कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्तन्य

stanyaक्ली · neut.

In 11 kośas: 10 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.404 · p. 20
गुड इक्षुरसक्वाथः शर्करा तु सितोपला ॥ ४०२ ॥सिता च मधुधूलिस्तु खण्डस्तद्विकृतिः पुनः ।मत्स्यण्डी फाणितं चापि रसालायां तु भार्जिता ॥ ४०३ ॥शिखरिण्यथ यूर्यूषो रसो दुग्धं तु सोमजम् ।गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः ॥ ४०४ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.274 · p. 33
ऊधस्यं क्षीरं स्याद्दुग्धं स्तन्यं पयश्च पीयूषम् ।दधिसारं नवनीतं ब्रुवते हैयङ्गवीनं च ॥ २७४ ॥
metre not recognised
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.227 · p. 158
दुग्धं प्रस्रवणं धारि सौम्यमूधस्यमित्यपि ।पयोमृतं तन्नारीणां दुग्धे स्तन्यमतः परम् ॥ २२७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.17 · p. 283
स्तन्यं पुंसवनं दुग्धं गोरसोऽभिनवं तु तत् ।पेयुषोऽस्त्री स सप्ताहान्मोरणो मोलिकश्च सः ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.227 · p. 37
रक्षितं तूद्धृतं स्नेहान्मथितात्तु प्रमाथितम् ।पयो दुग्धं च पीतं च स्तन्यं पुंसवनं रसः ॥ २२७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.73 · p. 110
ऊधस्यं गोरसः स्तन्यं पेयूषं तन्नवं मतम् ।पयस्यं घृतदध्यादि विकारौ पयसो यथा ॥ ७३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.604 · p. 78
ऊधस्यममृतं गव्यं स्तन्यं योग्यं रसोत्तमम् ।बालसात्म्यं मधुज्येष्ठं जीवनीयं सरं रसम् ॥ ६०४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.37 · p. 155
चौरो दस्युस्तस्करः स्यात् प्रतिरोधीमलिम्लुचः ।स्तेनैकागारिकः स्तन्यप्रच्छन्नजनमोषकाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.769 · p. 98
दुग्धं तु क्षीरमूधस्यं पयः स्तन्यं नवं तु तत् ।पीयूषोऽथ हविः सर्पिर्घृतमाज्यं समार्थकम् ॥ ७६९ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.145 · p. 135
पयो दुग्धं च पीथं च स्तन्यं पुंसवनं सरम् ।गव्यं ज्येष्ठं मधु क्षीरं योग्यं सोमरसोद्भवम् ॥ १४५ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1460 · p. 167
परवल्लिङ्गतां विद्यादथ स्तनभवे त्रिषु ।स्तन्यं क्षीरे तु तत् क्लीबं सरस्तु नरि मारुते ॥ १४६० ॥
अनुष्टुप्

स्तन्य as a meaning in nānārtha verses

  • कोषकल्पतरु सुनारकणे सुनारस्तु भुजङ्गभाण्डे स्तन्ये च शून्याः कलविङ्ककेऽपि । शिशौ कुमा[57a]रो युवराजकीर- स्कन्दाश्वचारे वरुणद्रुमे ना ॥ ४६ ॥ Koṣakalpataru 6.27.46