज्ञा रसना जिह्वा रसाऽप्यारसनेन्द्रियम् ।रदनो दशनो दन्तो द्विजो भ्रूर्भ्रुकुटिः कुटिः ॥ ८४ ॥
1.1.84 · p. 6
अनुष्टुप्
गण्डस्थलं गण्डफलं कपोलो गल्लपालिका ।गल्लो वक्त्रपुटं वक्त्राजिरं वदनसम्पुटम् ॥ ८५ ॥
1.1.85 · p. 6
अनुष्टुप्
निमेषो नयनोन्मेषः पक्ष्म तारकृतोरणम् ।ओष्ठोऽधरो वक्त्रपर्णं[र्ण] हनुश्चिबुकपोत्रकम् ॥ ८६ ॥
1.1.86 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शिरोधरा गलो ग्रीवा कण्ठो घाटा कृकाटिका ।अंसः स्कन्धो बाहुशीर्शं कक्षास्पृक् बाहुमूलकम् ॥ ८७ ॥
1.1.87 · p. 7
अनुष्टुप्
पृष्ठवंशो मेरुदण्डः पृष्ठं पृष्ठस्थलं त्रिकम् ।कुचस्तनो हृदयजो नीलवक्त्रः पयोधरः ॥ ८८ ॥
1.1.88 · p. 7
अनुष्टुप्
रोमावली रोमराजी रोमसृक् त्रिवलिर्वलिः ।जठरं कुक्षिरुदरं पार्श्वमुभयपक्षकम् ॥ ८९ ॥
1.1.89 · p. 7
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 2 र्श्व (wrong syllable)
चित्तं चेतो मनः स्वान्तं तालुः काकुदतालुके ।मध्योऽवलग्नं क्षीणाङ्गं नाभिर्नालपयोरुहम् ॥ ९० ॥
1.1.90 · p. 7
अनुष्टुप्
हस्तः करः शयः पाणिर्बाहुः पञ्चशिफो भुजः ।अङ्गुष्ठोऽङ्गुलिभूपालः तर्जन्याद्या प्रदेशिनी ॥ ९१ ॥
1.1.91 · p. 7
अनुष्टुप्
अनामाऽनामिका मध्या मध्यमा दीर्घपर्विका ।कनिष्ठिका कनिष्ठान्त्या करजो नखरो नखः ॥ ९२ ॥
1.1.92 · p. 7
अनुष्टुप्
शिश्नः प्रजननं मेढ्रं मेहनं चर्मकीलकम् ।स्मरालयं भगं योनिरुपस्थं गूढमोहनम् ॥ ९३ ॥
1.1.93 · p. 7
अनुष्टुप्
वृषणोऽण्डोऽण्डकं मुष्को नितम्बः कटिमण्डनम् ।जघनोरू तालवृष्ठं कटिः काञ्चीगुणास्पदम् ॥ ९४ ॥
1.1.94 · p. 7
अनुष्टुप्
नीविकावसनं ग्रन्थिर्जङ्घा जानुः प्रसारिणी ।घुटिका चरणग्रन्थिः गुल्फः प्रार्ष्णिः प्रपार्श्विका ॥ ९५ ॥
1.1.95 · p. 7
अनुष्टुप्
चरणोऽङ्घ्रिः पदः पादः पादाग्रं प्रपदं कुधम् ।शङ्खावर्त्तं गुदं पायुरपानं गुह्यगोपने ॥ ९६ ॥
1.1.96 · p. 7
अनुष्टुप्
मूत्रं लिङ्गोदकोद्गारौ शकृद्विष्ठा पुरीषका ।कलेवरं वपुर्वर्ष्म प्रतीको देहविग्रहौ ॥ ९७ ॥
1.1.97 · p. 7
अनुष्टुप्
आत्मा गात्रं तनुः पिण्डं शरीरं पाञ्चभौतिकम् ।पर्वलेखाऽङ्गुलिग्रन्थिः पार्वी मुद्राङ्गुलीयके ॥ ९८ ॥
1.1.98 · p. 7
अनुष्टुप्
कङ्कणं वलयं चूली चूलिका वलयोर्मिका ।बाह्वटं बाहुवलयं केयूरं कटकाङ्गदे ॥ ९९ ॥
1.1.99 · p. 7
अनुष्टुप्
पादाङ्गदं तुलाकोटिः हंसो मञ्जीरनूपुरे ।पादाटनोऽङ्घ्रिवलयं नवटोऽङ्गुष्ठमौद्रिकम् ॥ १०० ॥
1.1.100 · p. 7
अनुष्टुप्
आदर्शिका दर्पणिका षड्मुद्र्याङ्घ्र्यङ्गुलीयिका ।ताटङ्कः कर्णवलयं कुण्डलं कर्णपाशिका ॥ १०१ ॥
1.1.101 · p. 8
अनुष्टुप्
कर्णपत्रं श्रुतिद[ढ]लमूत्तंसः कर्णभूषणम् ।अवतंसो मौलिमणिः कीरिटं मुकुटं कपम् ॥ १०२ ॥
1.1.102 · p. 8
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 मौ (wrong syllable)
मुक्तावली हारलता हारो माला प्रसूनस्रक् ।तरलो मध्यमाणिक्यं नायको हारभूपतिः ॥ १०३ ॥
1.1.103 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 न (wrong syllable)
मेखला सप्तकी काञ्ची रसना क्षुद्रघण्टिका ।अञ्जनं कज्जलं दैपं सिन्दूरं[र] स्त्रीविभूषणम् ॥ १०४ ॥
1.1.104 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पत्रावली पत्रलेखा देहरागोऽङ्गलेपनम् ।उद्वर्त्तनं गन्धचूर्णं हृन्माणिक्यचतुष्किका ॥ १०५ ॥
1.1.105 · p. 8
अनुष्टुप्
केशाटनी मौलिसिंहिकेशसम्मार्ज्जनी फणी ।अम्बरं वसनं वासो वस्त्रं चेलं गुणी पटः ॥ १०६ ॥
1.1.106 · p. 8
अनुष्टुप्
कबन्धनं मौलिवस्त्रमेकावर्त्तः कबन्धधृक् ।कञ्चुकं गात्रवसनं कञ्चुकी कुचगोपिका ॥ १०७ ॥
1.1.107 · p. 8
अनुष्टुप्
धौत्रं दशाधरं काच्छमंसवस्त्रोत्तरीयके ।दर्पणं मुकुरादर्शौ यन्त्रं कीलीमुखं पुटम् ॥ १०८ ॥
1.1.108 · p. 8
अनुष्टुप्
यूपस्तम्भो गेहबाहुर्द्वारं द्वार्मन्दिराननम् ।कपाटमररं वारमर्गला द्वारमुद्गरः ॥ १०९ ॥
1.1.109 · p. 8
अनुष्टुप्
गेहच्छत्रं गृहोष्णीषं देहली गेहनासिका ।कैशोरं शैशवं बाल्यं तारुण्यं यौवनं वयः ॥ ११० ॥
1.1.110 · p. 8
अनुष्टुप्
मध्यमं यौवनं प्रान्तं वार्द्धक्यं प्रान्तिमं जरा ।उपवीतं ब्रह्मसूत्रं तिलकं द्विजभूषणम् ॥ १११ ॥
1.1.111 · p. 8
अनुष्टुप्
पितृयज्ञः स्वधावर्त्तः श्राद्धं पिण्डनिपातनम् ।सप्ततन्तुः क्रतुर्यज्ञोऽध्वरो यागोऽग्नितर्पणम् ॥ ११२ ॥
1.1.112 · p. 8
अनुष्टुप्
पितृमन्त्रः स्वधा स्वाहा हविः सागोऽग्निवल्लभा ।मनुर्मन्त्रः ऋषिर्मन्त्रदर्शको मन्त्रचारकः ॥ ११३ ॥
1.1.113 · p. 8
अनुष्टुप्
वर्णी तीर्थार्पको ब्रह्मचारी गेही गृहस्थकः ।वानप्रस्थो वन्यभोजी दण्डी तुर्याश्रमी यतिः ॥ ११४ ॥
1.1.114 · p. 8
अनुष्टुप्