रक्तचूर्णक
raktacūrṇakaपुं · masc.In 5 kośas: 4 synonym verses, 3 as a meaning of another word.
लोहिताङ्गो रेचनः स्याद्रञ्जनो रक्तचूर्णकः ।तुत्थं नीलाञ्जनं नीलं साम्लगर्तामृतोद्भवम् ॥ ५८२ ॥
अनुष्टुप्
genderपुंmasc.
संहर्षा चापि संस्पर्शा जन्तुकृष्णाह्वकृष्णिका ।अस्त्री कुसुम्भो लट्वा च महारजनमित्यपि ॥कटरो रक्तपुष्पः स्यात्किरिका पद्ममित्यपि ।कम्पिल्लकस्तु काम्पिल्लः कर्कशो रक्तचूर्णकः ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
किम्पाके तु महाकालः काकर्दः काकमर्दकः ।काम्पिल्यके तु कपिलो रक्ताङ्गो रक्तचूर्णकः ॥ १५५ ॥
अनुष्टुप्
genderपुंmasc.
सस्यशूकं तु किंशारुः कणिशं धान्यमस्तके ।स्नुहिर्वज्री महावृक्षो कम्पिल्लो रक्तचूर्णकः ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
रक्तचूर्णक as a meaning in nānārtha verses
- शिवकोष जातिकृत्तिर्भूर्जे त्वचायां स्त्री घृतमाज्ये जलेऽपि च । जातिर्जातीफले धात्र्यां मालत्यां रक्तचूर्णके ॥ १७८ ॥ Śivakoṣa 12.1.178
- शिवकोष रञ्जनजन्यां च रञ्जनं रक्ते रञ्जनो रक्तचूर्णके । स्त्रुक्निशारोचनानीलिजनीरक्तासु रञ्जनी ॥ २६२ ॥ Śivakoṣa 16.1.262
- शिवकोष रेचनसूपधूपनके क्लीबं रेचनो रक्तचूर्णके । रेचनी स्त्रुक्त्रिवृद्दोलाभयाह्रासमुकूलके ॥ २६४ ॥ Śivakoṣa 16.1.264