रञ्जन
rañjanaक्ली · neut.In 15 kośas: 17 synonym verses, 5 as a nānārtha head word, 2 as a meaning of another word.
अगुर्वगरु राजार्हं लोहं कृमिजवंशिके ।अनार्यजं जोङ्गिकं च मङ्गल्या मल्लिगन्धि यत् ॥ ६४० ॥कालागुरुः कालतुण्डः श्रीखण्डो रोहणद्रुमः ।गन्धसारो मलयजश्चन्दने हरिचन्दने ॥ ६४१ ॥तैलपर्णिकगोशीर्षौ पत्त्राङ्गं रक्तचन्दनम् ।कुचन्दनं ताम्रसारं रञ्जनं तिलपर्णिका ॥ ६४२ ॥
अनुष्टुप्
genderक्लीneut.
तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम् ।कुचन्दनं चाथ जातीकोशजातीफले समे ॥ १३२ ॥
अनुष्टुप्
genderक्लीneut.
तिलकं पुष्परचना पुष्पास्तरणमेव च ।रञ्जनं दन्तवस्त्रादेर्मणिबद्धावलिक्रिया ॥ ५०३ ॥
अनुष्टुप्
genderक्लीneut.
रत्नज्ञानं धातुवादो मण्यादेरपि रञ्जनम् ।तदाकारपरिज्ञानं वृक्षायुर्वेद एव च ॥ ५०९ ॥
अनुष्टुप्
genderक्लीneut.
रञ्जनं दरदं म्लेच्छं चित्राङ्गं चापि रञ्जकम् ।बर्बरं सुगरं चाथ गैरिकं गिरिमृद्भवम् ॥ ५६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
लोहिताङ्गो रेचनः स्याद्रञ्जनो रक्तचूर्णकः ।तुत्थं नीलाञ्जनं नीलं साम्लगर्तामृतोद्भवम् ॥ ५८२ ॥
अनुष्टुप्
genderपुंmasc.
बहुमूलः स्थूलशरो दीर्घमूलोऽथ रञ्जनः ।मुञ्जो मुञ्जतृणाह्वः स्याद्ब्राह्मणस्ते जनाह्वयः ॥ ३३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्थू (wrong syllable)
genderपुंmasc.
क्रन्दनं चारुष्करस्तु तपनोऽग्निमुखो द्वयोः ।अरुष्को वीरवृक्षः स्याद्रक्षोघ्नो रञ्जनो धनुः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कुचन्दनं रञ्जनं च हरिचन्दनमस्त्रियाम् ।ज्योतिष्टोमं किरातं च ज्योतिरक्तारुणद्रुमौ ॥ १२ ॥
अनुष्टुप्
genderक्लीneut.
रक्ताङ्गो रञ्जनो रेची रेचकश्चन्द्रकश्च सः ।तेजस्विनी तैजनी स्यादश्वघ्ना च महौषधी ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
रक्तपुष्पेऽत्र लगुडश्चण्डातश्चण्डगुल्मकौ ।तमाले तु कालस्कन्धस्तापिच्छो रञ्जनो वसुः ॥ ३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderपुंmasc.
रञ्जनं ताम्रसारं च कुचन्दनमपि स्मृतम् ।जातीफलं जातिकोशः कर्पूरो हिमवालुका ॥ २९५ ॥
अनुष्टुप्
genderक्लीneut.
पीतवर्णसमायुक्ते चन्दने चाथ रञ्जनम् ।पत्राङ्गं रक्तकं रक्तचन्दनं तु कुचन्दनम् ॥ १८८ ॥
अनुष्टुप्
genderक्लीneut.
गोशीर्षस्तैलर्णिकः प्रख्यातं हरिचन्दनम् ।कुचन्दनं तु पत्राङ्गं रञ्जनं रक्तचन्दनम् ॥ १०३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल (syllables merged)
genderक्लीneut.
तिलपर्णी रक्तवीजं रञ्जनं रक्तचन्दनम् ।फलं जातिर्जातिफलं जाती जातीफलं तथा ॥
अनुष्टुप्
genderक्लीneut.
पत्राङ्गं रञ्जनं रक्तचन्दनं च कुचन्दनम् ।कर्पूरागरुकस्तूरीतक्कोलैर्यक्षकर्दमः ॥ ११५० ॥
अनुष्टुप्
genderक्लीneut.
पत्रांगं रञ्जनं सेव्यं धूर्तमैरावतं लसम् ।कुचन्दनं जघन्यं च रक्तं च तिलपर्ण्यपि ॥ ११५ ॥
अनुष्टुप्
genderक्लीneut.
स्याद्व्यञ्जनं तेमनचिह्नवाचिश्मश्रुप्रतीकार्थमुशन्ति तद्वत् ।स्याद्रञ्जनं रागकरे पराभंक्लीबे तु तल्लोहितचन्दने स्यात् ॥ ५५ ॥
इन्द्रवज्रा
वल्लिभेदे च जतुकृत्संज्ञे क्लीबं तु रञ्जनम् ।स्याद्रक्तचन्दने स्त्री तु नीलीति प्रथितौषधौ ॥ १४८७ ॥
अनुष्टुप्
meaningsरक्तचन्दन
जन्यां च रञ्जनं रक्ते रञ्जनो रक्तचूर्णके ।स्त्रुक्निशारोचनानीलिजनीरक्तासु रञ्जनी ॥ २६२ ॥
अनुष्टुप्
रञ्जनो रागजनने रञ्जनं रक्तचन्दने ।नीलीरोचनिकाशुण्डामञ्जिष्ठासु च रञ्जिनी ॥रजनी रात्रिजतुकाहरिद्रानीलिनीषु च ।राधना तोषणे स्त्री स्यात्क्लीबं प्राप्तौ च साधने ॥राजा नृपे प्रभौ चन्द्रे क्षत्रिये च पुमानयम् ।रेचनी कर्कश-दन्ती-रोचनी-त्रिवृतासु च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 श (wrong syllable)
रञ्जन as a meaning in nānārtha verses
- शिवकोष रक्ताङ्गयवे सक्तुफलायां च बालपत्रेऽपि सर्पिषि । रक्ताङ्गो रञ्जने चित्रे रक्ताङ्गा विद्रुमेऽसृजि ॥ ९५ ॥ Śivakoṣa 3.2.95
- शब्दार्णव रागचित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयोः । सारङ्गादौ च रागः स्याद्द्रुण्ये रञ्जने पुमान् ॥ १९२ ॥ Śabdārṇava 192