म्लेच्च्ह
mlecchaपुं · masc.In 8 kośas: 10 synonym verses, 1 as a meaning of another word.
किराताः शबरा निष्ट्याः पुलिन्दा नाहला भटाः ।माला म्लेच्छादयो भिल्लाः कथ्यन्ते ह्यन्तजातयः ॥ ५९९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शूद्रः सदाकरश्चारुवाको विष्णुपदोद्भवः ।यवनाद्यतिनीचेषु म्लेच्छा इति निगद्यते ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.doubtful
म्लेच्छो ना म्लेच्छितं क्लीबे शास्त्रे शब्दस्तु वाचकः ।वाय्वग्निभूजलाकाशा ह्रस्वा दीर्घाश्च संधिजाः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वाचोयुक्तिः स्त्रियां सम्यग्गिरां गुम्फनमीरितम् ।व्याहारो लपितं वचोऽपि वचनं स्यादीरितं भाषितंस्त्री तूक्तिर्गदिताथ साऽऽगम * * सिद्धान्तराद्धान्तकौ ।शब्दस्तु श्रुतिशास्त्रसाधुरितरो म्लेच्छोऽपशब्दो भवेत्सोऽपभ्रंश उदीर्यतेऽयमभिधावृत्त्यार्थसूर्वाचकः ॥ ५६ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.doubtful
दारदो हंसपादः स्यात्कुरुबिन्दोऽपि रक्तकः ।मणिरागकरो म्लेच्छो नरि स्याद्रक्तपारदः ॥अर्बुदोत्थं सीससत्त्वं तथा चोदारसङ्गकम् ।हरितालमलं तालमालं न स्त्री बिडालकम् ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.doubtful
सर्वज्ञो मांसविक्रेता शस्त्री स्याच्छस्त्रकारकः ।मालश्चण्डालको म्लेच्छो नीचोऽस्पृश्योऽथ पञ्चमः ।तद्भेदाः शृङ्खलाः कालाः यावनाः प्रांशुका नराः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.doubtful
तुरुष्का यवना म्लेच्छाः पारसीकाः शकास्तथा ।प्रष्टाना मुद्गलाश्चैव स साहिस्तेषु योऽधिपः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.doubtful
म्लेच्छादयश्च तद्भेदाः स्तेनश्चोरो मलिम्लुचः ।मोषकस्तस्करो दस्युर्लुण्टाकः प्रतिरोधकः ॥ १५६२ ॥
अनुष्टुप्
genderपुंmasc.doubtful
म्लेच्छ वरिष्ठं म्लेच्छास्यं श्रेष्ठं काम्यमुद्रुंबरम् ।रिरी तु रीतिरुत्साहा पीतलोहं सुलोहकम् ॥ २५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.doubtful
म्लेच्छाः स्युर्विप्रकृष्टा ये म्लेच्छवाचो वनौकसः ।कार्या क्षत्रुग्रवैदेहैरन्या वृत्तिरगर्हिता ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
म्लेच्च्ह as a meaning in nānārtha verses
- कोषकल्पतरु दरद्स्याच्छ्वभ्रेगतिगोचरेऽपि च गवां माने तथा गोष्पदं वर्षर्त्वोः शरदीरिता गिरिभृगुत्रासेषु नीवृद्भिदि । स्त्री म्लेच्छेऽपि दरन्मताथ च दृषत्पाषाणमात्रे स्त्रियां निष्पेषोपलकेऽथ पुंसि न भसद्वक्त्रे तथामाशये ॥ ३९ ॥ Koṣakalpataru 6.19.39